अपदेशप्रवाहवीचयः - सुभाषित १८०१ - १८२०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
३३. पर्वतः
कैलास रे पशुपतिस्थितिपात्रमात्र
संरूढगर्वमिह पर्वत सन्त्यजाशु ।
दृष्टोऽसि किं नहि सलीलसमुत्थितैक
पौलस्त्यहस्तकमलोपरि पुष्कराभः ॥१८०१॥
दामोदरस्य ।
मुरारातिर्लक्ष्मीं त्रिपुरविजयी शीतकिरणं
करीन्द्रं पौलोमीपतिरपि च लेभे जलनिधेः ।
त्वया किं तल्लब्धं कथय मथितो मन्दरगिरे
शरण्यः शैलानां यदयमदयं रत्ननिलयः ॥१८०२॥
कामदेवस्य । (शा.प. १०६८)
दृष्टा न द्विरदावली न चमरीपुच्छानिलः सेवितो
नैवासादि कदापि मौलिसविधे छत्रायमाणः शशी ।
नीताः क्षौणिभृतो न पादपदवीं धिग्दैवमम्भोनिधौ
मग्नस्यैव गिरीन्द्रपुत्र भवतो मैनाक यातं वयः ॥१८०३॥
वैद्यगदाधरस्य ।
एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमाद्
अस्तं याति कलानिधिस्तदनयोरस्तः प्रशस्तोऽचलः ।
को नामोदयिनं करोति न शिरोमाणिक्यमस्तं पुनर्
यातं यः कुरुते भवानिव स दुष्प्रापोऽयमुच्चैः शिराः ॥१८०४॥
पुण्डरीकस्य । (शा.प. १०७९, सूक्तिमुक्तावलि ३६.१५)
ध्वान्तास्कन्दितलोकलोचनजगज्जीवातुमुद्गत्वरं
सूरं मूर्ध्नि दधातु पूर्वशिखरी नैवात्र चित्रोदयः ।
प्राप्तास्तं दिवसे गतायुषि परिक्षीणांशुमेतं पुनः
कुर्वन्मौलिगतं करोति चरमश्चित्रं धरित्रीधरः ॥१८०५॥
मुद्राङ्कस्य ।
३४. मलयः
किं तेन हेमगिरिणा रजताद्रिणा वा
यत्र स्थिता हि तरवस्तरवस्त एव ।
वन्दामहे मलयमेव यदाश्रयेण
शाकोटनिम्बकुटजा अपि चन्दनानि ॥१८०६॥
कस्यचित्(स्व१००६)
चम्पकतरुणा सार्धं
स्पर्धा शाकोटकस्य युक्तैव ।
अस्मिन्मलयमहीभृति
सर्वे किल चन्दनं तरवः ॥१८०७॥
मुष्टिकस्य ।
मातङ्गाच्छतशः पुषाण शतशो व्यालीसुतान्संवृणु
प्रीणीथाः शतशस्तु गण्टदृषदः श्रीखण्डशैलेच्छया ।
आस्वर्गस्थलमामहीतलमथापातालमाविष्कृतं
त्वत्कीर्तिस्तु न चन्दनक्षितिरुहादन्यः समालोक्यते ॥१८०८॥
भट्टवेतालस्य ।
भ्रातश्चन्दनशैल मुञ्च जडतां विस्तारयन्सौरभं
गच्छन्नेव विलासिभिर्मरुदयं निर्वाजमालिङ्ग्यताम् ।
तिष्ठन्नेव पटीरकोटरदरीदर्वीकरोत्तम्भित
स्फारोत्फुल्लफणासहस्रचुलुकग्रासेन निर्वर्त्यते ॥१८०९॥
कस्यचित।
इतस्तावन्नेत्रे वलय मलयाद्रे निधिरपाम्
अपारस्त्वत्पादप्रणयपरतन्त्रो निवसति ।
अथात्मानं किं न स्मरसि कुलशैलं किमयशः
पताका सर्पौघैः प्रतिशिखरिशाखासु वहसि ॥१८१०॥
वसुकल्पस्य ।
३५. शरभः
उन्मुक्तक्रमहारिशैलशिखरात्क्रामन्तमन्यो धरः
कोऽत्र त्वां शरभीकिशोरपरिषद्धौरेय धर्तुं क्षमः ।
तस्मादुद्गमकेलिलङ्घनकलादुर्वीतलादुद्व्रज
त्वद्वासाय स एव कीर्तिकनकज्योत्स्नो गिरीणां पतिः ॥१८११॥
वल्लणस्य । (सु.र. १०५६)
यस्यानुद्धुरगन्धवातकणिकातङ्कार्तिनानादरी
कोणोदञ्चदुरोनिगूहितशिरःपुच्छा हरीणां गणाः ।
दृप्यद्दुर्जयगन्धसिन्धुरजयोत्खातेन का मे स्तुतिः
स्मेरोऽयं शरभः परां हृदि घृणामायाति जातस्मयः ॥१८१२॥
तस्यैव । (सु.र. १०४६)
अपि मृगपतिना करीन्द्रकुम्भस्थल
दलनोद्गतपौरुषेण यस्य ।
भयचकितदृशा प्रनष्टमुच्चैः
स हि शरभीकुलराजचक्रवर्ती ॥१८१३॥
माधवस्य ।
यः पृथ्वीवलयेषु विर्कमकथासीमास्थितिर्लाघव
क्रीडान्यक्कृतमारुतिर्मृगपतेर्निःसीमदर्पज्वरः ।
तादृक्तादृगुदञ्चदञ्चितचयैराश्चर्यकारी दिशां
ईशानां सरभः कथं स हि भवेदर्वाग्गिरां गोचरः ॥१८१४॥
मकरन्दस्य ।
नखज्योत्स्नागुच्छस्नपितगजगण्डस्थलभिदां
मृगेन्द्राणां जेतुस्तव समरभूमिषु शतशः ।
हते वा नीते वा बत लघुतरां शोच्यपदवीं
शुनीनां नाथेऽस्मिन्सरभ रभसस्यानवसरः ॥१८१५॥
कस्यचित।
३६. सिंहः
मृगेन्द्रं वा मृगारिं वा हरिं व्याहरतां जनः ।
तस्य द्वयमपि क्रीडा क्रीडादलितदन्तिनः ॥१८१६॥
कस्यचित। (शा.प. ९०१)
किं जातैर्बहुभिः करोति हरिणी पुत्रैरकार्यक्षमैः
पुत्रेणापि वनान्तरे विचलता यैः सार्धमुत्त्रस्यति ।
एकेनापि करीन्द्रकुम्भदलनव्यापारशक्तात्मना
सिंही दीर्घपराक्रमेण बलिना पुत्रेण गर्वायते ॥१८१७॥
भानोः ।
उत्क्रान्तं गिरिकूटलङ्घनसहं ते वज्रसारा नखास्
तत्तेजश्च तदूर्जितं स च नगोन्माथी निनादो महान।
आलस्यादविमुञ्चता गिरिगुहां सिंहेन निद्रालुना
सर्वं विश्वजयैकसाधनमिदं लब्धं न किंचित्कृतम् ॥१८१८॥
कस्यचित। (सु.र. १०३५)
विस्रं वपुः परवधप्रवणं च करम्
तिर्यक्तयैव विदितः सदसद्विवेकः ।
इत्थं न किंचिदपि चारु मृगाधिपस्य
तेजस्तु तत्किमपि येन जगद्वराकम् ॥१८१९॥
वसुन्धरस्य । (सु.र. १०९१)
असंज्ञाः खल्वेते जलशिखिमरुद्धूसनिचयाः
प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदमदः ।
प्रसीद प्रारम्भाद्विरम विनयेथाः क्रुधमिमां
हरे जीमूतानां ध्वैरियमुदीर्णो न करिणाम् ॥१८२०॥
अमरसिंहस्य । (सु.र. १०७१)
N/A
References : N/A
Last Updated : November 11, 2016
TOP