अपदेशप्रवाहवीचयः - सुभाषित १८८१ - १९००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


४९. तरुः

शाखानामुपरि स्थितैः शकुनिभिर्दूराद्गृहीता दिशः
सद्योमुक्तफलैर्विवृत्य कपिभिः पश्यद्भिरेव स्थितम् ।
छायापास्तपरिश्रमैश्च पथिकैरात्मा परं रक्षितो
न क्षुद्रैर्निपतन्निशातपरशावात्मार्पितः शाखिनि ॥१८८१॥

अभिनन्दस्य ।

मूर्धारोपणसत्कृतैर्दिशि दिशि क्षुद्रैर्विहङ्गैर्द्रुतं
छायादाननिराकृतश्रमभरैर्नष्टं मृगैर्भीरुभिः ।
हा कष्टं फललोलुपैरपसृतं शाखामृगैश्चञ्चलैर्
एकेनैव दवानलव्यतिकरः सोढः परं शाखिना ॥१८८२॥

कस्यचित। (सु.र. १०२४)

सुच्छायं फलभारनम्रशिखरं सर्वार्तिशान्तिप्रदं
त्वामालोक्य सुभूरुहं खलु वयं मार्गं विहायागताः ।
अन्तस्ते यदि कोटरोदरचलद्व्यालावलीविस्फुरद्
वक्तोद्वान्तविषानलातिभयदं धन्यस्तदानीं भवान॥१८८३॥

विद्यायाः । (सु.र. १०५०)

व्याकुर्महे बहु किमस्य तरोः सदैव
नैसर्गिको यदुपकाररसः परेषु ।
उन्मूलितोऽपि मरुता बत वारिदुर्गे
मार्गे यदन्यजनसंक्रमतामुपेतः ॥१८८४॥

कस्यचित। (सु.र. १०९०)

सोढप्रौढहिमक्लमानि शनकैः पत्राण्यधः
सम्भाव्यच्छदवाञ्छयैव तरवः केचित्कृतघ्नव्रताः ।
नामन्यन्त तदातनीमपि निजच्छायाक्षितिं तैः पुनस्
तेषामेव तले कृतज्ञचरितैः शुष्यद्भिरप्यास्यते ॥१८८५॥

अचलसिंहस्य । (सूक्तिमुक्तावलि ३३.८, बिल्हणस्य; सु.र. १०४२)

५०. कल्पतरुः

सर्वार्थिनामभिमतानि फलन्नपि त्वं
कल्पावनीरुह न मानवतामुपास्यः ।
यस्मात्त्वया न विहितो विदुषां निःशेषस्
तेषामकारि विफलः सफलः प्रयासः ॥१८८६॥

नाकोकस्य ।

बालवामनवृद्धानां नत्वा यो न फलप्रदः ।
तस्मिन्कल्पतरौ स्तब्धे लब्धेनापि फलेन किम् ॥१८८७॥

राजकुब्जदेवस्य ।

पत्राणि प्रथमं द्रुतानि विकुलैरुत्खातमूलः क्रमात्
कीटैः कल्पमहीरुहः स पतितो भग्नाः शतं वल्लयः ।
एकेभ्योऽपि पुनः प्ररोहति भृशं तस्याङ्करग्रामणीः
पूर्वाशाधिपतिः प्रसीदति स चेद्देवो दयावान्हरिः ॥१८८८॥

बलभद्रस्य ।

निष्पन्नाः कति नाम नामरपुरोपान्तेषु भूमिरुहः
श्लाघ्यस्तत्र स एव कल्पविटपी यत्रासतेऽमी गुणाः ।
संकल्पाः फलदोहदानि फलितं रत्नानि वृत्तिर्जगत्
क्लेशच्छेदनिदानमुन्नतिरनुल्लङ्घ्या यशो दुर्जयम् ॥१८८९॥

शरणस्य ।

स्वर्णः स्कन्धपरिग्रहो मरकतैरुन्मीलिताः पल्लवा
मुक्ताभिस्तवकश्रियो मधुलिहां वृन्दानि नीलोपलैः ।
संकल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलां
धिग्जातिं द्रुमसंकथासु यदसौ कल्पद्रुमापि द्रुमः ॥१८९०॥

गदाधरनाथस्य । (शा.प. ९८८, सूक्तिमुक्तावलि ३३.११)

५१. चन्दनः

श्रमच्छित्त्यै छायां भज पथिक हे चन्दनतरोर्
इह व्यालव्रातः पुनरिति भयं मा खलु कृथाः ।
इदानीमेतस्मिन्कृतवसतयः सन्ति शिखिनः
स्वनैर्येषां रम्यैरपि हि फणिनः क्वाप्यपसृताः ॥१८९१॥

अचलसिंहस्य ।

आमोदैस्ते दिशि दिशि गतैर्दूरमाकृष्यमाणाः
साक्षाल्लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्मः ।
किं पश्यामः सुभग भवतः क्रीडति क्रोड एव
व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधयामः ॥१८९२॥

तस्यैव (शा.प. ९९८, सूक्तिमुक्तावलि ३३.२४, सु.र. १०७८)

क्षिप्तश्चेन्मलयाचलेन्द्र भवतः पादोपजीवी निजस्
तैरुत्पाट्य निकुञ्जनिर्झरपयःपूरैः पटीरद्रुमः ।
तन्निर्यातु जहातु पन्नगकुलं तापं निहन्तु श्रियं
धत्तां विन्दतु वन्द्यतां त्रिजगतां त्वत्कीर्तिमुन्मुद्रयन॥१८९३॥

साञ्जानन्दिनः  ।

ककुभि ककुभि भ्रामं भ्रामं विलोक्य विलोकितं  
मलयजसमो दृष्टोऽस्माभिर्न कोऽपि महीरुहः ।
उपचितरसो दाहे च्छेदे शिलातलघर्षणैर्
अधिकमधिकं यत्सौरभ्यं तनोति मनोहरम् ॥१८९४॥

भामहस्य । (सु.र. १०८२)

क्व मलयतटी जन्मस्थानं क्व ते च वनेचराः
क्व खलु परशुच्छेदः क्वासौ दिगन्तरसङ्गतिः ।
क्व च खरशिलापट्टे घृष्टिः क्व पङ्कसरूपता
मलयज सखे मा गाः खेदं गुणास्तव वैरिणः ॥१८९५॥

मलयजस्य । (सु.र. १०५३)

५२. अश्वत्थः

छायामस्य निषेव्य पिप्पलतरोराकृष्य शाखाः शतं
भुक्तं प्रागिति लज्जया गजपते किं नात्र विश्रम्यते ।
दैवेनेदृशयोग एव घटितो यत्त्वादृशां कोटिभिस्
तादृक्तादृगयं कृतः पुनरभूदेतादृशः पल्लवैः ॥१८९६॥

ईश्वरभद्रस्य ।

सत्यं पिप्पलपादपोत्तम घनच्छायोन्नतेन त्वया
सन्मार्गोऽयमलङ्कृतः किमपरं त्वं मूर्तिभेदो हरेः ।
किं चान्यत्फलभोगकृष्टमुखरास्त्वामाश्रिताः पत्रिणो
यत्पुंस्कोकिलकूजितं विदधते तन्नानुरूपं परम् ॥१८९७॥

शालिकनाथस्य । (सु.र. १०६१, कस्यचित्)

नोन्मीलन्तु नितम्बिनीकरतलस्पर्धाभृतः पल्लवाः
प्रत्युद्यान्तु न वैणनाभिमधुरा मोदाः प्रसूनश्रियः ।
नाभुवन्फलसम्पदो मधुरसप्रस्यन्दभाजस्तथाप्य्
अश्वत्थस्य गतः सुखेन जगतां वन्द्यस्य जन्मग्रहः ॥१८९८॥

उमापतिधरस्य ।

साक्षान्नैष करोति कामपि मुदं नादृत्य हन्त्यापदो
न प्रीणाति मनीषिणां श्रवणमप्याश्वासनासूक्तिभिः ।
तस्याम्भोधिसुतापतेर्भगवतोऽधिष्ठानमात्रादसौ
दुःस्वप्नान्विनिवेदितानपहरत्यश्वत्थभूमीरुहः ॥१८९९॥

तस्यैव ।

पत्राणि त्रुटितानि कीटपटलैरामूलमुन्मूलिताः
शाखा वन्यमतङ्गजैर्न करभैरास्वाद्य मुक्ता त्वचः ।
स्थाणुः केवलमस्ति पिप्पलतरोस्तत्रापि शीतातुरैर्
ग्रामीणैः परितः कुठारपतनारम्भः परामृश्यते ॥१९००॥

तस्यैव ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP