पूर्वभागः - द्वितीयोऽध्यायः
पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.
अथ वर्णाश्रमवर्णनम्।
श्रीकूर्म उवाच ।
श्रृणुध्वमृषयः सर्वे यत्पृष्टोऽहं जगद्धितम् ।
वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय भाषितम् ॥२.१
भूतैर्भव्यैर्भविष्यद्भिश्चरितैरुपबृंहितम् ।
पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम् ॥२.२
अहं नारायणो देवः पूर्वमासं न मे परम् ।
उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः ॥२.३
चिन्तयामि पुनः सृष्टिं निशान्ते प्रतिबुध्य तु ।
ततो मे सहसोत्पन्नः प्रसादो मुनिपुंगवा ॥२.४
चतुर्मुखस्ततो जातो ब्रह्मा लोकपितामहः ।
तदन्तरेऽभवत् क्रोधः कस्माच्चित् कारणात् तदा ॥२.५
आत्मनो मुनिशार्दूलास्तत्र देवो महेश्वरः ।
रुद्रः क्रोधात्मको जज्ञे शूलपाणिस्त्रिलोचनः ॥२.६
तेजसा सूर्यसंकाशस्त्रैलोक्यं संदहन्निव ।
ततः श्रीरभवद् देवि कमलायतलोचना ॥२.७
सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम् ।
शुचिस्मिता सुप्रसन्ना मङ्गला महिमास्पदा ॥२.८
दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता ।
नारायणी महामाया मूलप्रकृतिरव्यया ॥२.९
स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत् ।
तां दृष्टवा भगवान् ब्रह्मा मामुवाच जगत्पतिम् ॥
मोहायाशेषभूतानां नियोजय सुरूपिणीम् ।
येनेयं विपुला सृष्टिर्वर्द्धते मम माधव ॥२.११
तथोक्तोऽहं श्रियं देवीमब्रवं प्रहसन्निव ।
देवीदमखिलं विश्वं सदेवासुरमानुषम् ॥२.१२
मोहयित्वा ममादेशात् संसारे विनिपातय ।
ज्ञानयोगरतान् दान्तान् ब्रह्मिष्ठान् ब्रह्मवादिनः ॥२.१३
अक्रोधनान् सत्यपरान् दूरतः परिवर्जय ॥
ध्यायिनो निर्ममान् शान्तान् धार्मिकान् वेदपारगान् ॥२.१४
।याजिनस्तापसान् विप्रान् दूरतः परिवर्जय ।
वेदवेदान्तविज्ञानसंछिन्नाशेषसंशयान् ॥२.१५
महायज्ञपरान् विप्रान् दूरतः परिवर्जय ।
ये यजन्ति जपैर्होमैर्देवदेवं महेश्वरम् ॥२.१६
स्वाध्यायेनेज्यया दूरात् तान् प्रयत्नेन वर्जय ।
भक्तियोगसमायुक्तानीश्वरार्पितमानसान् ॥२.१७
प्राणायामादिषु रतान् दूरात् परिहरामलान् ।
प्रणवासक्तमनसो रुद्रजप्यपरायणान् ॥२.१८
अथर्वशिरसोऽध्येतृन् धर्मज्ञान् परिवर्जय ।
बहुनाऽत्र किमुक्तेन स्वधर्मपरिपालकान् ॥२.१९
ईश्वराराधनरतान् मन्नियोगान्न मोहय ।
एवं मया महामाया प्रेरिता हरिवल्लभा ॥२.२०
यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत् ।
श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् ॥२.२१
अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत् ।
ततोऽसृजत् स भगवान् ब्रह्मा लोकपितामहः ॥२.२२
चराचराणि भूतानि यथापूर्वं ममाज्ञया ।
मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥२.२३
दक्षमत्रिं वसिष्ठं च सोऽसृजद् योगविद्यया ।
नवैते ब्रह्मणः पुत्रा ब्रह्मणा ब्राह्मणोत्तमाः ॥२.२४
ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः ।
ससर्ज ब्राह्मणान् वक्त्रात् क्षत्रियांश्च भुजाद् विभुः ॥२.२५
वैश्यानूरुद्वयाद् देवः पादार्च्छूद्रान् पितामहः ।
यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्जं ससर्ज ह ॥२.२६
गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ ।
ऋचो यजूंषि सामानि तथैवाथर्वणानि च ॥२.२७
ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया ।
अनादिनिधना दिव्या वागुत्सृष्टा स्वयंभुवा ॥२.२८
आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः ।
अतोऽन्यानितु शास्त्राणिपृथिव्यांयानिकानिचित् ॥२.२९
न तेषु रमते धीरः पाषण्डी तेन जायते ।
वेदार्थवित्तमैः कार्यं यत्स्मृतं मुनिभिः पुरा ॥२.३०
स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः ।
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ॥२.३१
सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः ।
पूर्वकल्पे प्रजा जाताः सर्वबादाविवर्जिताः ॥२.३२
शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा ।
ततः कालवशात् तासां रागद्वेषादिकोऽभवत् ॥२.३३
अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः ।
ततः सा सहजा सिद्धिस्तासां नातीव जायते ।
रजोमात्रात्मिकास्तासां सिद्धयोऽन्यास्तदाभवन् ॥२.३३
तासु क्षीणास्वशेषासु कालयोगेन ताः पुनः ।
वार्त्तोपायं पुनश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ।
ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत् ॥२.३४
स्वायंभुवो मनुः पूर्वं धर्मान् प्रोवाच धर्मदृक् ।
साक्षात् प्रजापतेर्मूर्तिर्निसृष्टा ब्रह्मणा द्विजाः ।
भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे ॥२.३५
यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहमः ।
अध्यापनं चाध्ययनं षट् कर्माणि द्विजोत्तमाः ॥२.३६
दानमध्ययनं यज्ञो धर्मः क्षत्रियवैश्ययोः ।
दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते ॥२.३७
शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् ।
कारुकर्म तथाजीवः पाकयज्ञाऽदि धर्मतः ॥२.३८
ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् ।
गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम् ॥२.३९
अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् ।
गृहस्थस्य समासेन धर्मोऽयं मुनिपुंगवाः ॥२.४०
होमो मूलफलाशित्वं स्वाध्यायस्तप एव च ।
संविभागो यथान्यायं धर्मोऽयं वनवासिनाम् ॥२.४१
भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः ।
सम्यग्ज्ञानं च वैराग्यं धर्मोऽयं भिक्षुके मतः ॥२.४२
भिक्षाचर्या च शुश्रूषा गुरोः स्वाध्याय एव च ।
सन्ध्याकर्माग्निकार्यं च धर्मोऽयं ब्रह्मचारिणाम् ॥२.४३
ब्रह्मचारिवनस्थानां भिक्षुकाणां द्विजोत्तमाः ।
साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः ॥२.४४
ऋतुकालाभिगामित्वं स्वदारेषु न चान्यतः ।
पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥२.४५
आगर्भधारणादाज्ञा कार्या तेनाप्रमादतः ।
अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते ॥२.४६
वेदाभ्यासोऽन्वहं शक्त्या श्राद्धं चातिथिपूजनम् ।
गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा ॥२.४७
वैवाह्ममग्निमिन्धीत सायं प्रातर्यथाविधि ।
देशान्तरगतो वाऽथ मृतपत्नीक एव च ॥२.४८
त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते ।
अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी ॥२.४९
ऐकाश्रम्यं गृहस्थस्य चतुर्णां श्रुतिदर्शनात् ।
तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम् ॥२.५०
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ॥२.५१
धर्मात् संजायते ह्यर्थो धर्मात् कामोऽभिजायते ।
धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत् ॥२.५२
धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः ।
सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ॥२.५३
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥२.५४
यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौ
इह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते ॥२.५५
धर्मात् संजायते मोक्षो ह्यर्थात् कामोऽभिजायते ।
एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम् ॥२.५६
य एवं वेद धर्मार्थकाममोक्षस्य मानवः ।
माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते ॥२.५७
तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् ।
धर्मात् संजायते सर्वमित्याहुर्ब्रह्मवादिनः ॥२.५८
धर्मेण धार्यते सर्वं जगत् स्थावरजङ्गमम् ।
अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः ॥२.५९
कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः ।
तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ॥२.६०
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतोऽन्यथा ॥२.६१
निवृत्तं सेवमानस्तु याति तत् परमं पदम् ।
तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत् पुनः ॥२.६२
क्षमा दमो दया दानमलोभस्त्याग एव च ।
आर्जवं चानसूया च तीर्थानुसरणं तथा ॥२.६३
सत्यं सन्तोषमास्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ॥२.६४
अहिंसा प्रियवादित्वमपैशुन्यमकल्कता ।
सामासिकमिमं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥२.६५
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् ॥२.६६
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् ।
गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम् ॥२.६७
अष्टाशीतिसहस्त्राणामृषीणामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥२.६८
सप्तर्षीणान्तु यत्स्थानं स्मृतं तद् वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयंभुवा ॥२.६९
यतीनां जितचित्तानां न्यासिनामूर्ध्वरेतसाम् ।
हैरण्यगर्भं तत्स्थानं यस्मान्नावर्त्तते पुनः ॥२.७०
योगिनाममृतं स्थानं व्योमाख्यं परमक्षरम् ।
आनन्दमैश्वरं धाम सा काष्ठा सा परागतिः ॥२.७१
ऋषच ऊचुः ।
भगवन् देवतारिघ्न हिरण्याक्षनिषूदन ।
चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते ॥२.७२
श्रीकूर्म ऊवाच ।
सर्वकर्माणि संन्यस्य समाधिमचलं श्रितः ।
य आस्ते निश्चलो योगी स संन्यासी न पञ्चमः ॥२.७३
सर्वेषामाश्रमाणां तु द्वैविध्यं श्रुतिदर्शितम् ।
ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥२.७४
योऽधीत्यविधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥२.७५
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।
कुटुम्बभरणा यत्तः साधकोऽसौ गृही भवेत् ॥२.७६
ऋणानित्रीण्यपाकृत्य त्यक्त्वा भार्याधनादिकम् ।
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥२.७७
तपस्तप्यति योऽरण्ये यजेद् देवान् जुहोति च ।
स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥२.७८
तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ।
सांन्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥२.७९
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ।
ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥२.८०
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।
सम्यग् दर्शनसंपन्नः स योगी भिक्षुरुच्यते ॥२.८१
ज्ञानसंन्यासिनः केचिद् वेदसंन्यासिनोऽपरे ।
कर्मसन्यासिनः केचित् त्रिविधाः पारमेष्ठिकाः ॥२.८२
योगी च त्रिविधो ज्ञेयो भौतिकः सांख्य एव च ।
तृतीयोह्याश्रमी प्रोक्तो योगमुत्तममाश्रितः ॥२.८३
प्रथमा भावना पूर्वे सांख्ये त्वक्षरभावना ।
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥२.८४
तस्मादेतद् विजानीध्वमाश्रमाणां चतुष्टयम् ।
सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते ॥२.८५
एवं वर्णाश्रमान् सृष्ट्वा देवदेवो निरञ्जनः ।
दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः ॥२.८६
ब्रह्मणो वचनात् पुत्रा दक्षाद्या मुनिसत्तमाः ।
असृजन्त प्रजाः सर्वे देवमानुषपूर्विकाः ॥२.८७
इत्येवं भगवान् ब्रह्मा स्रष्टुत्वे संव्यवस्थितः ।
अहं वै पालयामीदं संहरिष्यति शूलभृत् ॥२.८८
तिस्त्रस्तु मूर्त्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ।
रजः सत्त्वतमोयोगात् परस्य परमात्मनः ॥२.८९
अन्योन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः ।
अन्योन्यप्रणताश्चैव लीलया परमेश्वराः ॥२.९०
ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना ।
तिस्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः ॥२.९१
प्रवर्तते मय्यजस्त्रमाद्या त्वक्षरभावना ।
द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना ॥२.९२
अहं चैव महादेवो न भिन्नः परमार्थतः ।
विभज्यस्वेच्छयात्मानं सोऽन्तर्यामीश्वरः स्थितः ॥२.९३
त्रैलोक्यमखिलं स्रष्टुं सदेवासुरमानुषम् ।
पुरुषः परतोऽव्यक्तो ब्रह्मत्वं समुपागमत् ॥२.९४
तस्माद् ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः ।
एकस्यैव स्मृतास्तिस्रस्तद्वत्कार्यवशात् प्रभोः ॥२.९५
तस्मात् सर्वप्रयत्नेन वन्द्याः पूज्याः विशेषतः ।
यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम् ॥२.९६
वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः ।
पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया ॥२.९७
चतुर्णामाश्रमाणां तु प्रोक्तोऽयं विधिवद्द्विजाः ।
आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः ॥२.९८
तल्लिंगधारी नियतं तद्भक्तजनवत्सलः ।
ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः ॥२.९९
सर्वेषामेव भक्तानां शंभोर्लिगमनुत्तमम् ।
सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम् ॥२.१००
यस्तु नारायणं देवं प्रपन्नः परमं पदम् ।
धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः ॥२.१०१
प्रपन्ना ये जगद्बीजं ब्रह्माणं परमेष्ठिनम् ।
तेषां ललाटे तिलकं धारणीयं तु सर्वदा ॥२.१०२
योऽसावनादिर्भूतादिः कालात्माऽसौ धृतो भवेत् ।
उपर्यधो भावयोगात् त्रिपुण्ड्रस्य तु धारणात् ॥२.१०३
यत्तत् प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् ।
धृतंन्तु त्रिशूलधरणाद् भवत्येव न संशयः ॥२.१०४
ब्रह्मतेजोमयं शुक्लं यदेतन् मण्डलं रवेः ।
भवत्येव धृतं स्थानमैश्वरं तिलके कृते ॥२.१०५
तस्मात् कार्यं त्रिशूलांकं तथा च तिलकं शुभम् ।
आयुष्यञ्चापि भक्तानां त्रयाणां विधिपूर्वकम् ॥२.१०६
यजेत जुहुयादग्नौ जपेद् दद्याज्जितेन्द्रियः ।
शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित् ॥२.१०७
एवं परिचरेद् देवान् यावज्जीवं समाहितः ।
तेषां संस्थानमचलं सोऽचिरादधिगच्छति ॥२.१०८
इति श्रीकूर्मपुराणे वर्णाश्रमवर्णनं नाम
षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वितीयोऽध्यायः ॥२ ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP