अपदेशप्रवाहवीचयः - सुभाषित १९२१ - १९४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
५७. मरुतरुः
फणी मूलश्वभ्रे वपुरविरलं कीटपटलैः
शिरो गृध्रश्रेणीविधुरितमधः कण्ठकचितम् ।
इतीदं जानीमश्चिरमपथभाजस्तव तरो
तथाप्यस्यामक्ष्मारुहि भुवि भवानेव शरणम् ॥१९२१॥
वैद्यगदाधरस्य ।
प्रथममेव गुरु क्व मरुद्रुमे
तरुणितापकृतापदि पल्लवम् ।
यदपि किं क्वचिदुञ्च्तमाशु तत्
कवलितं करभैरतिभैरवैः ॥१९२२॥
चपलदेवस्य ।
आश्यानैर्गलितं दलैर्बत कथाशेषाः प्रसूनश्रियो
नोद्भेदोऽपि फलं प्रति प्रतिदिशं याता निराशाः खगाः ।
आपातालविशुष्कमूलकुहरोन्मीलज्जटासंततिस्
तूष्णीमस्ति तथाप्यकालजलदं ध्यायन्मरुक्ष्मारुहः ॥१९२३॥
भट्टशालीयपीताम्बरस्य ।
नासाग्रे पवनः परं नयनयोरापः क्र्या चेतसि
स्थैर्यं दाहभरेषु किं नु विदिता नैता मरुक्षोणयः ।
यत्राशाशतसम्भ्रमेण पथिकैर्लब्धोऽपि भूमीरुहस्
तेषामेव निदाघबिन्दुनिचयैः सेकस्थितिं वाञ्छति ॥१९२४॥
सोढगोविन्दस्य ।
कल्याणं नः किमधिकमितो जीवनार्थं यदस्माल्
लूत्वा वृक्षानहह दहसि म्रातरङ्गारकार ।
किं त्वेतस्मिन्नशनिपिशुनैरातपैराकुलानाम्
अध्वन्यानामशरणमरुप्रान्तरे कोऽभ्युपायः ॥१९२५॥
गदाधरस्य । (शा.प. ११८३, सूक्तिमुक्तावलि ३३.६, सु.र. १०३९)
५८. नानातरवः
न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते
बीजान्यङ्कुरगोचराणि कतिचित्सिध्यन्ति तस्मिन्नपि ।
एकस्तेष्वपि कश्चिदङ्कुरवरो बध्नाति तामुन्नतिं
यामध्यन्यजनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥१९२६॥
शालिकस्य । (सु.र. १०६२, शालिकनाथस्य)
केनात्र चम्पकतरो बत रोपितोऽसि
कुग्रामपामरजनान्तिकबाटिकायाम् ।
यत्र प्ररूढनवशाकविवृद्धलोभ
गोभग्नबाटघटनोचितपल्लवोऽसि ॥१९२७॥
वीरस्य ।
फलानां सम्भारैरधरय तरूनुन्नततया
स्पृशाकाशं सर्वाः स्थगय परिणाहैरपि दिशः ।
तथापि ध्वाङ्क्षेभ्यो न पुनरितरः कोऽपि विहगः
फलार्थी निम्ब त्वां प्रकृतिविरसं धावति मुदा ॥१९२८॥
विश्वेश्वरस्य ।
पृथुत्वात्सौरभ्यान्मधुरतरभावाच्च पतितैः
क्षुधोत्तप्तैः कुक्षिंभरिभिरिह सेवा तव कृताः ।
तदात्वव्यामुग्धैरनुदिवसमस्वास्थ्यजननी
न दृष्टा तेऽस्माभिः पनस परिणामे विरसता ॥१९२९॥
उमापतिधरस्य ।
परार्थे यः पीडामनुभवति निर्व्याजमधुरो
यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः ।
न सम्प्राप्तो वृद्धिं सपदि हतदैवात्समुचितां
किमिक्षोर्दोषोऽयं स पुनरगुणाया मरुभुवः ॥१९३०॥
वाक्पतेः । (स्व. ९४७, शा.प. १०५२, सूक्तिमुक्तावलि ३५.५)
५९. मरुः
शमीषण्डस्तावत्खदिरवनमस्माच्च परतस्
ततो वध्वोलीनामपि गहनमुत्कीटविरुतम् ।
इतः कर्कन्धूनां वनमनु यवासस्थलमिदं
क्व कल्याणः पन्थाः पथिक हतदेशो मरुरयम् ॥१९३१॥
कस्यचित।
हे धाराधर विश्वमेव भवता साधारणं सिञ्चता
क्ÿप्ताकस्मिकदुर्दिनेन समये को नाम नासादितः ।
एतस्यैव मरोर्मरालललनालीलानभिज्ञैस्तटैर्
आपातालविशुष्कसैकतभुवस्तापोऽपि नापोहितः ॥१९३२॥
कस्यचित।
भ्रामं भ्राममनङ्गभूपरिसरे सारङ्ग निश्चापलं
वास्तव्यो भव मा पुनर्मरुपथप्रस्थानवाञ्छां कृथाः ।
यत्रादुर्बलदोर्बलैर्गुणगणव्यासक्तपात्रान्तरैर्
लभ्यन्ते पुरुषैः परं कतिपयैः कौपाः पयोबिन्दवः ॥१९३३॥
उमापतिधरस्य ।
भ्रातः पान्थ मरीचिकामयमृषावाःपूरपूर्णामिमाम्
उद्दिश्य प्रबलप्रसृत्वरतृषाक्लेशान्ध किं धावसि ।
नन्वेते मरुमेदिनीपरिसरा यैरस्ति गोपायितं
क्रूरैर्न स्वपरोपकारि सकलं प्¸अतालमूले पयः ॥१९३४॥
तस्यैव ।
पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गमङ्गं
भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि ।
एषां शेषश्रमशमपटुदुःखिताध्वन्यबन्धुः
सिन्धुर्दूरीभवति पुरतो मारवः पान्थ पन्थाः ॥१९३५॥
धनपालस्य । (शा.प. ११५१, सूक्तिमुक्तावलि ३०.३)
६०. मेघः
अभ्युन्नतोऽसि सलिलैः परिपूरितोऽसि
त्वामर्थयन्ति विहगास्तृषितास्तथैते ।
कालः पयोधर परोपकृतेस्तवायं
चण्डानिलव्यतिकरे क्व भवान्क्व ते वा ॥१९३६॥
वाञ्छोकस्य ।
अये पाथोवाह स्थगय ककुभोऽन्यास्तत इतस्
त्यजैतां सीमानं वसति मुनिरस्यां कलशभूः ।
उदञ्चत्कोपेऽस्मिन्स जलधिरपि स्थास्यति न ते
यतः पायं पायं सलिलमिह शौर्यं प्रथयसि ॥१९३७॥
वैद्यगदाधरस्य ।
आकल्पं यदि वर्षसि प्रतिदिनं धारासहस्रैस्तथाप्य्
अम्भोधौ कलयत्यगाधजठरे कस्तावकीनं श्रमम् ।
अम्भोद क्षणमात्रमुज्झसि पयः पृष्ठे यदि क्ष्माभृतां
तत्किं न प्रसरन्ति निर्झरसरिद्व्याजेन ते कीर्तयः ॥१९३८॥
वासुदेवस्य ।
एते ते पुरतो मरुस्थलभुवः प्रोच्चण्डदावानल
ज्वालालीढकठोरसूरकिरणप्लुष्टच्छदाः शाखिनः ।
तानेतानवधीर्य खिन्नवपुषो दुःशीलझञ्झानिल
क्रीडाभिर्न पयोद गन्तुमुचितं वेलाभिषिक्तद्रुमान॥१९३९॥
योगेश्वरस्य ।
अये पश्यावस्थामकरुणसमीरव्यतिकर
स्फुरद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ।
अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः
किमेभिर्निर्घोषैः सृज झटिति झात्कारि सलिलम् ॥१९४०॥
अचलसिंहस्य । (सु.र. १०२९)
N/A
References : N/A
Last Updated : November 11, 2016
TOP