संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
षड्विंशतितमोऽध्यायः

पूर्वभागः - षड्विंशतितमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच ।
प्रविश्य मेरुशिखरं कैलासं कनकप्रभम् ।
रराम भगवान् सोमः केशवेन महेश्वरः ॥२६.१

अपश्यंस्ते महात्मानं कैलासगिरिवासिनः ।
पूजयाञ्चक्रिरे कृष्णं देवदेवमथाच्युतम् ॥२६.२

चतुर्बाहुमुदाराङ्गं कालमेघसमप्रभम् ।
किरीटिनं शार्ङ्गपाणि श्रीवत्साङ्कितवक्षसम् ॥२६.३

दीर्घबाहुं विशालाक्षं पीतवाससमच्युतम् ।
दधानमुरसा मालां वैजयन्तीमनुत्तमाम् ॥२६.४

भ्राजमानं श्रिया दिव्यं युवानमतिकोमलम् ।
पद्माङ्‌घ्रिं पद्मनयनं सस्मितं सुगतिप्रदम् ॥२६.५

कदाचित् तत्र लीलार्थं देवकीनन्दवर्द्धनः ।
भ्राजमानः श्रीया कृष्णश्चचार गिरिकन्दरे ॥२६.६

गन्धर्वाप्सरसां मुख्या नागकन्याश्च कृत्स्नशः ।
सिद्धा यक्षाश्च गन्धर्वास्तत्र तत्र जगन्मयम् ॥२६.७

दृष्ट्वाश्चर्यं परं गत्वा हर्षादुत्फुल्लोचनाः ।
मुमुचुः पुष्पवर्षाणि तस्य मूर्ध्नि महात्मनः ॥२६.८

गन्धर्वकन्यका दिव्यास्तद्वदप्सरसां वराः ।
दृष्ट्वा चकमिरे कृष्णं स्त्रस्तवस्त्रविभूषणाः ॥२६.९

काश्चिद् गायन्ति विविधां गीतिं गीतविशारदाः ।
संप्रेक्ष्य देवकीसूनुं सुन्दरं काममोहिताः ॥२६.१०

काश्चिद्विलासबहुला नृत्यन्ति स्म तदग्रतः ।
संप्रेक्ष्य सस्मितं काश्चित् पपुस्तद्वदनामृतम् ॥२६.११

काश्चिद् भूषणवर्याणि स्वाङ्गादादाय सादरम् ।
भूषयाञ्चक्रिरे कृष्णं कामिन्यो लोकभूषणम् ॥२६.१२

काश्चिद् भूषणवर्याणि समादाय तदङ्गतः ।
स्वात्मानं बूषयामासुः स्वात्मकैरपि माधवम् ॥२६.१३

काश्चिदागत्य कृष्णस्य समीपं काममोहिता ।
चुचुम्ब वदनाम्भोजं हरेर्मुग्धमृगेक्षणा ॥२६.१४

प्रगृह्य काश्चिद् गोविन्दं करेण भवनं स्वकम् ।
प्रापयामासर्लोकादिं मायया तस्य मोहिता ॥२६.१५

तासां स भगवान् कृष्णः कामान् कमललोचनः ।
बहूनि कृत्वा रूपाणि पूरयामास लीलया ॥२६.१६

एवं वै सुचिरं कालं देवदेवपुरे हरिः ।
रेमे नारायणः श्रीमान् मायया मोहयञ्जगत् ॥२६.१७

गते बहुतिथे काले द्वारवत्यां निवासिनः ।
बभूवुर्विह्वला भीता गोविन्दविरहे जनाः ॥२६.१८

ततः सुपर्णो बलवान् पूर्वमेव विसर्जितः ।
कृष्णेन मार्गमाणस्तं हिमवन्तं ययौ गिरिम् ॥२६.१९

अदृष्ट्वा तत्र गोविन्दं प्रणम्य शिरसा मुनिम् ।
आजगामोपमन्युं तं पुरीं द्वारवतीं पुनः ॥२६.२०

तदन्तरे महादैत्या राक्षसाश्चातिभीषणाः ।
आजग्मुर्द्वारकां शुभ्रां भीषयन्तः सहस्त्रशः ॥२६.२१

स तान् सुपर्णो बलवान् कृष्णतुल्यपराक्रमः ।
हत्वा युद्धेन महता रक्षति स्म पुरीं शुभाम् ॥२६.२२

एतस्मिन्नेव काले तु नारदो भगवानृषिः ।
दृष्ट्वा कैलासशिखरे कृष्णं द्वारवतीं गतः ॥२६.२३

तं दृष्ट्वा नारदमृषिं सर्वे तत्र निवासिनः ।
प्रोचुर्नारायणो नाथः कुत्रास्ते भगवान् हरिः ॥२६.२४

स तानुवाच भगवान् कैलसशिखरे हरिः ।
रमतेऽद्य महायोगीं तं दृष्ट्वाऽहमिहागतः ॥२६.२५

तस्योपश्रुत्य वचनं सुपर्णः पततां वरः ।
जगामाकाशगो विप्राः कैलासं गिरिमुत्तमम् ॥२६.२६

ददर्श देवकीसूनुं भवने रत्नमण्डिते ।
वरासनस्थं गोविन्दं देवदेवान्तिके हरिम् ॥२६.२७

उपास्यमानममरैर्दिव्यस्त्रीभिः समन्ततः ।
महादेवगणैः सिद्धैर्योगिभिः परिवारितम् ॥२६.२८

प्रणम्य दण्डवद् भूमौ सुपर्णः शंकरं शिवम् ।
निवेदयामास हरिं प्रवृत्तिं द्वारकापुरे ॥२६.२९

ततः प्रणम्य शिरसा शंकरं नीललोहितम् ।
आजगाम पुरीं कृष्णः सोऽनुज्ञातो हरेण तु ॥२६.३०

आरुह्य कश्यपसुतं स्त्रीगणैरभिपूजितः ।
वचोभिरमृतास्वादैर्मानितो मधुसूदनः ॥२६.३१

वीक्ष्य यान्तममित्रघ्नं गन्धर्वाप्सरसां वराः ।
अन्वगच्छन् महोयोगं शङ्खचक्रगदाधरम् ॥२६.३२

विसर्जयित्वा विश्वात्मा सर्वा एवाङ्गना हरिः ।
ययौ स तूर्णं गोविन्दो दिव्यां द्वारवतीं पुरीम् ॥२६.३३

गते मुररिपौ नैव कामिन्यो मुनिपुंगवाः ।
निशेव चन्द्ररहिता विना तेन चकाशिरे ॥२६.३४

श्रुत्वा पौरजनास्तूर्णं कृष्णागमनमुत्तमम् ।
मण्डयाञ्चक्रिरे दिव्यां पुरीं द्वारवतीं शुभाम् ॥२६.३५

पताकाभिर्विशालाभिर्ध्वजै रत्नपरिष्कृतैः ।
लाजादिभिः पुरीं रम्यां भूषयाञ्चक्रिरे जनाः ॥२६.३६

अवादयन्त विविधान् वादित्रान् मधुरस्वनान् ।
शंखान् सहस्रशो दध्मुर्वीणावादान् वितेनिरे ॥२६.३७

प्रविष्टमात्रे गोविन्दे पुरीं द्वारवतीं शुभाम् ।
अगायन् मधुरं गानं स्त्रियो यौवनशालिनः ॥२६.३८

दृष्ट्वा ननृतुरीशानं स्थिताः प्रासादमूर्द्धसु ।
मुमुचुः पुष्पवर्षाणि वसुदेवसुतोपरि ॥२६.३९

प्रविश्य भवनं कृष्ण आशीर्वादाभिवर्द्धितः ।
वरासने महायोगी भाति देवीभिरन्वितः ॥२६.४०

सुरम्ये मण्डपे शुभ्रे शङ्खाद्यैः परिवारितः ।
आत्मजैरभितो मुख्यैः स्त्रीसहस्रैश्च संवृतः ॥२६.४१

तत्रासनवरे रम्ये जाम्बवत्या सहाच्युतः ।
भ्राजते चोमया देवो यथा देव्या समन्वितः ॥२६.४२

आजग्मुर्देवगन्धर्वा द्रष्टुं लोकादिमव्ययम् ।
महर्षयः पूर्वजाता मार्कण्डेयादयो द्विजाः ॥२६.४३

ततः स भगवान् कृष्णो मार्कण्डेयं समागतम् ।
ननामोत्थाय शिरसा स्वासनं च ददौ हरिः ॥२६.४४

संपूज्य तानृषिगणान् प्रणामेन महाभुजः ।
विसर्जयामास हरिर्दत्त्वा तदभिवाञ्छितान् ॥२६.४५

तदा मध्याह्नसमये देवदेवः स्वयं हरिः ।
स्नात्वा शुक्लाम्बरो भानुमुपतिष्ठन् कृताञ्जलिः ॥२६.४६

जजाप जाप्यं विधिवत् प्रेक्षमाणो दिवाकरम् ।
तर्पयामास देवेशो देवान् मुनिगणान् पितॄन् ॥२६.४७

प्रविश्य देवभवनं मार्कण्डेयेन चैव हि ।
पूजयामास लिङ्गस्थं भूतेशं भूतिभूषणम् ॥२६.४८

समाप्य नियमं सर्वं नियन्ताऽसौ नृणां स्वयम् ।
भोजयित्वा मुनिवरं ब्राह्मणानभिपूज्य च ॥२६.४९

कृत्वात्मयोगं विप्रेन्द्रा मार्कण्डेयेन चाच्युतः ।
कथाः पौराणिकीं पुण्याश्चक्रे पुत्रादिभिर्वृतः ॥२६.५०

अथैतत् सर्वमखिलं दृष्ट्वा कर्म महामुनिः ।
मार्कण्डेयो हसन् कृष्णं बभाषे मधुरं वचः ॥२६.५१

मार्कण्डेय उवाच ।
कः समाराध्यते देवो भवता कर्मभिः शुभैः ।
ब्रूहि त्वं कर्मभिः पूज्यो योगिनां ध्येय एव च ॥२६.५२

त्वं हि तत् परमं ब्रह्म निर्वाणममलं पदम् ।
भारावतरणार्थाय जातो वृष्णिकुले प्रभुः ॥२६.५३

तमब्रवीन्महाबाहुः कृष्णो ब्रह्मविदां वरः ।
श्रृण्वतामेव पुत्राणां सर्वेषां प्रहसन्निव ॥२६.५४

श्रीभगवानुवाच ।
भवता कथितं सर्वं तथ्यमेव न संशयः ।
तथापि देवमीशानं पूजयामि सनातनम् ॥२६.५५

न मे विप्रास्ति कर्त्तव्यं नानवाप्तं कथंचन ।
पूजयामि तथापीशं जानन्नैतत् परं शिवम् ॥२६.५६

न वै पश्यन्ति तं देवं मायया मोहिता जनाः ।
ततोऽहं स्वात्मनो मूलं ज्ञापयन् पूजयामि तम् ॥२६.५७

न च लिङ्गार्चनात् पुण्यं लोकेस्मिन् भीतिनाशनम् ।
तथा लिङ्गे हितायैषां लोकानां पूजयेच्छिवम् ॥२६.५८

योऽहं तल्लिङ्गमित्याहुर्वेदवादविदो जनाः ।
ततोऽहमात्ममीशानं पूजयाम्यात्मनैव तत् ॥२६.५९

तस्यैव परमा मूर्त्तिस्तन्मयोऽहं न संशयः ।
नावयोर्द्यिते भेदो वेदेष्वेवं विनिश्चयः ॥२६.६०

एष देवो महादेवः सदा संसारभीरुभिः ।
ध्येयः पूज्यश्च वन्द्यश्च ज्ञेयो लिङ्गे महेश्वरः ॥२६.६१

मार्कण्डेय उवाच ।
किं तल्लिङ्गं सुरश्रेष्ठ लिङ्गे संपूज्यते च कः ।
ब्रूहि कृष्ण विशालाक्ष गहनं ह्येतदुत्तमम् ॥२६.६२

अव्यक्तं लिङ्गमित्याहुरानन्दं ज्योतिरक्षरम् ।
वेदा महेस्वरं देवमाहुर्लिङ्गिनमव्ययम् ।
पुरा चैकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥२६.६३

प्रबोधार्थं ब्रह्मणो मे प्रादुर्भूतः स्वयं शिवः ।
तस्मात् कालात् समारभ्य ब्रह्मा चाहं सदैव हि ।
पूजयावो महादेवं लोकानां हितकाम्यया ॥२६.६४

मार्कण्डेय उवाच ।
कथं लिङ्गमभूत् पूर्वमैश्वरं परमं पदम् ।
प्रबोधार्थं स्वयं कृष्ण वक्तुमर्हसि सांप्रतम् ॥२६.६५

श्रीभगवानुवाच ।
आसीदेकार्णवं घोरमविभागं तमोमयम् ।
मध्ये चैकार्णवे तस्मिन् शङ्खचक्रगदाधरः ।
सहस्रशीर्षा भूत्वाऽहं सहस्राक्षः सहस्रपात् ॥२६.६६

सहस्रबाहुर्युक्तात्मा शयितोऽहं सनातनः ।
एतस्मिन्नन्तरे दूरे पश्यमि ह्यमितप्रभम् ।
कोटिसूर्यप्रतीकाशं भ्राजमानं श्रियावृतम् ॥२६.६७

चतुर्वरक्रं महायोगं पुरुषं काञ्चनप्रभम् ।
कृष्णाजिनधरं देवमृग्यजुः सामभिः स्तुतम् ॥२६.६८

निमेषमात्रेण स मां प्राप्तो योगविदां वरः ।
व्याजहार स्वयं ब्रह्मा स्मयमानो महाद्युतिः ॥२६.६९

कस्त्वं कुतो वा किं चेह तिष्ठसे वह मे प्रभो ।
अहं कर्त्ता हि लोकानां स्वयंभूः प्रपितामहः ॥२६.७०

एवमुक्तस्तदा तेन ब्रह्मणाऽहमुवाच ह ।
अहं कर्त्ताऽस्मि लोकानां संहर्ता च पुनः पुनः ॥२६.७१

एवं विवादे वितते मायया परमेष्ठिनः ।
प्रबोधार्थं परं लिङ्गं प्रादुर्भूतं शिवात्मकम् ॥२६.७२

कालानलसमप्रख्यं ज्वालामालासमाकुलम् ।
क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ॥२६.७३

ततो मामाह भगवानधो गच्छ त्वमाशु वै ।
अन्तमस्य विजानीम ऊर्ध्वं गच्छेऽहमित्यजः ॥२६.७४

तदाशु समयं कृत्वा गतावूर्ध्वमधश्च द्वौ ।
पितामहोऽप्यहं नान्तं ज्ञातवन्तौ समाः शतम् ॥२६.७५

ततो विस्मयमापन्नौ भीतौ देवस्य शूलिनः ।
मायया मोहितौ तस्य ध्यायन्तौ विश्वमीश्वरम् ॥२६.७६

प्रोच्चरन्तौ महानादमोङ्कारं परमं पदम् ।
तं प्राञ्जलिपुटौभूत्वा शंभुं तष्टुवतुः परम् ॥२६.७७

ब्रह्मविष्णू ऊचतुः ।
अनादिमूलसंसाररागेवैद्याय शंभवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥२६.७८

प्रलयार्णवसंस्थाय प्रलयोद्‌भूतिहेतवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥२६.७९

ज्वालामालावृताङ्गाय ज्वलनस्तम्भरूपिणे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥२६.८०

आदिमध्यान्तहीनाय स्वबावामलदीप्तये ।
नमः शिवायानन्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥२६.८१

प्रधानपुरुषेशाय व्योमरूपाय वेधसे
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥२६.८२

निर्विकाराय सत्याय नित्यायामलतेजसे ।
वेदान्तसाररुपाय कालरुपाय ते नमः ॥२६.८३

नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ।
एवं संस्तूयमानस्तु व्यक्तो भूत्वा महेश्वरः ॥२६.८४

भाति देवो महायोगी सूर्यकोटिसमप्रभः ।
वक्त्रकोटिसहस्त्रेण ग्रसमान इवाम्बरम् ॥ ।२६.८५

सहस्त्रहस्तचरणः सूर्यसोमाग्निलोचनः ।
पिनाकपाणिर्भगवान् कृत्तिवासास्त्रिशूलभृत् ॥२६,८६

व्यालयज्ञोपवीतश्च मेघदुन्दुभिनिः स्वनः ।
अथोवाच महादेवः प्रीतोऽहं सुरसत्तमौ ॥२६.८७

पश्येतं मां महादेवं भयं सर्वं प्रमुच्यताम् ।
युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ ॥२६.८८

अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः ।
वामपार्श्वे च मे विष्णुः पालको हृदये हरः ॥२६.८९

प्रीतोऽहं युवयोः सम्यक् वरं दद्मि यथेप्सितम् ।
एवमुक्त्वाऽथ मां देवो महादेवः स्वयं शिवः ॥२६.९०

आलिङ्‌ग्य देवं ब्रह्माणं प्रसादाभिमुखोऽभवत् ।
ततः प्रहृष्टमनसौ प्रणिपत्य महेश्वरम् ॥२६.९१

ऊचतुः प्रेक्ष्य तद्वक्त्रं नारायणपितामहौ ।
यदि प्रीतिः समुत्पन्ना यदि देयो वरो हि न ।२६.९२

भक्तिर्भवतु नौ नित्यं त्वयि देव महेश्वरे ।
ततः स भगवानीशः प्रहसन् परमेश्वरः ॥२६.९३

उवाच मां महादेवः प्रीतः प्रीतेन चेतसा ।
देवदेव उवाच ।
प्रलयस्थितिसर्गाणां कर्त्ता त्वं धरणीपते ॥२६.९४

वत्स वत्स हरे विश्वं पालयैतच्चराचरम् ।
त्रिधा भिन्नोऽस्म्यहं विष्णो ब्रह्मविष्णुहराख्यया ॥२६.९५

सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः ।
संमोहं त्यज भो विष्णो पालयैनं पितामहम् ॥२६.९६

भविष्यत्येव भगवांस्तव पुत्रः सनातनः ।
अहं च भवतो वक्त्रात् कल्पादौ सुररूपधृक् ॥२६.९७

शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रकः ।
एवमुक्त्वा महादेवो ब्रह्माणं मुनिसत्तम ॥२६.९८

अनुगृह्य च मां देवस्तत्रैवान्तरधीयत ।
ततः प्रभृति लोकेषु लिङ्गार्चा सुप्रतिष्ठिता ॥२६.९९

लिङ्गं तत्तु यतो ब्रह्मन् ब्रह्मणः परमं वपुः ।
एतल्लिङ्गस्य माहात्म्यं भाषितं ते मयाऽनघ ॥२६.१००

एतद् बुध्यन्ति योगज्ञा न देवा न च दानवाः ।
एतद्धि परमं ज्ञानमव्यक्तं शिवसंज्ञितम् ॥२६.१०१

येन सूक्ष्ममचिन्त्यं तत् पश्यन्ति ज्ञान चक्षुषः ।
तस्मै भगवते नित्यं नमस्कारं प्रकुर्महे ॥२६.१०२

महादेवाय रुद्राय देवदेवाय लिङ्गिने ।
नमो वेदरहस्याय नीलकण्ठाय ते नमः ॥२६.१०३

विभीषणाय शान्ताय स्थाणवे हेतवे नमः ।
ब्रह्मणे वामदेवाय त्रिनेत्राय महीयसे ॥२६.१०४

शंकराय महेशाय गिरीशाय शिवाय च ।
नमः कुरुष्व सततं ध्यायस्व मनसा हरम् ॥२६.१०५

संसारसागरादस्मादचिरादुद्धरिष्यसि ।
एवं स वासुदेवेन व्याहृतो मुनिपुंगवः ॥२६.१०६

जगाम मनसा देवमीशानं विश्वतोमुखम् ।
प्रणम्य शिरसा कृष्णमनुज्ञातो महामुनिः ॥२६.१०७

जगाम चेप्सितं देशं देवदेवस्य शूलिनः ।
य इमं श्रावयेन्नित्यं लिङ्गाध्यायमनुत्तमम् ॥२६.१०८

श्रृणुयाद् वा पठेद्वापि सर्वपापैः प्रमुच्यते ।
श्रुत्वा सकृदपि ह्येतत् तपश्चरणमुत्तमम् ॥२६.१०९

वासुदेवस्य विप्रेन्द्राः पापं मुञ्चिति मानवः ।
जपेद् वाहरहर्नित्यं ब्रह्मलोके महीयते ।

एवमाह महायोगी कृष्णद्वैपायनः प्रभुः ॥२६.११०

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे षड्विंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP