पूर्वभागः - एकोनविंशतितमोऽध्यायः
पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.
सूत उवाच ।
एतानुत्पाद्य पुत्रांस्तु प्रजासंतानकारणात् ।
कश्यपो गोत्रकामस्तु चचार सुमहत् तपः ॥१९.१
तस्य वै तपतोऽत्यर्थं प्रादुर्भूतौ सुताविमौ ।
वत्सरश्चासिश्चैव तावुभौ ब्रह्मवादिनौ ॥१९.२
वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः ।
रैभ्यस्य जज्ञिरे शूद्राः पुत्रा श्रुतिमतां वराः ॥१९.३
च्यवनस्य सुता पत्नी नैध्रुवस्य महात्मनः ।
सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥१९.४
असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ।
नाम्ना वै देवलः पुत्रो योगाचार्यो महातपाः ॥१९.५
शाण्डिल्यानां परः श्रीमान् सर्वतत्त्वार्थवित् सुधीः ।
प्रसादात् पार्वतीशस्य योगमुत्तममाप्तवान् ॥१९.६
शाण्डिल्या नैध्रुवो रैभ्यः त्रयः पुत्रास्तु काश्यपाः ।
नरप्रकृतयो विप्राः पुलस्त्यस्य वदामि वः ॥१९.७
तृणबिन्दोः सुता विप्रा नाम्ना ऐलविला स्मृता ।
पुलस्त्याय तु राजर्षिस्तां कन्यां प्रत्यपादयत् ॥१९.८
ऋषिस्त्वैलविलिस्तस्यां विश्रवाः समपद्यत ।
तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्द्धिकाः ॥१९.९
पुष्पोत्कटा च वाका च कैकसी देववर्णिनी ।
रूपलावण्यसंपन्नास्तासां वै श्रृणुत प्रजाः ॥१९.१०
ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी ।
कैकस्यजनयत् पुत्रं रावणं राक्षसाधिपम् ॥१९.११
कुम्भकर्णं शूर्पणखां तथैव च विभीषणम् ।
पुष्पोत्कटाप्यजनयत् पुत्रान् विश्रवसः शुभान् ॥१९.१२
महोदरं प्रहस्तं च महापार्श्वं खरं तथा ।
कुम्भीनसीं तथा कन्यां वाकायां श्रृणुत प्रजाः ॥१९.१३
त्रिशिरा दूषणश्चैव विद्युज्जिह्वो महाबलः ।
इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश ।
सर्वे तपोबलोत्कृष्टा रुद्रभक्ताः सुभीषणाः ॥१९.१४
पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः ।
भूताः पिशाचाः सर्पाश्च शूकरा हस्तिनस्तथा ॥१९.१५
अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेऽन्तरे ।
मरीचेः कश्यपः पुत्रः स्वयमेव प्रजापतिः ॥१९.१६
भृगोरप्यभवच्छुक्रो दैत्याचार्यो महातपाः ।
स्वाध्याययोगनिरतो हरभक्तो महाद्युतिः ॥१९.१७
अत्रेः पुत्रोऽभवद्वह्निः सोदर्यस्ताः पतिव्रताः ।
कृशाश्वस्य तु विप्रेन्द्रा घृताच्यामिति न श्रुतम् ॥१९.१८
स तासु जनयामास स्वस्त्यात्रेयान् महौजसः ।
वेदवेदाङ्गनिरतांस्तपसा हतकिल्बिषान् ॥१९.१९
नारदस्तु वसिष्ठाय ददौ देवीमरुन्धतीम् ।
ऊर्ध्वरेतास्तु तत्रैव शापाद् दक्षस्य नारदः ॥१९.२०
हर्यश्वेषु तु नष्टेषु मायया नारदस्य तु ।
शशाप नारदं दक्षः क्रोधसंरक्तलोचनः ॥१९.२१
यस्मान्मम सुताः सर्वे भवतो मायया द्विज ।
क्षयं नीतास्त्वशेषेण निरपत्यो भविष्यति ॥१९.२२
अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पादयत् सुतम् ।
शक्तेः पराशरः श्रीमान् सर्वज्ञस्तपतां वरः ॥१९.२३
आराध्य देवदेवेशमीशानं त्रिपुरान्तकम् ।
लेभे त्वप्रतिमं पुत्रं कृष्णाद्वैपायनं प्रभुम् ॥१९.२४
द्वैपायनाच्छ्रको जज्ञे भगवानेव शंकरः ।
अंशांशेनावतीर्योर्व्यां स्वं प्राप परमं पदम् ॥१९.२५
शुकस्यास्याभवन् पुत्राः पञ्चात्यन्ततपस्विनः ।
भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः ॥१९.२६
कन्या कीर्त्तिमती चैवं योगमाता धृतव्रता ।
एतेऽत्रिवंशाः कथिता ब्रह्मणा ब्रह्मवादिनाम् ॥१९.२७
अत ऊर्ध्वं निबोधध्वं कश्यपाद्राजसंततिम् ॥१९.२८
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकोनविंशोऽध्यायः॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP