अपदेशप्रवाहवीचयः - सुभाषित १७४१ - १७६०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
२१. सरः
मञ्जुस्वनाः शकुनयः सुभगोऽवतारो
रम्यं च शाद्वलमधस्तटपादपानाम् ।
इत्यादि साधु सकलं कमलाकरस्य
किं त्वाविलं जनितमम्बु नवोदकेन ॥१७४१॥
मङ्गलस्य ।
प्रतिविपिनमनिन्द्यस्वादुविस्फारवारि
प्रविचरदुरुपत्रिव्यूहनिर्वाहभाजः ।
कति न कति तडागाः सन्ति किंत्वस्य हंस
प्रवर वहति कस्ते मानसस्य प्रतिष्ठाम् ॥१७४२॥
कस्यचित।
वारां धारणं अध्वनीनविधुरच्छेदाय भृङ्गस्रजां
हर्षायाम्बुजसंचयः सितगरुत्प्रीत्यै मृणालग्रहः ।
का वा तस्य कथार्घितस्य सरसो यत्तीरजन्माप्यसौ
दूरादेव दृशोः श्रमं हरति नः स्निग्धावलोकस्तरुः ॥१७४३॥
वैद्यगदाधरस्य ।
अमीषामुष्णांशोः किरणनिकराणां परिचयात्
सरस्तीक्ष्णं मा भूस्तव किल निसर्गः शिशिरिमा ।
दुरात्मानो ह्येते कतिपयपयोबिन्दुरसिकान्
निरस्यन्तः पान्थांस्त्वयि किमपि शोषं विदधति ॥१७४४॥
उमापतिधरस्य ।
सलीलं हंसानां पिबति निवहो यत्र विमलं
जलं मोहात्तस्मिन्सरसि रुचिरे चातकयुवा ।
स्वभावाद्गर्वाद्वा न पिबति पयस्तस्य शकुनैः
किमेतेनोच्चैस्त्वं भवति लघिमा वापि सरसः ॥१७४५॥
शकटीयशवरस्य । (सु.र. १०७०, कस्यचित्)
२२.शुष्कसरः
निःसारितेऽम्भसि कृषीबलमण्डलेन
कोलव्रजैः कवलितासु मृणालिकासु ।
तीरद्रुमे दवहतेऽद्य सखेऽध्वनीन
शोकाय केवलमलोकि सरस्त्वयेदम् ॥१७४६॥
वैद्यगदाधरस्य ।
कासारे मदमत्तवारणगणैराकुम्भमग्नं पयः
पीतं यत्प्रभवोरुवीचिवलनैर्व्याप्तं समस्तं जगत।
तस्मिन्नेव रवेः प्रचण्डकिरणश्रेणीनिपीताम्भसि
प्राप्ताः पान्थनखंपचाः प्रतिपदं मध्यस्थलीभूमयः ॥१७४७॥
माधवस्य ।
स्थलं पाशैर्व्याप्तं प्रबलपवनैरम्बुजवनं
जलं क्षीणप्रायं विवरशरणं च्âण्डजकुलम् ।
इदानीमेतस्मिन्सरसि चिरसेवाप्रणयिनां
विहङ्गानां भावी स खलु पुटपाकव्यतिकरः ॥१७४८॥
कस्यचित।
वातैः शीकरवर्षिभिः श्रुतिसुखैर्हंसावलीनिस्वनैर्
उन्निद्रैः कमलैः पयोभिरमलैर्नीत्वा परां निर्वृतिम् ।
पश्चात्क्षीणधनां वहन्निजतनुं धन्यो मृणालीच्छलाद्
अर्थिभ्यः प्रददौ नवेन्दुविशदान्यस्थीनि पद्माकरः ॥१७४९॥
भव्यस्य । (सु.र. १६५७, कस्यचित्)
मदोष्णप्रागल्भ्याद्वनकरिघटा यत्र विमले
ममज्जुर्निःशङ्कं तटनिकट एवोन्नतकराः ।
गते शोषं दैवाद्वरसरसि तत्रैव तरला
बकग्रासत्रासाद्विशति शफरी पङ्कमधुना ॥१७५०॥
मधुरशीलस्य । (सु.र. १०४३, कस्यचित्)
२३. पूर्णसरः
घनसमयसरः क्व भृङ्गमालाः
स्मरसि तदा विहगाः क्व बन्धुवाचः ।
अकरुणा सहशोषिणी मृणाली
पुनरपि सेयमधस्त एव मूर्ध्नि ॥१७५१॥
विरिञ्चेः ।
तीव्रार्कद्युतिदह्यमानवपुषा दावानलस्योष्मणा
शोषं दूरमुपागतेन पथिक क्लेशान्मुहुर्मूर्च्छता ।
भ्राम्यद्दीनदृशा तृषातुरतया कौपीरपोऽपीच्छता
मज्जद्दन्ति पतत्पतत्रि सुकृतैरेतन्मयाप्तं सरः ॥१७५२॥
क्षितीशस्य ।
आस्तामेव सरोवरेण्य भवतो दुग्धोदलब्धामृत
स्वादस्पर्धि सरोजवृन्दखचितं हंसावतंसं पयः ।
स्फारोल्लोलसुशीतशीकरचयासारप्रसिक्तानिल
स्पर्शैरेव मनोहरैरपगताः संतापशोषक्लमाः ॥१७५३॥
गोसोकस्य ।
यत्कूपेष्वपि दूरनिह्नुतपयोलेशेषु नीतं मनो
यत्खातेष्वपि पङ्कदुर्गसलिलस्तोकेषु दृष्टिः कृता ।
स्मेरोद्दण्डितपुण्डरीकमसकृत्कल्लोललीलामयं
त्वामासाद्य तडाग सम्प्रति स मे शान्तो निदाघज्वरः ॥१७५४॥
वैद्यगदाधरस्य ।
भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः
पाठीनैस्तनुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् ।
तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं
येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥१७५५॥
छित्तपस्य । (B्प्२०१, स्व८४३, दक्षिणात्यस्य; शा.प. ७७७, अकालजलदस्य; सु.र. १०५९, द्वन्दूकस्य)
२४. मीनः
पाठीन मुञ्च कुन्ददं यदिहाम्बु पीत्वा
मिश्रं निरन्तरपतत्तटभूमिपङ्कैः ।
उन्मज्जतस्तव पतिष्यति कोमलायां
गाढं तनौ कुररचञ्चुशरप्रहारः ॥१७५६॥
वसन्तदेवस्य ।
क्व शकुलशिशो गम्भीराम्भः सरस्तव जन्मभूः
क्व च नवजलक्रीडारम्भादियं तटसङ्गतिः ।
तदिह विवरे नीत्वात्मानं कुलीरविवर्जिते
विगमय दिनं यावच्चास्ते बकोटकुटुम्बकम् ॥१७५७॥
भास्करदेवस्य ।
विषमविषधरप्रगाढघोरे
सरसि सरस्यपि निःस्पृहोऽसि जीवे ।
शफर परिहरेदमात्मदेह
स्थितिमनुचिन्तयतः क्व नास्ति सौख्यम् ॥१७५८॥
कविचक्रवर्तिनः ।
शफर संहर चञ्चलतामिमां
चिरमगाधजलप्रणयी भव ।
इह हि कोमलवञ्जुलजालके
वसति दुष्टबकोटकुटुम्बकम् ॥१७५९॥
अभिनन्दस्य ।
सरोरत्नादस्मात्सफर तव तीरावतरण
प्रणालीसंचारव्यसनमशुभं ते कथमभूत।
अहो मुग्धेदानीं निजदुरुपचारव्यवसितां
कुवेणीबद्धः सन्ननुभव दशामुत्फलसि किम् ॥१७६०॥
कस्यचित।
N/A
References : N/A
Last Updated : November 11, 2016
TOP