पूर्वभागः - पञ्चविंशतितमोऽध्यायः
पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.
सूत उवाच
अथ देवो हृषीकेशो भगवान् पुरुषोत्तमः ।
तताप घोरं पुत्रार्थं निदानं तपसस्तपः ॥२५.१
स्वेच्छयाऽप्यवतीर्णोऽसौ कृतकृत्योऽपि विश्वधृक् ।
चचार स्वात्मनो मूलं बोधयन् भावमैश्वरम् ॥२५.२
जगाम योगिभिर्जुष्टं नानापक्षिसमाकुलम् ।
आश्रमं तूपमन्योर्वै मुनीन्द्रस्य महात्मनः ॥२५.३
पतत्त्रिराजमारूढः सुपर्णमतितेजसम् ।
शङ्खचक्रगदापाणिः श्रीवत्सकृतलक्षणः ॥२५.४
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ।
ऋषीणामाश्रमैर्जुष्टं वेदघोषनिनादितम् ॥२५.५
सिंहर्क्षशरभाकीर्णं शार्दूलगजसंयुतम् ।
विमलस्वादुपानीयैः सरोभिरुपशोभितम् ॥२५.६
आरामैर्विविधैर्जुष्टं देवतायतनैः शुभैः ।
ऋषिभिऋषिपुत्रैश्च महामुनिगणैस्तथा ॥२५.७
वेदाध्ययनसंपन्नैः सेवितं चाग्निहोत्रिभिः ।
योगिभिर्ध्याननिरतैर्नासाग्रन्यस्तलोचनैः ॥२५.८
उपेतं सर्वतः पुण्यं ज्ञानिभिस्तत्त्वदर्शिभिः ।
नदीभिरभितो जुष्टं जापकैर्ब्रह्मवादिभिः ॥२५.९
सेवितं तापसैः पुण्यैरीशाराधनतत्परैः ।
प्रशान्तैः सत्यसंकल्पैर्निः शोकैर्निरुपद्रवैः ॥२५.१०
भस्मावदातसर्वाङ्गै रुद्रजाप्यपरायणैः ।
मुण्डितैर्जटिलैः शुद्धैस्तथान्यैश्च शिखाजटैः ॥२५.११
सेवितं तापसैर्नित्यं ज्ञानिभिर्ब्रह्मवादिभिः ॥
तत्राश्रमवरे रम्ये सिद्धाश्रमविभूषिते ॥२५.१२
गङ्गा भगवती नित्यं वहत्येवाघनाशिनी ।
स तानन्विष्य विश्वात्मा तापसान् वीतकल्मषान् ॥२५.१३
प्रणामेनाथ वचसा पूजयामास माधवः ।
ते ते दृष्ट्वा जगद्योनिं शङ्खचक्रगदाधरम् ॥२५.१४
प्रणेमुर्भक्तिसंयुक्ता योगिनां परमं गुरुम् ॥
स्तुवन्ति वैदिकैर्मन्त्रैः कृत्वा हृदि सनातनम् ॥२५.१५
प्रोचुरन्योन्यमव्यक्तमादिदेवं महामुनिम् ।
अयं स भगवानेकः साक्षान्नारायणः परः ॥२५.१६
अगच्छत्यधुना देवः पुराणपुरुषः स्वयम् ।
अयमेवाव्ययः स्रष्टा संहर्त्ता चैव रक्षकः ॥२५.१७
अमूर्त्तो मूर्तिमान् भूत्वा मुनीन् द्रष्टुमिहागतः ।
एष धाता विधाता च समागच्छति सर्वगः ॥२५.१८
अनादिरक्षयोऽनन्तो महाभूतो महेश्वरः ।
श्रुत्वा बुध्वा हरिस्तेषां वचांसि वचनातिगः ॥२५.१९
ययौ स तूर्णं गोविन्दः स्थानं तस्य महात्मनः ।
उपस्पृश्याथ भावेन तीर्थे तीर्थे स यादवः ॥२५.२०
चकार देवकीसूनुर्देवर्षिपितृतर्पणम् ।
नदीनां तीरसंस्थानि स्थापितानि मुनीश्वरैः ।२३.२१
लिङ्गानि पूजयामास शंभोरमिततेजसः ।
दृष्ट्वा दृष्ट्वा समायान्तं यत्र यत्र जनार्दनम् ।२३.२२
पूजयाञ्चक्रिरे पुष्पैरक्षतैस्तत्र वासिनः ।
समीक्ष्य वासुदेवं तं शार्ङ्गशङ्खासिधारिणम् ॥२५.२३
तस्थिरे निश्चलाः सर्वे शुभाङ्गं तन्निवासिनः ।
यानि तत्रारुरुक्षूणां मानसानि जनार्दनम् ॥२५.२५
दृष्ट्वा समीहितान्यासन् निष्क्रामन्ति पुराहिरम् ।
अथावगाह्य गङ्गायां कृत्वा देवादितर्पणम् ॥२५.२५
आदाय पुष्पवर्याणि मुनीन्द्रस्याविशद् गृहम् ।
दृष्ट्वा तं योगिनां श्रेष्ठं भस्मोद्धूलितविग्रहम् ॥२५.२६
जटाचीरधरं शान्तं ननाम शिरसा मुनिम् ।
आलोक्य कृष्णमायान्तं पूजयामास तत्त्ववित् ॥२५.२७
आसने चासयामास योगिनां प्रथमातिथिम् ।
उवाच वचसां योनिं जानीमः परमं पदम् ॥२५.२८
विष्णुमव्यक्तसंस्थानं शिष्यभावेन संस्थितम् ।
स्वागतं ते हृषीकेश सफलानि तपांसि नः ॥२५.२९
यत् साक्षादेव विश्वात्मा मद्गेहं विष्णुरागतः ।
त्वां न पश्यन्ति मुनयो यतन्तोऽपि हि योगिनः ॥२५.३०
तादृशस्याथ भवतः किमागमनकारणम् ।
श्रुत्वोपमन्योस्तद् वाक्यं भगवान् केशिमर्दनः ।
व्याजहार महायोगी वचनं प्रणिपत्य तम् ॥२५.३१
श्रीकृष्ण उवाच
भगवन् द्रष्टुमिच्छामि गिरीशं कृत्तिवाससम् ॥२५.३२
संप्राप्तो भवतः स्थानं भगवद्दर्शनोत्सुकः ।
कथं स भगवानीशो दृश्यो योगविदां वरः ॥२५.३३
मयाऽचिरेण कुत्राहं द्रक्ष्यामि तमुमापतिम् ।
इत्याह भगवानुक्तो दृश्यते परमेश्वरः ॥२५.३४
भक्त्या चोग्रेण तपसा तत्कुरुष्वेह यत्नतः ।
इहेश्वरं देवदेवं मुनीन्द्रा ब्रह्मवादिनः ॥२५.३५
ध्यायन्तः आसते देवं जापिनस्तापसाश्च ये ।
इह देवः सपत्नीको भगवान् वृषभध्वजः ॥२५.३६
क्रीडते विविधैर्भूतैर्योगिभिः परिवारितः ।
इहाश्रमे पुरा रुद्रं तपस्तप्त्वा सुदारुणम् ॥२५.३७
लेभे महेश्वराद् योगं वसिष्ठो भगवानृषिः ।
इहैव भगवान् व्यसः कृष्णद्वैपायनः प्रभुः ॥२५.३८
दृष्ट्वा तं परमं ज्ञानं लब्धवान् ज्ञानमैश्वरम् ।
इहाश्रमवरे रम्ये तपस्तप्त्वा कपर्दिनः ॥२५.३९
अविन्दत् पुत्रकान् रुद्रात् सूरयोर्भक्तिसंयुता ।
इहैव देवताः पूर्वं कालाद् भीता महेश्वरम् ॥२५.४०
संस्तुवन्त महादेवं निर्भया निर्वृतिं ययुः ॥
इहाराध्य महादेवं सावर्णिस्तपतां वरः ॥२५.४१
लब्धवान् परमं योगं ग्रन्थकारत्वमुत्तमम् ।
प्रवर्तयामास शुभां कृत्वा वै संहितां द्विजः ॥२५.४२
(इहैव संहितां दृष्ट्वा कामो यः । शशिपायिनः ।
महादेवं चकारेमां पौराणीं तन्नियोगतः ।
द्वादशैव सहस्त्राणि श्लोकानां पुरुषोत्तम ॥
इह प्रवर्तिता पुण्या द्व्यष्टसाहस्रिकोत्तरा ।
वायवीयोत्तरं नाम पुराणं वेदसंमितम् ।)
द्विजः पौराणिकीं पुण्यां प्रसादेन द्विजोत्तमैः
इहैव ख्यापितं शिष्यैः शांशपायनभाषितम् ॥२५.४३
याज्ञवल्क्यो महायोगी दृष्ट्वाऽत्र तपसा हरम् ।
चकार तन्नियोगेन योगशास्त्रमनुत्तमम् ॥२५.४४
इहैव भृगुणा पूर्वं तप्त्वा वै परमं तपः ।
शुक्रो महेश्वरात् पुत्रो लब्धो योगविदां वरः ॥२५.४५
तस्मादिहैव देवेशं तपस्तप्त्वा महेश्वरम् ।
द्रष्टुमर्हसि विश्वेशमुग्रं भीमं कपर्दिनम् ॥२५.४६
एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः ।
व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे ॥२५.४७
स तेन मुनिवर्येण व्याहृतो मधुसूदनः ।
तत्रैव तपसा देवं रुद्रमाराधयत् प्रभुः ॥२५.४८
भस्मौद्धूलितसर्वाङ्गो मुण्डो वल्कलसंयुतः ।
जजाप रुद्रमनिशं शिवैकाहितमानसः ॥२५.४९
ततो बहुतिथे काले सोमः सोमार्धभूषणः ।
अदृश्यत महादेवो व्योम्नि देव्या महेश्वरः ॥२५.५०
किरीटिनं गदिनं चित्रमालं
पिनाकिनं शूलिनं देवदेवम् ।
शार्दूलचर्माम्बरसंवृताङ्गं
देव्या महादेवमसौ ददर्श ॥२५.५१
प्रभुं पुराणं पुरुषं पुरुस्तात् ।
सनातनं योगिनमीशतारम् ॥
अणोरणीयांसमनन्तशक्तिं
प्राणेश्वरं शम्भमसौ ददर्श ॥२५.५२
परश्वधासक्तकरं त्रिनेत्रं.
नृसिंहचर्मावृतभस्मगात्रम् ॥
समुद्गिरन्तं प्रणवं बृहन्तं ।
सहस्त्रसूर्यप्रतिमं ददर्श ॥२५.५३
न यस्य देवा न पितामहोऽपि
नेन्द्रो न चाग्निर्वरुणो न मृत्युः ।
प्रभावमद्यापि वदन्ति रुद्रं
तमादिदेवं पुरतो ददर्श ॥२५.५४
तदान्वपश्यद् गिरिशस्य वामे
स्वात्मानमव्यक्तमनन्तरूपम् ।
स्तुवन्तमीशं बहुभिर्वचोभिः
शङ्खासिचक्रार्पितहस्तमाद्यम् ॥२५.५५
कृताञ्जलिं दक्षिणतः सुरेशं
हंसाधिरूढं पुरुषं ददर्श ।
स्तुवानमीशस्य परं प्रभावं
पितामहं लोकगुरुं दिवस्थम् ॥२५.५६
गणेश्वरानर्कसहस्त्रकल्पान्
नन्दीश्वरादीनमितप्रभावान् ।
त्रिलोकभर्त्तुः पुरतोऽन्वपश्यत्
कुमारमग्निप्रतिमं विशाखम् ॥२५.५७
मरीचिमत्रिं पुलहं पुलस्त्यं
प्रचेतसं दक्षमथापि कण्वम् ।
पराशरं तत्परतो वसिष्ठं
स्वायंभुवं चापि मनुं ददर्श ॥२५.५८
तुष्टाव मन्त्रैरमरप्रधानं
बद्धाञ्जलिर्विष्णुरुदारबुद्धिः ।
प्रणम्य देव्या गिरिशं सभक्त्या
स्वात्मन्यथात्मानमसौ विचिन्त्य ॥२५.५९
श्रीकृष्ण उवाच
नमोऽस्तु ते शाश्वत सर्वयोने
ब्रह्माधिपं त्वामृषयो वदन्ति ।
तपश्च सत्त्वं च रजस्तमश्च
त्वामेव सर्व प्रवदन्ति सन्तः ॥२५.६०
त्वं ब्रह्मा हरिरथ विश्वयोनिरग्निः
संहर्त्ता दिनकरमण्डलाधिवासः ।
प्राणस्त्वं हुतवहवासवादिभेद-
सत्वामेकं शरणमुपैमि देवमीशम् ॥२५.६१
सांख्यास्त्वां अगुणमथाहुरेकरूपं
योगास्थं सततमुपासते हृदिस्थम् ।
वेदास्त्वामभिदधतीह रुद्रमग्निं
त्वामेकं शरणमुपैमि देवमीशम् ॥२५.६२
त्वात्पादे कुसुममथापि पत्रमेकं
दत्त्वासौ भवति विमुक्तविश्वबन्धः ।
सर्वांध्यं प्रणुदति सिद्धयोगिजुष्टं
स्मृत्वा ते पदयुगलं भवत्प्रसादात् ॥२५.६३
यस्याशेषविभागहीनममलं हृद्यन्तरावस्थितं ते
तत्त्वं योनिमनन्तमेकमचलं सत्यं परं सर्वगम् ॥२५.६४
स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायते
नित्यं त्वामहमुपैमि सत्यविभवंविश्वेश्वरंतंशिवम् ॥२५.६५
ॐ नमो नीलकण्ठाय त्रिनेत्राय च रंहसे ।
महादेवाय ते नित्यमीशानाय नमो नमः ॥२५.६६
नमः पिनाकिने तुभ्यं नमो मुण्डाय दण्डिने ।
नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥२५.६७
नमो भैरवनादाय कालरूपाय दंष्ट्रिणे ।
नागयज्ञोपवीताय नमस्ते वह्निरेतसे ॥२५.६८
नमोऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः ।
नमो मुक्ताट्टहासाय भीमाय च नमो नमः ॥२५.६९
नमस्ते कामनाशाय नमः कालप्रमाथिने ।
नमो भैरववेषाय हराय च निषङ्गिणे ॥२५.७०
नमोऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवाससे ।
नमोऽम्बिकाधिपतये पशूनां पतये नमः ॥२५.७१
नमस्ते व्योमरूपाय व्योमाधिपतये नमः ।
नरनारीशरीराय सांख्ययोगप्रवर्त्तिने ॥२५.७२
नमो भैरवनाथाय देवानुगतलिङ्गिने ।
कुमारगुरवे तुभ्यं देवदेवाय ते नमः ॥२५.७३
तमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे ।
मृगव्याधाय महते ब्रह्माधिपतये नमः ॥२५.७४
नमो हंसाय विश्वाय मोहनाय नमो नमः ।
योगिने योगगम्याय योगमायाय ते नमः ॥२५.७५
नमस्ते प्राणपालाय घण्टानादप्रियाय च ।
कपालिने नमस्तुभ्यं ज्योतिषां पतये नमः ॥२५.७६
नमो नमो नमस्तुभ्यं भूय एव नमो नमः ।
मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ॥२५.७७
सूत उवाच
एवं हि भक्त्या देवेशमभिष्टूय स माधवः ।
पपात पादयोर्विप्रा देवदेव्योः स दण्डवत् ॥२५.७८
उत्थाप्य भगवान् सोमः कृष्णं केशिनिषूदनम् ।
बभाषे मधुरं वाक्यं मेघगम्भीरनिः स्वनः ॥२५.७९
किमर्थं पुण्डरीकाक्ष तपस्तप्तं त्वयाऽव्यय ।
त्वमेव दाता सर्वेषां कामानां कामिनामिह ॥२५.८०
त्वं हि सा परमा मूर्तिर्मम नारायणाह्वया ।
नानवाप्तं त्वया तात विद्यते पुरुषोत्तम ॥२५.८१
वेत्थ नारायणानन्तमात्मानं परमेश्वरम् ।
महादेवं महायोगं स्वेन योगेन केशव ॥२५.८२
श्रुत्वा तद्वचनं कृष्णः प्रहसन् वै वृषध्वजम् ।
उवाचान्वीक्ष्य विश्वेशं देवीं च हिमशैलजाम् ॥२५.८३
ज्ञातं हि भवता सर्वं स्वेन योगेन शंकर ।
इच्छाम्यात्मसमं पुत्रं त्वद्भक्तं देहि शंकर ॥२५.८४
तथास्त्वित्याह विश्वात्मा प्रहृष्टमनसा हरः ।
देवीमालोक्य गिरिजां केशवं परिषस्वजे ॥२५.८५
ततः सा जगतां माता शंकरार्द्धशरीरिणी ।
व्याजहार हृषीकेशं देवी हिमगिरीन्द्रजा ॥२५.८६
वत्स जाने तवानन्ता निश्चलां सर्वदाच्युत ।
अनन्यामीश्वरे भक्तिमात्मन्यपि च केशव ॥२५.८७
त्वं हि नारायणः साक्षात् सर्वात्मा पुरुषोत्तमः ।
प्रार्थितो दैवतैः पूर्वं संजातो दैवकीसुतः ॥२५.८८
पश्य त्वमात्मनात्मानमात्मीयममलं पदम् ।
नावयोर्विद्यते भेद एकं पश्यन्ति सूरयः ॥२५.८९
इमानिह वरानिष्टान् मत्तो गृह्णीष्व केशव ।
सर्वज्ञत्वं तथैश्वर्यं ज्ञानं तत् पारमेश्वरम् ॥२५.९०
ईश्वरे निश्चलां भक्तिमात्मन्यपि परं बलम् ।
एवमुक्तस्तया कृष्णो महादेव्या जनार्दनः ॥२५.९१
आशिषं शिरसागृह्य देवोऽप्याह महेश्वरः ।
प्रगृह्य कृष्णं भगवानथेशः
करेण देव्या सह देवदेवः ।
संपूज्यमानो मुनिभिः सुरेशै-
र्जगाम कैलासगिरिं गिरीशः ॥२५.९२
इति श्रीकूर्मपूराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चविंशोऽध्यायः ॥ २५ ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP