अपदेशप्रवाहवीचयः - सुभाषित १६८१ - १७००
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
९. अगस्त्यहस्ते समुद्रः
व्याप्याशाः शयितस्य वीचिवलनैरुल्लिख्य खं प्रेङ्खतः
सिन्धोर्लोचनगोचरः स महिमा तेषां तनोत्यद्भुतम् ।
संश्लिष्टाङ्गुलिरन्ध्रलीनमकरग्राहावलिर्नीरवो
यैर्नायं करशुक्तिकोदरगतो दृष्टो मुनेरञ्जलौ ॥१६८१॥
अभिनन्दस्य । (सु.र. १०५८)
उद्दामार्कमरीचिमूर्च्छितदृशां येनाध्वगानामयं
वेलालम्बनजागरूकमनसामारम्भि कर्णज्वरः ।
क्लेशोच्छृङ्खलचेतसः प्रविशतो गण्डूषगर्भं मुनेर्
लीनः कुत्र महार्णवस्य स पुनः कल्लोलकोलाहलः ॥१६८२॥
जलचन्द्रस्य ।
अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥१६८३॥
विद्यापतेः । (Kउवल्, प्. १०८, सूक्तिमुक्तावलि २७.१८, सु.र. १०२५, कविनन्दस्य)
अये वारां राशे कतिपयपयोबिन्दुविभवैर्
अमीभिर्मा गर्वं वह निरवलेपा हि कृतिनः ।
न किं लोपामुद्रासहचरकरक्रोडकुहरे
भवान्दृष्टः कष्टं प्रचलजलजन्तुव्यतिकरः ॥१६८४॥
विश्वेश्वरस्य ।
तावद्वेला विषमसलिलावर्तनाभीनिकुञ्ज
क्रोडभ्राम्यन्मकरशिखरिग्रावरौद्रः समुद्रः ।
दृष्टो यावन्न खलु चुलुकीभूतनिष्पन्दमूर्तिर्
लोपामुद्रासहचरकरस्वस्तिकोत्सङ्गवर्ती ॥१६८५॥
लोपामुद्राकवेः ।
१०. समुद्रोपालम्भः
दूरीभूतरतिश्चिरं मरकते मुक्तासु मुक्तस्पृहः
सानन्दोऽस्मि न चेन्द्रनीलमणिषु त्यक्तादरो विद्रुमे ।
त्वां संसेव्य समुद्र सम्प्रति पुनर्दृष्टस्वभाग्यक्षय
क्षीणोऽहं सकलार्थिसार्थसुलभामभ्यर्थये शुक्तिकाम् ॥१६८६॥
इन्द्रदेवस्य ।
प्रमोदादुद्बाष्पः पुलकपटलैरर्चिततनुः
शिरो धूत्वा धूत्वा किमिति जलधेर्गायसि यशः ।
किमेतेनास्माकं फणिमकरनक्रप्रणयिना
नमस्तेभ्यो लभ्या य इह गुणभाजोऽपि मणयः ॥१६८७॥
वैद्यगदाधरस्य ।
विगर्जामुन्मुञ्च त्यज तरलतामर्णव मनाग्
अहंभावः कोऽयं कतिपयमणिग्रावगुडकैः ।
दृशं मेरौ दद्याः स हि मणिमयप्रस्थमहितो
महामौनः स्थैर्यादथ भुवनमेव द्रढयति ॥१६८८॥
शतानन्दस्य । (सु.र. ११२२)
अजायन्तैतस्मादमृतशशिलक्ष्मीप्रभृतयः
परित्राताश्चेन्द्रात्कुलशिखरिणः पूर्वयमुना ।
उपेता इत्येवं तव जलनिधे तीरमधुना
विगर्जाभिः किं नः श्रुतिपुटमहो जर्जरयसि ॥१६८९॥
सरोरुहस्य ।
श्रमपरिगतैर्विस्तीर्णश्रीरसीति परं पयः
कतिपयमितं त्वत्तोऽस्माभिः समुद्र समीहितम् ।
किमसि नितरामुक्त्षुभोर्मिः प्रसीद नमोऽस्तु ते
पथि पथि शिवाः सन्त्यस्माकं शतं कमलाकराः ॥१६९०॥
कमलगुप्तस्य । (सु.र. १०८१)
११. समुद्रनिन्दा
ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी
मुक्तौघाः सिकताः प्रवाललतिकाः शैवालमम्भ सुधा ।
तीरे कल्पमहीरुहः किमपरं सर्वत्र नामाम्बुधेर्
दूरात्कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥१६९१॥
कस्यचित। (स्व८६४, शा.प. १०८४, सूक्तिमुक्तावलि १०४.१)
उपाध्वं तत्पान्थाः पुनरपि सरो मार्गतिलकं
यदासाद्य स्वेच्छं विहरथ विनीतक्लमभराः ।
इतस्तु क्षाराब्धेर्जरठमकरक्षुण्णपयसो
निवृत्तिः कल्याणी न पुनरवतारः कथमपि ॥१६९२॥
पापाकस्य । (स.क.आ. ४.९७, सूक्तिमुक्तावलि ३१.१२, सु.र. १०६९)
यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलं
रत्नैरुद्दीपयसि पयसा यत्पिधत्से धरित्रीम् ।
धिक्तत्सर्वं तव जलनिधे यद्विमुच्याश्रुधारास्
तीरे नीरग्रहणविमुखैरध्वगैरुज्झितोऽसि ॥१६९३॥
शुभाङ्करस्य । (शा.प. १०९०, सूक्तिमुक्तावलि २७.१४, सु.र. १०४४)
कस्त्वं, कोऽपि, कुतोऽसि, रत्नवसतेस्तीरादहं नीरधेर्
लब्धं किंचन, गर्जितैर्बधिरता दृग्व्याहतिः सैकतैः ।
मा खेदं कुरु तादृगौर्वदहनज्वालावलीदुःसहं
क्षारोदं यदुपास्य जीवसि सखे श्लाघ्यं न तन्मन्यसे ॥१६९४॥
कस्यचित।
धिगुद्गाम्भीर्यं धिगमृतमयत्वं च जलधेर्
धिगेतद्द्राघीयःपृथुलतरकल्लोलभुजताम् ।
यदेतस्यैवाग्रे कवलिततनुर्दावदहनैर्
न तीरारण्यानी सलिलचुलुकेनाप्युपकृता ॥१६९५॥
कपालेश्वरस्य । (सु.र. ११०८)
१२. सबाडवसमुद्रः
लोला श्रीः शशभृत्कलङ्कमलिनः क्रूरो मणिग्रामणीर्
माद्यत्यभ्रमु वल्लभोऽपि सततं तत्कालकूटं विषम् ।
इत्यन्तःस्वकुटुम्बदुर्नयपरामर्शाग्निना दह्यते
गाढं वाडवनामधेयदहनव्याजेन वारां निधिः ॥१६९६॥
वाणीकुटिललक्ष्मीधरस्य । (सु.र. १०४५)
विस्तारो यदि नेदृशो न यदि तद्गाम्भीर्यमम्भोनिधेर्
न स्याद्वा यदि सर्वसत्त्वविषयस्तादृग्दयानुग्रहः ।
अन्तः प्रज्वलता पयांसि दहता ज्वालावलीं मुञ्चता
के न स्युर्वडवानलेन बलिना भस्मावशेषीकृताः ॥१६९७॥
केशटस्य । (सूक्तिमुक्तावलि २७.१७, सु.र. १२१०)
धिग्वाडवं दहनमर्थितया विपक्षम्
अभ्येति यः स्वजठरप्रतिपूरणाय ।
धिग्वारिराशिमपि यो हि तथाविधस्य
शत्रोर्जलैरपि न पूरयतेऽभिलाषम् ॥१६९८॥
तस्यैव । (स्व९७८)
आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर्
यत्कार्यातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते ।
एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर्
अन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि तोयव्ययः ॥१६९९॥
तस्यैव । (स्व८८४, सु.र. ११९८)
अयमलघुविसारिस्फारिजिह्वाकलापो
ज्वलति यदि न मध्ये वाडवो हव्यवाहः ।
मुहुरुपचितसारो वारिभिर्निम्नगानां
त्रिभुवनमपि किं न प्लावयत्यम्बुराशिः ॥१७००॥
धर्मपालस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP