संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
चत्वारिंशत्तमोऽध्यायः

पूर्वभागः - चत्वारिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


श्रीकूर्म उवाच
एवमुक्तास्तु मुनयो नैमिषीया महामतिम् ।
पप्रच्छुरुत्तरं सूतं पृथिव्यादिविनिर्णयम् ॥४०.१

ऋषय ऊचुः
कथितो भवता सूत सर्गः स्वयंभुवः शुभः ।
इदानीं श्रोतुमिच्छामस्त्रिलोकस्यास्य मण्डलम् ॥४०.२

यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः ।
वनानि सरितः सूर्यग्रहाणां स्थितिरेव च ॥४०.३

यदाधारमिदं कृत्स्नं येषां पृथ्वी पुरा त्वियम् ।
नृपाणां तत्समासेन सूत वक्तुमिहार्हसि ॥४०.४

सूत उवाच
वक्ष्ये देवादिदेवाय विष्णवे प्रभविष्णवे ।
नमस्कृत्याप्रमेयाय यदुक्तं तेन धीमता ॥४०.५

स्वायंभुवस्य तु मनोः प्रागुक्तो यः प्रियव्रतः ।
पुत्रस्तस्याभवन् पुत्राः प्रजापतिसमा दश ॥४०.६

अग्नीध्रश्चाग्निबाहुश्च वपुष्मान् द्युतिमांस्तथा ।
मेधा मेधातिथिर्हव्यः सवनः पुत्र एव च ॥४०.७

ज्योतिष्मान् दशमस्तेषां महाबलपराक्रमः ।
धार्मिको दाननिरतः सर्वभूतानुकम्पकः ॥४०.८

मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ।
जातिस्मरा महाभागा न राज्ये दधिरे मतिम् ॥४०.९

प्रियव्रतोऽभ्यषिञ्चद् वै सप्तद्वीपेषु सप्त तान् ।
जम्बुद्वीपेश्वरं पुत्रमग्नीध्रमकरोन्नृपः ॥४०.१०

प्लक्ष्द्वीपेश्वरश्चैव तेन मेधातिथिः कृतः ।
शाल्मलीशं वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ॥४०.११

ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः ।
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ॥४०.१२

शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः ।
पुष्कराधिपतिं चक्रे सवनं च प्रजापतिः ॥४०.१३

पुष्करेश्वरतश्चापि महावीतः सुतोऽभवत् ।
धातिकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ ॥४०.१४

महावीतं स्मृतं वर्षं तस्य स्यात्तु महात्मनः ।
नाम्ना वैधातकेश्चापि धातकीखण्डमुच्यते ॥४०.१५

शाकद्वीपेश्वरस्याथ हव्यस्याप्यभवन् सुताः ।
जलदश्च कुमारश्च सुकुमारो मणीचकः ॥४०.१६

कुशोत्तरोऽथ मोदाकिः सप्तमः स्यान्महाद्रुमः ।
जलदं जलदस्याथ वर्षं प्रथममुच्यते ॥४०.१७

कुमारस्य तु कौमारं तृतीयं सुकुमारकम् ।
मणीचकं चतुर्थं तु पञ्चमं कुसुमोत्तरम् ॥४०.१८

मोदाकं षष्ठमित्युक्तं सप्तमं तु महाद्रुमम् ।
क्रौञ्चद्वीपेश्वरस्यापि सुता द्युतिमतोऽभवन् ॥४०.१९

कुशलः प्रथमस्तेषां द्वितीयस्तु मनोहरः ।
उष्णस्तृतीयः संप्रोक्तश्चतुर्थः प्रवरः स्मृतः ॥४०.२०

अन्धकारो मुनिश्चैव दुन्दुभिश्चेति सप्तमः ।
तेषां स्वनामभिर्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः ॥४०.२१

ज्योतिष्मतः कुशद्वीपे सप्तैवासन् महौजसः ।
उद्‌भेदो वेणुमांश्चैवाश्वरथो लम्बनो धृतिः ॥४०.२२

षष्ठः प्रभाकारश्चापि सप्तमः कपिलः स्मृतः ।
स्वनामचिह्निता यत्र तथा वर्षाणि सुव्रताः ॥४०.२३

ज्ञेयानि च तथान्येषु द्वीपेष्वेवं न यो मतः ।
शाल्मलिद्वीपनाथस्य सुताश्चासन् वपुष्मतः ॥४०.२४

श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ।
वैद्युतौ मानसश्चैव सप्तमः सुप्रभो मतः ॥४०.२५

प्लक्षद्वीपेश्वरस्यापि सप्त मेधातिथेः सुताः ।
ज्येष्ठः शान्तमयस्तेषां शिशिरस्तु सुखोदयः ॥४०.२६

आनन्दश्च शिवश्चैव क्षेमकश्च ध्रुवस्तथा ।
प्लक्षद्वीपादिषु ज्ञेयाः शाकद्वीपान्तिकेषु च ॥४०.२७

वर्णाश्रमविभागेन स्वधर्मो मुक्तये द्विजाः ।
जम्बुद्वीपेश्वरस्यापि पुत्रास्त्वासन् महाबलाः ॥४०.२८

अग्नीध्रस्य द्विजश्रेष्ठास्तन्नामानि निबोधत ।
नाभिः किंपुरुषश्चैव तथा हरिरिलावृतः ॥४०.२९

रम्यो हिरण्वांश्च कुरुर्भद्राश्वः केतुमालकः ।
जम्बुद्वीपेश्वरो राजा स चाग्नीध्रो महामतिः ॥४०.३०

विभज्य नवधा तेभ्यो यथान्यायं ददौ पुनः ।
नाभेस्तु दक्षिणं वर्षं हिमाह्वं प्रददौ पिता ॥४०.३१

हेमकूटं ततो वर्षं ददौ किंपुरुषाय सः ।
तृतीयं नैषधं वर्षं हरये दत्तवान् पिता ॥४०.३२

इलावृताय प्रददौ मेरुमध्यमिलावृतम् ।
नीलाचलाश्रृतं वर्षं रम्याय प्रददौ पिता ॥४०.३३

श्वेतं यदुत्तरं वर्षं पित्रा दत्तं हिरण्वते ।
यदुत्तरं श्रृङ्गवतो वर्षं तत् कुरुवे ददौ ॥४०.३४

मेरोः पूर्वेण यद् वर्षं भद्राश्वाय न्यवेदयत् ।
गन्धमादनवर्षं तु केतुमालाय दत्तवान् ॥४०.३५

वर्षेष्वेतेषु तान् पुत्रानभिषिच्य नराधिपः ।
संसारकष्टतां ज्ञात्वा तपस्तेपे वनं गतः ॥४०.३६

हिमाह्वयं तु यस्यैतन्नाभेरासीन्महात्मनः ।
तस्यर्षभोऽभवत् पुत्रो मरुदेव्यां महाद्युतिः ॥४०.३७

ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः ।
सोऽभिषिच्यर्षभः पुत्रं भरतं पृथिवीपतिः ॥४०.३८

वानप्रस्थाश्रमं गत्वा तपस्तेपे यथाविधि ।
तपसा कर्षितोऽत्यर्थं कृशो धमनिसन्ततः ॥४०.३९

ज्ञानयोगरतो भूत्वा महापाशुपतोऽभवत् ।
सुमतिर्भरतस्याभूत् पुत्रः परमधार्मिकः ॥४०.४०

सुमतेस्तैजसस्तस्मादिन्द्रिद्युम्नो महाद्युतिः ।
परमेष्ठी सुतस्तस्मात् प्रतीहारस्तदन्वयः ॥४०.४१

प्रतिहर्त्तेति विख्यात उत्पन्नस्तस्य चात्मजः ।
भवस्तस्मादथोद्‌गीथः प्रस्तावस्तत्सुतोऽभवत् ॥४०.४२

पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः स्मृतः ।
नरो गयस्य तनयस्तस्य पुत्रो विराडभूत् ॥४०.४३

तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ।
धीमतोऽपि ततश्चाभूद् शौचनस्तत्सुतोऽभवत् ॥४०.४४

त्वष्टा त्वष्टुश्च विरजो रजस्तस्मादभूत् सुतः ।
शतजिद् रथजित्तस्य जज्ञे पुत्रशतं द्विजाः ॥४०.४५

तेषां प्रधानो बलवान् विश्वज्योतिरिति स्मृतः ।
आराध्य देवं ब्रह्माणं क्षेमकं नाम पार्थिवम् ॥४०.४६

असूत पुत्रं धर्मज्ञं महाबाहुमरिंदमम्‌ ।
एते पुरस्ताद् राजानो महासत्त्वा महौजसः ॥४०.४७

एषां वंशप्रसूतैश्च भुक्तेयं पृथिवी पुरा ॥४०.४८

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे चत्वारिंशोऽध्यायः ॥ ४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP