अपदेशप्रवाहवीचयः - सुभाषित १६४१ - १६६०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१. वासुदेवः
भूता एव तिमिङ्गिलप्रभृतयो ये यादसामग्रिमास्
ते वैसारिणवेशकेशवशिशोर्जाता न रात्रौ पुनः ।
पृष्ठप्रोञ्छिततोयतुच्छजलधेरापूर्य येनान्तरं
ताः कल्लोलपरम्परा इव परं देहत्वचो दर्शिताः ॥१६४१॥
क्षियाकस्य ।
भ्रमति गिरिराट्पृष्ठे गर्जत्युपश्रुति सागरो
दहति विततज्वालाजालो जगन्ति विषानलः ।
स तु विनिहितग्रीवाकाण्डः कटाहपुटान्तरे
स्वपिति भगवान्कूर्मो निद्राभरालसलोचनः ॥१६४२॥
चिरन्तनशरणस्य । (सु.र. ११८, सूक्तिमुक्तावलि १०८.२)
जायन्ते बहवोऽत्र कच्छपकुले किं तु क्वचित्कच्छपी
नैकाप्येकमसूत सूनुमपरं सूतेन वा सोष्यते ।
आकल्पं धरणीधरोद्वहनतः सन्तापखिन्नात्मनो
यः कूर्मस्य दिनानि नाम कतिचिद्विश्रामदानक्षमः ॥१६४३॥
शतानन्दस्य । (सु.र. ११०५)
निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां स्थलीं पल्वले
जम्बालाविलमम्बु कर्तुमपरा सूते वराही सुतान।
दंष्ट्रायां चतुरर्णवोर्मित्पटलैराप्लावितायामियं
यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी ॥१६४४॥
अभिनन्दस्य । (स.क.आ. ४.९४, शा.प. १२१४, सूक्तिमुक्तावलि ३६.६)
अपत्यानि प्रायो दश दश वराही जनयति
क्षमाभारे धुर्यः स पुनरिह नासीन्न भविता ।
पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये
निमज्जन्तीमन्तर्जलधि वसुधामुद्वलयति ॥१६४५॥
वराहस्य । (सु.र. १२०६)
२. महादेवः
देवैर्दुग्धपयोधिरोधसि उरा कैर्नाम मन्थाचल
क्षोभप्रोद्गतचन्द्रमःप्रभृतये न प्रेषिताः पाणयः ।
स्वीचक्रे परमेक एव भगवानुद्विग्नलोकत्रयी
रक्षायै कटुकालकूटगरलग्रासं स गौरीश्वरः ॥१६४६॥
वासुदेवसेनस्य ।
छिन्ने ब्रह्मशिरो यदि प्रथयति प्रेतेषु सख्यं यदि
क्षीवः क्रीडति मातृभिर्यदि रतिं धत्ते श्मशाने यदि ।
सृष्ट्वा संहरति प्रजा यदि तदाप्याधाय भक्त्या मनस्
तं सेवे करवाणि किं त्रिजगती शून्या स एवेश्वरः ॥१६४७॥
उमापतिधरस्य ।
स्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां
व्यालैः कङ्कणकुण्डलानि कुरुषे हानिर्न हेम्नामपि ।
मूर्धन्यं तनुषे जडांशुमयशः किं नाम लोकत्रयी
दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥१६४८॥
शैलसर्वस्य ।
आहारो गरलं तृतीयमलिके चक्षुः कपालं करे
वासः कुञ्जरचर्म भस्मनि रतिर्भूषा भुजङ्गाधिपः ।
जन्मालक्ष्यमसाक्षिकं कुलमविज्ञाता च जातिः
कथं सेव्योऽस्माभिरसौ पिशाचपरिषद्भर्ता हताः स्मो वयम् ॥१६४९॥
धर्मयोगेश्वरस्य ।
पाणौ ब्रह्मकपालमशित्भिरलङ्कारोऽङ्गरागश्चिता
भस्माव्याहतमुत्तरीयमुरगः क्रीडा समं मातृभिः ।
यस्यैतान्यसमञ्जसानि तमनाचारैः पिशाचैर्वृतं
कः स्थाणुः फलवाञ्छया वद वृषादन्यो जनः सेवते ॥१६५०॥
तस्यैव ।
३. गणाः
तुल्यैवेश्वरसेवा कर्म न विद्मः पुराकृतं कीदृक।
भृङ्गी यदस्थिशेषो भृशतरमकृशश्च कूष्माण्डः ॥१६५१॥
वाक्पतेः ।
एको गिरिशः स्वामी गणता तुल्यैव वल्लभत्वं च ।
किं कुर्मः कर्मगतौ शुष्यति भृङ्गी विनायकः पीनः ॥१६५२॥
कस्यचित।
कपर्दी भूतिसंपन्नो जगतीपतिरद्वयः ।
धिग्दैवमव्ययः सोऽपि भृङ्गी शुष्यत्यतो भृशम् ॥१६५३॥
अमोघस्य ।
स्कन्दे मन्दावधानं चरति गणपतौ मौलिपातं न धत्ते
वृन्दे वृन्दारकाणां विनयवति भृशं नादरानातनोति ।
किं भूम्ना यश्च देवीं न नमति गिरिजां तस्य निर्व्याजवृत्तेः
क्षीआस्याप्येकनिष्ठा जयति भगवती भृङ्गिणस्तस्य भक्तिः ॥१६५४॥
उमापतिधरस्य ।
कूटस्थं श्रवणोपकण्ठविलसत्क्रूरद्विजिह्वाश्रयं
दक्षद्वेषिणमङ्घ्रलङ्घितवृषं वैषम्यभीमेक्षणम् ।
ईशं निर्गुणव्ययप्रकृतिकं संसेव्य भृङ्गी चिराद्
यज्जीवत्यतिदुर्बलेन वपुषा मन्ये स एवोत्सवः ॥१६५५॥
कस्यचित।
४. सूर्यः
किं नैव सन्ति सुबहूनि महामहांसि
चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय ।
सूर्यादृते न तदुदेति न चास्तमेति
येनोदितेन दिनमस्तमितेन रात्रिः ॥१६५६॥
आनन्दवर्धनस्य । (सु.र. १२०२, कस्यचित्)
रात्रावोषधयो ज्वलन्ति कलयन्त्यौज्ज्वल्यमप्यग्नयो
ज्योत्स्नाश्चन्द्रमसि स्फुरन्ति दधति ज्योतींषि तेजस्विताम् ।
अन्यच्च क्रिमयोऽपि बिभ्रति महोलेशानमुष्यैव ताः
सर्वा एव निधेस्त्विषां भगवतो दीप्तिप्रतिच्छायिकाः ॥१६५७॥
उमापतिधरस्य ।
अस्यामोषधयो ज्वलन्तु दधतु ज्योतींषि कीटा अपि
प्रोन्मीलन्तु भुजङ्गमौलिमणयः क्रीडन्तु दीपाङ्कुराः ।
प्रष्टव्याः खलु यूयमेव यदि कोऽप्यस्तं गते भास्वति
प्रौडःअध्वान्तपयोधिमग्नजगती हस्तावलम्बक्षमः ॥१६५८॥
जलचन्द्रस्य ।
अस्मिन्नक्तमहर्विवेकविकले कालाधमे नीरदैः
संनद्धैरभितो निरुद्धगगनाभोगासु दिग्भित्तिषु ।
भानोर्न प्रसरन्तु नाम किरणाः किं त्वस्य तेजस्विनः
सत्तामात्रपरिग्रहेण विकसन्त्यद्यापि पद्माकराः ॥१६५९॥
वासुदेवस्य ।
जगन्नेत्रश्रेणीतिमिरहरसिद्धाञ्जनसखा
मयूखा यस्यैते त्रिभुवनममोघं विदधति ।
अये कर्मालङ्घ्यं कलय किमपीदं तनुभृताम्
उलूकानामन्धंकरणकिरणः सोऽबरमणिः ॥१६६०॥
५. चन्द्रः
N/A
References : N/A
Last Updated : November 11, 2016
TOP