अपदेशप्रवाहवीचयः - सुभाषित १७२१ - १७४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१७. मरकतम्
वणिगधिपते किंचिद्ब्रूमस्त्रपामिह मा कृथाः
कथमनिभृतं केयं रीतिः पुरे तव सम्प्रति ।
मरकतमणिः काचो वायं भवेदिति संशये
लवणवणिजां यद्व्यापारः परीक्षित्मर्पितः ॥१७२१॥
नारायणाब्धेः ।
इह परिचिता जात्यन्धानामियं न तवोन्नतिर्
गुणपरिचये चक्षुष्मन्तो त्वयातिविडम्बिताः ।
कृपणवणिजामल्पीकर्तुं गुणांस्तव केवलं
मरकत मृषा दोषोद्गारः करिष्यति दुर्यशः ॥१७२२॥
जलचन्द्रस्य ।
त्यज निजगुणाभिमानं
मरकत पतितोऽसि मत्सरे वणिजि ।
काचमणेरपि मूल्यं
यल्लभसे तदपि ते श्रेयः ॥१७२३॥
कस्यचित। (शा.प. ११०४)
दुरर्थैर्यत्काचभ्रमभवकलङ्कस्त्वयि कृतो
जगच्चूडाचुम्बिन्मरकत स कस्ते परिभवः ।
यदस्माभिस्तूष्णीं स्थितमिह तवालोचनपथे
तदन्तर्दुष्पूरोदरभरणदैन्यव्यवसितम् ॥१७२४॥
वल्लणस्य ।
केनासीनः सुखमकरुणेनादरादुद्धृतस्त्वं
विक्रेतुं वा कथमुपनतः केन देशान्तरेऽस्मिन।
अस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां
नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोऽपि ॥१७२५॥
मङ्गलस्य । (शा.प. १११०, सूक्तिमुक्तावलि २८.११, सु.र. १०२३)
१८. नानारत्नानि
कथय किमिदं जात्या ख्यातं किमस्य वराटकैः
कतिभिरथवा लभ्यं चैतत्प्रयोजनमस्य किम् ।
प्रतिपदमिति ग्रामीणानां गणेन लघूकृतं
बत करतले रत्नं कृत्वा विषीदति वाणिजः ॥१७२६॥
वैद्यगदाधरस्य ।
स्फटिकशकलः किं वा नेयं शिला किमु सैन्धवी
किमिति विहितस्तम्भो न स्यादयं करकोपलः ।
इति कथामिह ग्रामीणानामकाण्डविकल्पनैः
शशधरमणे यास्यन्त्येते विडम्बनवासराः ॥१७२७॥
जलचन्द्रस्य ।
आघ्रातं परिचुम्बितं प्रतिमुहुर्लीढं च यच्चर्वितं
क्षिप्तं वा यदि नीरसत्वकुपितेनेति व्यथां मा कृथाः ।
हे माणिक्य तवैतदेव कुशलं शाखामृगेणामुना
यत्त्वं तत्त्वनिरूपणव्यसनिना चूर्णीकृतं नाश्मना ॥१७२८॥
दूनोकस्य । (Kउवल्, १५३)
जठरपिठरीमन्ये वारांनिधेरधिशेरते
कठिनमणयो येषां छायाकलापजितं जगत।
त्रिजगति पुनः कोऽयं कोलाहलः कमलापति
प्रणयसुहृदो रत्नस्योच्चैरहो सदुपग्रहः ॥१७२९॥
गोपोकस्य ।
अये मुक्तारत्न प्रसर बहिरुद्द्योतय गृहान्
अपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणान।
किमत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे
महागम्भीरोऽयं जलधिरिह कस्त्वां गणयति ॥१७३०॥
मुरारेः । (सु.र. १०१९)
१९. स्वर्णम्
एते नर्तितमौलयो गुणगणप्रस्तावनाभिर्मणेर्
जायन्तां वणिजो वयं तु कनक त्वत्कीर्तिवैतालिकाः ।
ते चाम्लानमुखेन हन्त भवता दाहच्छिदा वेदनां
अङ्गीकृत्य नरेन्द्रशेखरसुखासीनाः क्रियन्ते यतः ॥१७३१॥
जलचन्द्रस्य ।
स्तोत्राक्षराणि पठितानि बलिः प्रणीतः
क्ÿप्तोञ्जलिर्विरचितो बहुशः प्रणामः ।
किं कुर्महे तदपि हेमनिधे भवन्तं
दत्ते न वीक्षितुमपीह स दग्धयक्षः ॥१७३२॥
वैद्यगदाधरस्य ।
अदयं घर्ष शिलायां दह वा दाहेन भिन्धि लौहेन ।
हे हेमकार कनकं म मां गुञ्जाफलैस्तुलय ॥१७३३॥
कस्यचित।
दाहच्छेदननिकषैर्
अतिशुद्धस्यापि रे वृथा गरिमा ।
यदसि तुलामधिरूढं
कांचन गुञ्जाफलैः सार्धम् ॥१७३४॥
बाणस्य । (सु.र. १११७)
यद्धृष्टं निकषोपलेप्यमलिनं यट्टङ्किकानिर्दय
व्यापारेऽप्यविकारि यच्च शिखिनि क्षिप्तं च न म्लायसि ।
एतस्यामपि शुद्धिसम्पदि तुलामारोप्य यत्साधुभिर्
गुञ्जाभिः समकक्षामित्यवधृतं हा स्वर्ण किं चेष्ट्यताम् ॥१७३५॥
बलभद्रस्य ।
२०. नदनद्यौ
केनेयं श्रीव्यसनरुचिना शोण विश्राणिता ते
जाने जानुद्वयसजल एवाभिरामस्त्वमासीः ।
वेगभ्रश्यत्तटरुहवनो दुस्तरावर्तवीचिः
कस्येदानीं कलुषसलिलः कूलभेदी प्रियोऽसि ॥१७३६॥
शतानन्दस्य । (सु.र. १५०९)
आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः
कल्लोलाः क्षणभङ्गुराश्च सहसा नीताः परामुन्नतिम् ।
अन्तः प्रस्तरसंग्रहो बहिरपि भ्रश्यन्ति गन्धद्रुमा
भ्रातः शोण न सोऽस्ति यो न हसति त्वत्संपदां विप्लवे ॥१७३७॥
अमरसिंहस्य । (शा.प. ११२२, सूक्तिमुक्तावलि ३०.५, सु.र. १०२८)
कतिपयदिवसस्थायिनि
मदकारिणि यौवने दुरात्मानः ।
विदधति तथापराधं
जन्मैव यथा वृथा भवति ॥१७३८॥
भोजदेवस्य । (शा.प. ११२४, सूक्तिमुक्तावलि ३०.२, सु.र. १११०)
नेत्रायातपथव्यतीतपयसः सन्त्येव नद्यः शतं
प्रायश्चित्तमुपाचरन्ति कृतिनः स्पृष्ट्वैव यासां पयः ।
या दृष्टैव पुनाति विश्वमखिलं सेयमपुनर्जाह्नवी
विच्छिन्ना क्वचिदाविला क्वचिदतिस्वल्पाम्बुशोच्या क्वचित॥१७३९॥
उमापतिधरस्य ।
प्रशान्ताः कल्लोलाः स्तिमितमसृणं वारि विमलं
विनीतोऽयं वेशः शममिव नदीनां कथयति ।
तथाप्यासां तैस्तैस्तरुभिरभितस्तीरपतितैः
स एवाग्रे बुद्धौ परिणमति रुद्धोऽप्यविनयः ॥१७४०॥
कस्यचित। (सूक्तिमुक्तावलि ३०.४, सु.र. ११११, शब्दार्णवस्य)
N/A
References : N/A
Last Updated : November 11, 2016
TOP