अपदेशप्रवाहवीचयः - सुभाषित १७६१ - १७८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


२५. सर्पः

छिद्रानुसारनिपुणत्वमिदं त्वदीयं
दृष्ट्वा गतौ कुटिलतां वदने विषं च ।
मन्ये सरीसृâ भवानुचितं मनुष्य
प्राणापहारविषये विधिना नियुक्तः ॥१७६१॥

कस्यचित।

एतस्य जाङ्गुलिक नार्पय मन्त्रदर्पाद्
आस्ये निजाङ्गुलिमयं खलु कोऽपि सर्पः ।
अत्रैव यस्य विषमेण विषेण दग्धास्
ते त्वादृशा निरसवः पतिताः सहस्रम् ॥१७६२॥

नाचोकस्य ।

यद्वीक्षसे शिखिमग्निभुवः सहेलं
यद्वा विलोकयसि तार्क्ष्यमवज्ञयैव ।
लीढौषधिपरिवृढोऽसि यदृच्छया तद्
वन्दामहे हरभुजङ्ग तवैव जन्म ॥१७६३॥

वदियगदाधरस्य ।

अलमभिमुखैर्बद्धैर्भोगैरलं भ्रमिभिर्
दृशोरलमविरलैर्गर्जोद्गारैरलं विषवृष्टिभिः ।
किमिह भुजगाः कोपावेगैरमीभिरमुद्रितैर्
ननु भगवतस्तार्क्ष्यस्यैते वयं स्तुतिपाठकाः ॥१७६४॥

तस्यैव ।

क्षुद्रास्ते भुजगाः शिरांसि नमयत्यादाय येषामिदं
भ्रातर्जाङ्गुलिक त्वदाननमिलन्मन्त्रानुबिद्धं रजः ।
जीर्णस्त्वेष फणी न यस्य किमपि त्वादृग्गुणीन्द्रव्रजा
कीर्णक्ष्मातलधावनादपि भजत्यानम्रभावं शिरः ॥१७६५॥

उमापतिधरस्य ।

२६. भेकः

अपि नदथ निकामं दर्दुराः किं सुवर्ण
द्युतिभरमुपनीता नूतनैर्वारिपूरैः ।
अयमचिरविनाशी शोचनीयस्तु भावी
स चिरमवटसीम्नि प्राच्य एव क्रयो वः ॥१७६६॥

नाकोकस्य ।

इयत्पृथ्वीमात्रं तदनु च नभोमण्डलमियद्
इयान्पातालान्तो जलमपि पृथिव्यामियदिति ।
इति ज्ञात्वा कूपे विदितविषयो नायमपरः
परं मुग्धो भेकः प्रबलतररावं प्रकुरुते ॥१७६७॥

जयनन्दिनः ।

किं नाम दर्दुर दुरध्यवसाय सायं
कायं निपीड्य निनदं कुरुषे रुषेव ।
किं तानि केलिरसितानि सितच्छदानाम्
आकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥१७६८॥

कस्यचित। (सूक्तिमुक्तावलि ३६.४९)

श्रुत्वा कुम्भभुवो मुनेरिह दुराचारं कमप्यद्भुतं
सिन्धोरन्धुकुटुम्बि दर्दुरकुलं हर्षादिदं ध्यायति ।
गाम्भीर्याद्यदि ते न बिभ्यति न वा त्रस्यन्ति भेकीशिशोर्
अत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम् ॥१७६९॥

जलचन्द्रस्य ।

भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने
दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः ।
यच्चाधोमुखमक्षिणी विदधता नागेन तूष्णीं स्थितं
तन्मन्ये विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥१७७०॥

तस्यैव । (स्व१०१९, शा.प. ११७७)

२७. पद्मम्

दर्पोत्सेकभृतामसाधु चरितं प्रायेण लक्ष्मीभृताम्
आमूलं गुणसंग्रहात्तु नलिन त्वच्चेष्टितं किं स्तुमः ।
यच्छुष्के सरसि प्रयासि विदशां संवासमर्यादया
सम्पूर्णे कमनीयकोमलदलं भासि प्रवृद्धाङ्कुरम् ॥१७७१॥

वसन्तदेवस्य ।

कासारशोषिणि नवोदयमानमुग्ध
सद्वर्तिकानिवहदाहिनि दारुणेऽपि ।
मध्यन्दिनोष्णकिरणे प्रतिपन्नसख्य
स्मेरं सुखं जयति चित्रचरित्रमब्जम् ॥१७७२॥

योगेश्वरस्य ।

धिक्कुर्मोऽस्य मधुव्रतस्य चरितं दोषातनीं दुर्दशां
दृष्ट्वा यस्तव पद्मषण्डकुमुदैर्धत्ते रहस्ताण्डवम् ।
श्लाघ्यस्तं पुनरेक एव यदिह प्रातः समभ्यागते
तान्येवोल्लसितानि सैव सखिता तच्चैव कोषार्पणम् ॥१७७३॥

वैद्यगदाधरस्य ।

अत्रैव सरसि जातं विकसितम्
अत्रैव निर्भरं नलिनैः ।
कालवशागततुहिनैर्
विलीनमत्रैव हा कष्टम् ॥१७७४॥

कस्यचित।

कान्तिस्ते यदि निर्मला यदि गुणा लक्ष्मीर्यदि स्थायिनी
मा गाः पद्म मदं तथापि गलिता ह्येते शरद्वासराः ।
संस्पर्शेन तुषारवारिपृषतामालूनमूर्तेः सरो
मध्येऽत्रैव वराटकेन भवतः स्थेयं पुनः केवलम् ॥१७७५॥

उमापतिधरस्य ।

 २८. भ्रमरः

शाखिनि शाखिनि कुसुमं
कुसुमे कुसुमे मधुकरकुलानि ।
विरलं सन्मधु कुसुमं
विरलो रसतत्त्वविन्मधुपः ॥१७७६॥

वीरस्य ।

अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु ।
मुघ्दामजातरजसं कलिकामकाले
व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥१७७७॥

विद्यापतेः । (Kउवल्. ८९, द.रू.. उन्देर्४.३३, सा.द.. ३.१७७)

मधुकरगणश्चूतं त्यक्त्वा गत्नवमालिकां
पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।
तदपि सुचिरं स्थित्वा कुन्दे प्रयाति सरोरुहं
परिचितगुणद्वेषी लोको नवं नवमीहते ॥१७७८॥

कस्यचित। (स्व७४०, शा.प. ८२९)

येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया
नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।
भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
सोऽयं भृङ्गयुवा करीरविटपे बध्नाति दृष्टिं कुतः ॥१७७९॥

कस्यचित। (शा.प. ८३७)

अशोके शोकार्तः किमसि बकुलेऽप्याकुलमना
निरानन्दः कुन्दे सह च सहकारैर्न रमसे ।
कुसुम्भे विश्रम्भं यदिह भजसे कण्टकशतैर्
असंदिग्धं दग्धभ्रमर भवितासि क्षतवपुः ॥१७८०॥

कस्यचित। (सु.र. १०७४)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP