अपदेशप्रवाहवीचयः - सुभाषित १८४१ - १८६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


४१. मत्तगजः

गले पाशस्तीव्रश्चरणयुगयुग्मे च निगडो
दृढः कक्षाबन्धः शिरसि सृणिघातः खरतरः ।
नरः स्कन्धारूढो बत रमणयोग्येऽपि समये
न जानीमो मूढ द्विरदवर कस्मात्तव मदः ॥१८४१॥

लङ्गदत्तस्य । (शा.प. ९३१)

अयं दूरभ्रान्तः पटुतरपिपासाकुलमनाः
कपोले ते मत्तद्विप निपतितः षट्पदयुवा ।
त्वमप्येतां पीनश्रवणदरदोलाव्यसनितां
विमुञ्च स्वाच्छन्द्यादपनयतु तावत्तृषमिमाम् ॥१८४२॥

सुरभेः ।

नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवे
पीतं येन सरोजिनीदलपुटे होमावशिष्टं पयः ।
तं दानावसरे तु मत्तमधुप व्यालोलगण्डं गजं
सानन्दं सभयं च पश्यति मुहुर्द्वारे स्थितस्तापसः ॥१८४३॥

मनोकस्य । (स्व६३७, शा.प. ९१८, सु.र. १६८९)

दानक्लिन्नकटस्य कुञ्जरपतेः स्वच्छन्दसंवर्धनैः
क्षीयन्ते यदि कोटयोऽप्यपचयः किं तेन भूमीभुजाम् ।
येनैकेन रणाङ्गणप्रणयिना निर्जित्य शत्रोः पदं
दीयन्ते निजनायकाय वसुधाचक्राधिपत्यश्रियः ॥१८४४॥

वासुदेवसेनस्य ।

ग्राम्यामग्रे करेणुं स्वयमुपनयता येन बद्धोऽसि पाशैर्
येन क्षुण्णं शिरस्ते सृणिभिरमसृणैर्येन बाह्यः कृतोऽसि ।
तत्पादाङ्गुष्ठसंज्ञा परवशहृदयो द्रष्टुकामानमन्तून्
जन्तूनभ्येषि हन्तुं त्वमसि गजपते सत्यमेको मदान्धः ॥१८४५॥

उमापतिधरस्य ।
४२. पङ्कपतितगजः

दूरादेव करञ्जसर्जसरलप्रायान्व्त्लोक्य द्रुमान्
क्षुत्क्षामो विकलः करी क्षितिभृतः पादान्तिके प्रस्थितः ।
मोहादागत एव निर्भरदरीदुर्गे निरालम्बनो
निर्मग्नः किमयं करोति भगवान्यस्य प्रतीपो विधिः ॥१८४६॥

शङ्करदेवस्य ।

यल्लीलामदमेदुरा मधुलिहो यद्दन्तकान्तित्विषः
शीतांशोः श्रियमावहन्ति गमनाद्भ्रश्यन्ति यस्याचलाः ।
जानीमः किमकाण्डचण्डिमगुणान्दैवस्य येन क्षणान्
मग्नः कासरकेलिपङ्किलतटोपान्ते स दन्ताबलः ॥१८४७॥

शालूकस्य ।

रटितमनुचितं ते कः करास्फालकालः
प्रचलितमतिमात्रं गात्रनिर्मज्जनाय ।
कथमपि पतितस्त्वं दुस्तरे पङ्कराशौ
कुरु करिवर धैर्यं दुर्जया दैवरीतिः ॥१८४८॥

पाम्पाकस्य ।

करेणुर्नाहूता निजकवलभागप्रणयिनी
न चामृष्टः स्नेहात्करकिसलयेनापि कलभः ।
स येनासौ दर्पात्प्रतिगजजिगीषारभसतः
क्रुधा धावन्मग्नो ह्रदपयसि कष्टं करिपतिः ॥१८४९॥

त्रिपुरारिपालस्य ।

न पश्यत्येवाशाः श्रयति न विषादं न मनसा
सौम्द्धारे शक्तं भुवि कमपि नान्यं गणयति ।
स जम्बाले मग्नो निजगरिमगम्भीररभस
स्फुरद्रोमोद्भेदः श्लथयति करी जीवनरसम् ॥१८५०॥

तस्यैव ।
४३. बद्धगजः

रे रेवातटकेलिलम्पटवपः शोकं वृथा मा कृथाः
कुम्भिन्कुम्भसमाहृतं पिब पयो बन्ध्यैव विन्ध्यस्मृतिः ।
ताभिः काननकुञ्जरीभिरधुना दैवेन दूरीकृतो
वेल्लत्पल्लवशल्लकीवनलताकुञ्जेषु ते विभ्रमः ॥१८५१॥

कङ्कणस्य ।

घासग्रासं गृहाण त्यज गजकलभ प्रेमबन्धं करिण्यां
पाशग्रन्थिव्रणानामविरतमधुना देहि पङ्कानुलेपम् ।
दूरीभूतास्तवैते शवरवरवधूविभ्रमोद्भ्रान्तदृष्टा
रेवातीरोपकण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः ॥१८५२॥

भर्तृमेण्ठस्य । (स्व६४०, हस्तिपकस्य; शा.प. ९२८, कस्यचित्)

त्यक्तो विन्ध्यगिरिः पिता भगवती मातेव रेवानदी
ते ते स्नेहनिबन्धबन्धुरधियस्तुल्योदया दन्तिनः ।
त्वल्लोभान्ननु हस्तिनि स्वयमिदं बन्धाय दत्तं वपुस्
त्वं दूरे ध्रियसे लुठन्ति च शिरःपीठे कठोराङ्कुशाः ॥१८५३॥

तस्यैव ।

नो मन्ये दृढबन्धनक्षतमिदं नैवाङ्क्शोद्घाटनं
स्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम् ।
चिन्तां ये जनयन्ति चेतसि परं स्मृत्वा स्वयूथं वने
सिंहत्रासितभीतभीरुकलभा यास्यन्ति कस्यान्तिकम् ॥१८५४॥

पाम्पाकस्य । (शा.प. ९३४)

अयि क्षुद्रो माभून्मतिमहिमगर्वो मनसि वः
करी यातो बन्धं यदिह विनयस्तत्र विजयी ।
अयं क्रोधाध्मातस्त्यजति विनयं चेन्मदवशात्
ततः स्कन्धावारं न किमखिलमेवाकुलयति ॥१८५५॥

त्रिपुरारिपालस्य ।

४४. मृगः

शान्तेऽपि स्वयमेव दावशिखिनि क्रूरं किराताधिपे
चापं सङ्कलयत्यपि श्लथयति व्याधे च तां वागुराम् ।
सारङ्गस्य न पश्यतः सहचरीमुद्भिन्नबाष्पाम्भसो
निर्दग्धं वपुराहतानि परितो मर्माणि रुग्णा गतिः ॥१८५६॥

जलचन्द्रस्य ।

नादत्से हरिताङ्कुरान्क्वचिदपि स्थैर्यं न यद्गाहसे
यत्पर्याकुललोचनोऽसि करुणं कूजन्दिशः पश्यसि ।
दैवेनान्तरितप्रियोऽसि हरिण क्षामोऽसि यत्प्रत्यहं
प्रदद्रि प्रतिकाननं प्रतिनदि प्रयूषरं धावसि ॥१८५७॥

केशटस्य । (सु.र. ७५६)

वन्यैः प्राणिनि काननेषु हरिणस्तद्गात्रवैरी निजः
क्रूरोऽरण्यपतिस्तदत्र शरणं शान्तोऽस्त्यदूरे मुनिः ।
इत्यस्मिन्नुपसेदिवानयमसावस्यैव दुर्दैवतो
मा भैषीरिति भाषणेऽप्यकरुणो जातोऽथ वाचंयमः  ॥१८५८॥

रत्नमालीयपुण्ड्रोकस्य ।

नासन्नेऽपि ददाति शष्पविपिने क्षामे दृशौ न क्षिपत्य्
अच्चाच्छेषु च निर्झरेषु रसनानालीमुदन्यातुरः ।
न स्वस्थो बत कौतुकादपि सुहृद्गोष्ठीषु तिष्ठासति
ध्यायन्मेकलकन्यकावनमविच्छिन्नाश्रुवेगो मृगः ॥१८५९॥

भट्टशालीयपीताम्बरस्य ।

दुर्गारण्यदरीषु भूरुहघनच्छाये शयालुस्तृणान्य्
आस्वाद्योदरपूरमच्छसुलभैरम्भोभिराप्यायितः ।
एष प्रेङ्खदपाङ्गभङ्गिषु सहाधीती कुरङ्गीदृशां
क्रूरव्याधकुलेषु हन्त पिशितैः स्वैरिव वैरी मृगः ॥१८६०॥

धर्मयोगेश्वरस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP