संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
पञ्चदशोऽध्यायः

पूर्वभागः - पञ्चदशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


अथ दक्षयज्ञविध्वंसनम्॥

नैमिषेया ऊचुः ।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरात् ब्रूहि सूत वैवस्वतेऽन्तरे ॥१५.१

स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः ।
किमकार्षोन्महाबुद्धे श्रोतुमिच्छाम सांप्रतम् ॥१५.२

सूत उवाच ।
वक्ष्ये नारायणेनोक्तं पूर्वकल्पानुषङ्गिकम् ।
त्रिकालबद्धं पापघ्नं प्रजासर्गस्य विस्तरम् ॥१५.३

स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः ।
विनिन्द्य पूर्ववैरेण गङ्गाद्वरेऽयजद्‌ भवम् ॥१५.४

देवाश्च सर्वे भागार्थमाहूता विष्णुना सह ।
सहैव मुनिभिः सर्वैरागता मुनिपुंगवाः ॥१५.५


दृष्ट्वा देवकुलं कृत्स्नं शंकरेण विनागतम् ।
दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत् ॥१५.६

दधीच उवाच ।
ब्रह्माद्यस्तु पिशाचान्ता यस्याज्ञानुविधायिनः ।
स देवः सांप्रतं रुद्रो विधिना किं न पूज्यते ॥१५.७

दक्ष उवाच ।
सर्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः ।
न मन्त्रा भार्यया सार्द्धं शंकरस्येति नेज्यते ॥१५.८

विहस्य दक्षं कुपितो वचः प्राह महामुनिः ।
श्रृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम् ॥१५.९

दधीच उवाच ।
यतः प्रवृत्तिर्विश्वात्मा यश्चास्य परमेश्वरः ।
संपूज्यते सर्वयज्ञैर्विदित्वा किन्न शंकरः ॥१५.१०

न ह्यं शंकरो रुद्रः संहर्त्ता तामसो हरः ।
नग्नः कपाली विदितो विश्वात्मा नोपपद्यते ॥१५.११

ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणः स्वराट् ।
सत्त्वात्मकोऽसौ भगवानिज्यते सर्वकर्मसु ॥१५.१२

दधीच उवाच ।
किं त्वया भगवानेष सहस्त्रांशुर्न दृश्यते ।
सर्वलोकैकसंहर्त्ता कालात्मा परमेश्वरः ॥१५.१३

यं गृणन्तीह विद्वांसो धार्मिका ब्रह्मवादिनः ।
सोऽयं साक्षी तीव्ररोचिः कालात्मा शांकरीतनुः ॥१५.१४

एष रुद्रो महादेवः कपर्दो च घृणी हरः ।
आदित्यो भगवान् सूर्यो नीलग्रीवो विलोहितः ॥१५.१५

संस्तूयते सहस्रांशुः सामगाध्वर्युहोतृभिः ।
पश्यैनं विश्वकर्माणं रुद्रमूर्ति त्रयीमयम् ॥१५.१६

दक्ष उवाच ।
य एते द्वादशादित्या आगता यज्ञभागिनः ।
सर्वे सूर्या इति ज्ञेया न ह्यान्यो विद्यते रविः ॥१५.१७

एवमुक्ते तु मुनयः समायाता दिदृक्षवः ।
बाढमित्यब्रुवन् दक्षं तस्य साहाय्यकारिणः ॥१५.१८

तमसाविष्टमनसो न पश्यन्ति वृषध्वजम् ।
सहस्त्रशोऽथ शतशो भूय एव विनिन्द्यते ॥१५.१९

निन्दन्तो वैदिकान् मन्त्रान् सर्वभूतपतिं हरम् ।
अपूजयन् दक्षवाक्यं मोहिता विष्णुमायया ॥१५.२०

देवाश्च सर्वे भागार्थमागता वासवादयः ।
नापश्यन् देवमीशानमृते नारायणं हरिम् ॥१५.२१

हिरण्यगर्भो भगवान् ब्रह्मा ब्रह्मविदां वरः ।
पश्यतामेव सर्वेषां क्षणादन्तरधीयत ॥१५.२२

अन्तर्हिते भगवति दक्षो नारायणं हरिम् ।
रक्षकं जगतां देवं जगाम शरणं स्वयम् ॥१५.२३

प्रवर्त्तयामास च तं यज्ञं दक्षोऽथ निर्भयः ।
रक्षते भगवान् विष्णुः शरणागतरक्षकः ॥१५.२४

पुनः प्राह च तं दक्षं दधीचो भगवानृषिः ।
संप्रेक्ष्यर्षिगणान् देवान् सर्वान् वै रुद्रविद्विषः ॥१५.२५

अपूज्यपूजने चैव पूज्यानां चाप्यपूजने ।
नरः पापमवाप्नोति महद् वै नात्र संशयः ॥१५.२६

असतां प्रग्रहो यत्र सतां चैव विमानना ।
दण्डो दैवकृतस्तत्र सद्यः पतति दारुणः ॥१५.२७

एवमुक्त्वा तु विप्रर्षिः शशापेश्वरविद्विषः ।
समागतान् ब्राह्मणांस्तान् दक्षसाहाय्यकारिणः ॥१५.२८

यस्माद् बहिष्कृता वेदात्भवद्भिः परमेश्वरः ।
विनिन्दितो महादेवः शंकरो लोकवन्दितः ॥१५.२९

भविष्यध्वं त्रयीबाह्याः सर्वेऽपीश्वरविद्विषः ।
निन्दन्तो ह्यैश्वरं मार्गं कुशास्त्रासक्तमानसाः ॥१५.३०

मिथ्याधीतसमाचारा मिथ्याज्ञानप्रलापिनः ।
प्राप्य घोरं कलियुगं कलिजैः किल पीडिताः ॥१५.३१

त्यक्त्वा तपोबलं कृत्स्नं गच्छध्वं नरकान् पुनः ।
भविष्यति हृषीकेशः स्वाश्रितोऽपि पराङ्‌मुखः ॥१५.३२

एवमुक्त्वा तु विप्रर्षिर्विरराम तपोनिधिः ।
जगाम मनसा रुद्रमशेषाघविनाशनम् ॥१५.३३

एतस्मिन्नन्तरे देवी महादेवं महेश्वरम् ।
पतिं पशुपतिं देवं ज्ञात्वैतत् प्राह सर्वदृक् ॥१५.३४

देव्युवाच ।
दक्षो यज्ञेन यजते पिता मे पूर्वजन्मनि ।
विनिन्द्य भवतो भावमात्मानं चापि शंकर ॥१५.३५

देवाः सहर्षिभिश्चासंस्तत्र साहाय्यकारिणः ।
विनाशयाशु तं यज्ञं वरमेकं वृणोम्यहम् ॥१५.३६

एवं विज्ञापितो देव्या देवदेव परः प्रभुः ।
ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया ॥१५.३७

सहस्रशीर्षपादं च सहस्राक्षं महाभुजम् ।
सहस्त्रपाणिं दुर्धर्षं युगान्तानलसन्निभम् ॥१५.३८

दंष्ट्राकरालं दुष्प्रेक्ष्यं शङ्खचक्रगदाधरम् ।
दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम् ॥१५.३९

वीरभद्र इति ख्यातं देवदेवसमन्वितम् ।
स जातमात्रो देवेशमुपतस्थे कृताञ्जलिः ॥१५.४०

तमाह दक्षस्य मखं विनाशय शिवोऽस्तु ते ।
विनिन्द्य मां स यजते गङ्गाद्वारे गणेश्वर ॥१५.४१

ततो बन्धुप्रयुक्तेन सिंहेनैकेन लीलया ।
वीरभद्रेण दक्षस्य विनाशमगमत् क्रतुः ॥१५.४२

मन्युना चोमया सृष्टा भद्रकाली महेश्वरी ।
तया च सार्द्धं वृषभं समारुह्य ययौ गणः ॥१५.४३

अन्ये सहस्रशो रुद्रा निसृष्टास्तेन धीमता ।
रोमजा इति विख्यातास्तस्य साहाय्यकारिणः ॥१५.४४

शूलशक्तिगदाहस्ताष्टङ्कोपलकरास्तथा ।
कालाग्निरुद्रसंकाशा नादयन्तो दिशो दश ॥१५.४५

सर्वे वृषभमारूढाः सभार्याश्चातिभीषणाः ।
समावृत्य गणश्रेष्ठं ययुर्दक्षमखं प्रति ॥१५.४६

सर्वे शंप्राप्य तं देशं गङ्गाद्वारमिति श्रुतम् ।
ददृशुर्यज्ञदेशं तं दक्षस्यामिततेजसः ॥१५.४७

देवाङ्गनासहस्त्राढ्यमप्सरोगीतनादितम् ।
वेणुवीणानिनादाढ्यं वेदवादाभिनादितम् ॥१५.४८

दृष्ट्वा सहर्षिभिर्देवैः समासीनं प्रजापतिम् ॥१५.४९

उवाच भद्रया रुद्रैर्वीरभद्रः स्मयन्निव ॥१५.५०

वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ।
भागाभिलिप्सया भागान् प्राप्ता यच्छध्वमीप्सितान् ॥१५.५१

अथ चेत् कस्यचिदियमाज्ञा मुनिसुरोत्तमाः ।
भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् ॥१५.५२

तं ब्रूताज्ञापयति यो वेत्स्यामो हि वयं ततः ।
एवमुक्ता गणेशेन प्रजापतिपुरः सराः ॥१५.५३

देवा ऊचुः नेज्यते र्यज्ञभागेन न च मन्त्रा इति प्रभुः ।
मन्त्रा ऊचुः सुरा यूयं तमोपहतचेतसः ॥१५.५४

येनाध्वरस्य राजानं पूजयध्वं महेश्वरम् ।
ईश्वरः सर्वभूतानां सर्वभूततनुर्हरः ॥१५.५५

पूज्यते सर्वयज्ञेषु सर्वाभ्युदसिद्धिदः ॥
एवमुक्त्वा महीशानं मायया नष्टचेतनाः ॥१५.५६

न मेनिरे ययुर्मन्त्रा देवान् मुक्त्वा स्वमालयम् ।
ततः स रुद्रो भगवान् सभार्यः सगणेश्वरः ॥१५.५७

स्पृशन् कराभ्यां ब्रह्मर्षि दधीचं प्राह देवताः ।
मन्त्राः प्रमाणं न कृता युष्माभिर्बलदर्पितैः ॥१५.५८

यस्मात् प्रसह्य तस्माद्‌ वो नाशयाम्यद्य गर्वितान्।
इत्युक्त्वा यज्ञशालां तां ददाह गणपुंगवः ॥१५.५९

गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः ॥
प्रस्तोत्रा सह होत्रा च अश्वं चैव गणेश्वराः ॥१५.६०

गृहीत्वा भीषणाः सर्वे गङ्गास्त्रोतसि चिक्षिपुः ।
वीरभद्रोऽपि दीप्तात्मा शक्रस्योद्यच्छतं करम् ॥१५.६१

व्यष्टम्भयददीनात्मा तथाऽन्येषां दिवौकसाम् ।
भगस्य नेत्रे चोत्पाट्य कराग्रेणैव लीलया ॥१५.६२

निहत्य मुष्टिना दन्तान् पूष्णश्चैवमपातयत् ।
तथा चन्द्रमसं देवं पादाङ्‌गुष्ठेन लीलया ॥१५.६३

धर्षयामास बलवान् स्मयमानो गणेश्वरः ।
वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया ॥१५.६४

जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वराः ।
तथा विष्णुं सहरुडं समायान्तं महाबलः ॥१५.६५

विव्याध निशेतैर्बाणैः स्तम्भयित्वा सुदर्शनम् ।
समालोक्य महाबाहुरागत्य गरुडो गणम् ॥१५.६६

जघान पक्षैः सहसा ननादाम्बुनिधिर्यथा ।
ततः सहस्त्रशो भद्रः ससर्ज गरुडान् स्वयम् ॥१५.६७

वैनतेयादभ्यधिकान् गरुडं ते प्रदुद्रुवुः ।
तान् दृष्ट्वा गरुडो धीमान् पलायत महाजवः ॥१५.६८

विसृज्य माधवं वेगात् तदद्‌भुतमिवाभवत् ।
अन्तर्हिते वैनतेये भगवान् पद्मसंभवः ॥१५.६९

आगत्य वारयामास वीरभद्रं च केशवम् ।
प्रसादयामास च तं गौरवात् परमेष्ठिनः ॥१५.७०

संस्तूय भगवानीशं साम्बस्तत्रागमत् स्वयम् ।
वीक्ष्य देवाधिदेवं तमुमां सर्वगणैर्वृताम् ॥१५.७१

तुष्टाव भगवान् ब्रह्मा दक्षः सर्वे दिवौकसः ।
विशेषात् पार्वतीं देवीमीश्वरार्द्धशरीरिणीम् ॥१५.७२

स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च कृताञ्जलिः ॥
ततो भगवती देवी प्रहसन्ती महेश्वरम् ॥१५.७३

प्रसन्नमानसा रुद्रं वचः प्राह घृणानिधिः ।
त्वमेव जगतः स्त्रष्टा शासिता चैव रक्षकः ॥१५.७४

अनुग्राह्यो भगवता दक्षश्चापि दिवौकसः ।
ततः प्रहस्य भगवान् कपर्दी नीललोहितः ॥१५.७५

उवाच प्रणतान् देवान् प्राचेतसमथो हरः ।
गच्छध्वं देवताः सर्वाः प्रसन्नो भवतामहम् ॥१५.७६

संपूज्यः सर्वयज्ञेषु न निन्द्योऽहं विशेषतः ।
त्वं चापि श्रृणु मे दक्ष वचनं सर्वरक्षणम् ॥१५.७७

त्यक्त्वा लोकैषणामेतां मद्भक्तो भव यत्नतः ।
भविष्यसि गणेशानः कल्पान्तेऽनुग्रहान्मम ॥१५.७८

तावत् तिष्ठ ममादेशात् स्वाधिकारेषु निर्वृतः ।
एवमुक्त्वा स भगवान् सपत्नीकः सहानुगः ॥१५.७९

अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः ।
अन्तर्हिते महादेवे शंकरे पद्मसंभवः ॥१५.८०

व्याजहार स्वयं दक्षमशेषजगतो हितम् ।
ब्रह्मोवाच ।
किं तवापगतो मोहः प्रसन्ने वृषभध्वजे ॥१५.८१

यदाचष्टे स्वयं देवः पालयैतदतन्द्रितः ।
सर्वेषामेव भूतानां हृद्येष वसतीश्वरः ॥१५.८२

पश्यन्त्येनं ब्रह्मभूता विद्वांसो वेदवादिनः ।
स आत्मा सर्वभूतानां स बीजं परमा गतिः ॥१५.८३

स्तूयते वैदिकैर्मन्त्रैर्देवदेवो महेश्वरः ।
तमर्चयति यो रुद्रं स्वात्मन्येकं सनातनम् ॥१५.८४

चेतसा भावयुक्तेन स याति परमं पदम् ।
तस्मादनादिमध्यान्तं विज्ञाय परमेश्वरम् ॥१५.८५

कर्मणा मनसा वाचा समाराधय यत्नतः ।
यत्नात् परिहरेशस्य निन्दामात्मविनाशनीम् ॥१५.८६

भवन्ति सर्वदोषाय निन्दकस्य क्रिया यतः ।
यस्तु चैष महायोगी रक्षको विष्णुरव्ययः ॥१५.८७

स देवदेवो भगवान् महादेवो न संशयः ।
मन्यन्ते ये जगद्योनिं विभिन्नं विष्णुमीश्वरात् ॥१५.८८

मोहादवेदनिष्ठत्वात् ते यान्ति नरकं नराः ।
वेदानुवर्तिनो रुद्रं देवं नारायणं तथा ॥१५.८९

एकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते ।
यो विष्णुः स स्वयं रुद्रो यो रुद्रः स जनार्दनः ॥१५.९०

इति मत्वा यजेद् देवं स याति परमां गतिम् ।
सृजत्येष जगत्सर्वं विष्णुस्तत् पश्यतीश्वरः ॥१५.९१

इत्थं जगत् सर्वमिदं रुद्रनारायणोद्भवम् ।
तस्मात् त्यक्त्वा हरेर्निन्दां विष्णावपि समाहितः ॥१५.९२

समाश्रय्महादेवं शरण्यं ब्रह्मवादिनाम् ।
उपश्रुत्याथ वचनं विरिञ्चस्य प्रजापतिः ॥१५.९३

जगाम शरणं देवं गोपतिं कृत्तिवाससम् ।
येऽन्ये शापाग्निनिर्दग्धा दधीचस्य महर्षयः ॥१५.९४

द्विषन्तो मोहिता देवं संबभूवुः कलिष्वथ ।
त्यक्त्वा तपोबलं कृत्स्नं विप्राणां कुलसंभवाः ॥१५.९५

पूर्वसंस्कारमहात्म्याद् ब्रह्मणो वचनादिह ।
मुक्तशापास्ततः सर्वे कल्पान्ते रौरवादिषु ॥१५.९६

निपात्यमानाः कालेन संप्राप्यादित्यवर्चसम् ।
ब्रह्माणं जगतामीशमनुज्ञाताः स्वयंभुवा ॥१५.९७

समाराध्य तपोयोगादीशानं त्रिदशाधिपम् ।
भविष्यन्ति यथा पूर्वं शंकरस्य प्रसादतः ॥१५.९८

एतद्वः कथितं सर्वं दक्षयज्ञनिषूदनम् ।
श्रृणुध्वं दक्षपुत्रीणां सर्वासां चैव संततिम् ॥१५.९९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पञ्चदशोध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP