पूर्वभागः - चतुस्त्रिंशत्तमोऽध्यायः
पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.
सूत उवाच ।
उषित्वा तत्र भगवान् कपर्दीशान्तिके पुनः ।
ययौ द्रष्टुं मध्यमेशं बहुवर्षगणान् प्रभुः ॥३४.१
तत्र मन्दाकिनीं पुण्यामृषिसङ्गनिषेविताम् ।
नदीं विमलपानीयां दृष्ट्वा हृष्टोऽभवन्मुनिः ॥३४.१
स तामन्वीक्ष्य मुनिभिः सह द्वैपायनः प्रभुः ।
चकार भावपूतात्मा स्नानं स्नानविधानवित् ॥३४.२
संतर्प्य विधिवद् देवानृषीन् पितृगणांस्तथा ।
पूजयामास लोकादिं पुष्पैर्नानाविधैर्भवम् ॥३४.३
प्रविश्य शिष्यप्रवरैः सार्द्धं सत्यवतीसुतः ।
मध्यमेश्वरमीशानमर्चयामास शूलिनम् ॥३४.४
ततः पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः ।
द्रष्टुं समागता रुद्रं मध्यमेश्वरमीश्वरम् ॥३४.५
ओंकारासक्तमनसो वेदाध्ययनतत्पराः ।
जटिला मुण्डिताश्चापि शुक्लयज्ञोपवीतिनः ॥३४.६
कौपीनवसनाः केचिदपरे चाप्यवाससः ।
ब्रह्मचर्यरताः शान्ता वेदान्तज्ञानतत्पराः ॥३४.७
दृष्ट्वा द्वैपायनं विप्राः शिष्यैः परिवृतं मुनिम् ।
पूजयित्वा यथान्यायमिदं वचनमब्रुवन् ॥३४.८
को भवान् कुत आयातः सह शिष्यैर्महामुने ।
प्रोचुः पैलादयः शिष्यास्तानृषीन् ब्रह्मभावितान् ॥३४.९
अयं सत्यवतीसूनुः कृष्णद्वैपायनो मुनिः ।
व्यासः स्वयं हृषीकेशो येन वेदाः पृथक् कृताः ॥३४.१०
यस्य देवो महादेवः साक्षद्देव पिनाकधृक् ।
अंशांशेनाभवत् पुत्रो नाम्ना शुक इति प्रभुः ॥३४.११
यो स साक्षान्महादेवं सर्वभावेन शंकरम् ।
प्रपन्नः परया भक्त्या यस्य तज्ज्ञानमैश्वरम् ॥३४.१२
ततः पाशुपताः सर्वे हृष्टसर्वतनूरुहाः ।
नेमुरव्यग्रमनसः प्रोचुः सत्यवतीसुतम् ॥३४.१३
भगवन् भवता ज्ञातं विज्ञानं परमेष्ठिनः ।
प्रिसादाद् देवदेवस्य यत् तन्माहेश्वरं परम् ॥३४.१४
तद्वदास्माकमव्यक्तं रहस्यं गुह्यमुत्तमम् ।
क्षिप्रं पश्येम तं देवं श्रुत्वा भगवतो मुखात् ॥३४.१५
विसर्जयित्वा ताञ्छिष्यान् सुमन्तुप्रमुखांस्तदा ।
प्रोवाच तत्परं ज्ञानं योगिभ्यो योगवित्तमः ॥३४.१६
तत्क्षणादेव विमलं संभूतं ज्योतिरुत्तमम् ।
लीनास्तत्रैव ते विप्राः क्षणादन्तरधीयत ॥३४.१७
ततः शिष्यान् समाहूय भगवान् ब्रह्मवित्तमः ।
प्रोवाच मध्यमेशस्य माहात्म्यं पैलपूर्वकान् ॥३४.१८
अस्मिन् स्थाने स्वयं देवो देव्या सह महेश्वरः ।
रमते भगवान् नित्यं रुद्रैश्च परिवारितः ॥३४.१९
अत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः ।
उवास वत्सरं कृष्णः सदा पाशुपतैर्वृतः ॥३४.२०
भस्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः ।
आराधयन् हरिः शंभुं कृत्वा पाशुपतं व्रतम् ॥३४.२१
तस्य ते बहवः शिष्या ब्रह्मचर्यपरायणाः ।
लब्ध्वा तद्वचनाज्ज्ञानं दृष्टवन्तो महेश्वरम् ॥३४.२२
तस्य देवो महादेवः प्रत्यक्षं नीललोहितः ।
ददौ कृष्णस्य भगवान् वरदो वरमुत्तमम् ॥३४.२३
येऽर्चयिष्यन्ति गोविन्दं मद्भक्ता विधिपूर्वकम् ।
तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मय ॥३४.२४
नमस्कार्योऽर्चितव्यश्च ध्यातव्यो मत्परैर्जनैः ।
भविष्यसि न संदेहो मत्प्रसादाद् द्विजातिभिः ॥३४.२५
येऽत्र द्रक्ष्यन्ति देवेशं स्नात्वा रुद्रं पिनाकिनम् ।
ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति ॥३४.२६
प्राणांस्त्यजन्ति ये मर्त्याः पापकर्मरता अपि ।
ते यान्ति परमं स्थानं नात्र कार्या विचारणा ॥३४.२७
धन्यास्तु खलु ते विप्रा मन्दाकिन्यां कृतोदकाः ।
अर्चयन्ति महादेवं मध्यमेश्वरमुत्तमम् ॥३४.२८
स्नानं दानं तपः श्राद्धं पिण्डनिर्वपणं त्विह ।
एकैकशः कृतं विप्राः पुनात्यासप्तमं कुलम् ॥३४.२९
संनिहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ।
यत् फलं लभते मर्त्यस्तस्माद् दशगुणं त्विह ॥३४.३०
एवमुक्त्वा महायोगी मध्यमेशान्ति के प्रभुः ।
उवास सुचिरं कालं पूजयन् वै महेश्वरम् ॥३४.३१
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुस्त्रिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP