संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
चतुर्थोऽध्यायः

पूर्वभागः - चतुर्थोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच ।
श्रुत्वाऽऽश्रमविधिं कृत्स्नमृषयो। हृष्टमानसाः ।
नमस्कृत्य हृषीकेशं पुनर्वचनमब्रुवन् ॥४.१

मुनय ऊचुः ।
भाषितं भवता सर्वं चातुराश्रम्यमुत्तमम् ।
इदानीं श्रोतुमिच्छामो यथा संभवते जगत् ॥४.२

कुतः सर्वमिदं जातं कस्मिंश्च लयमेष्यति ।
नियन्ता कश्च सर्वेषां वदस्व पुरुषोत्तम ॥४.३

श्रुत्वा नारायणो वाक्यमृषीणां कूर्मरूपधृक् ।
प्राह गम्भीरया वाचा भूतानां प्रभवोव्ययः ॥४.४
श्रीकूर्म उवाच ।
महेश्वरः परोऽव्यक्तश्चतुर्व्यूहः सनातनः ।
अनन्तश्चाप्रमेयश्च नियन्ता विश्वतोमुखः ॥४.५

अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥४.६

गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्जितम् ।
अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ॥४.७

जगद्योनिर्महाभूतं परं ब्रह्म सनातनम् ।
विग्रहः सर्वभूतानामात्मनाऽधिष्ठितं महत् ॥४.८

अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् ।
असांप्रतमविज्ञेयं ब्रह्माग्रे समवर्त्तत ॥४.९

गुणसाम्ये तदा तस्मिन् पुरुषे चात्मनि स्थिते ।
प्राकृतः प्रलयो ज्ञेयो यावद् विश्वसमुद्भवः ॥४.१०

ब्राह्मी रात्रिरियं प्रोक्ता अहः सृष्टिरुदाहृता ।
अहर्न विद्यते तस्य न रात्रिर्ह्युपचारतः ॥४.११

निशान्ते प्रतिबुद्धोऽसौ जगदादिरनादिमान् ।
सर्वभूतमयोऽव्यक्ता दन्तर्यामीश्वरः परः ॥४.१२

प्रकृतिं पुरुषं चैव प्रविश्याशु महेश्वरः ।
क्षोभयामास योगेन परेण परमेश्वरः ॥४.१३

यथा मदो नरस्त्रीणां यथा वा माधवोऽनिलः ।
अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान् ॥४.१४

स एव क्षोभको विप्राः क्षोभ्यश्च परमेश्वरः ।
स संकोचविकासाभ्यां प्रधानत्वे व्यवस्थितः ॥४.१५

प्रधानात् क्षोभ्यमानाच्च तथा पुंसः पुरातनात् ।
प्रादुरासीन्महद्बीजं प्रधानपुरुषात्मकम् ॥४.१६

महानात्मा मतिर्ब्रह्मा प्रबुद्धिः ख्यातिरीश्वरः ।
प्रज्ञाधृतिः स्मृतिः संविदेतस्मादिति तत्स्मृतम् ॥४.१७

वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।
त्रिविधोऽयमहंकारो महतः संबभूव ह ॥४.१८

अहंकारोऽबिमानश्च कर्त्ता मन्ता च स स्मृतः ।
आत्मा च पुद्गलो जीवो गतः सर्वाः प्रवृत्तयः ॥४.१९

पञ्चभूतान्यहंकारात् तन्मात्राणि च जज्ञिरे ।
इन्द्रियाणि तथा देवाः सर्वं तस्यात्मजं जगत् ॥४.२०

मनस्त्वव्यक्तजं प्रोक्तं विकारः प्रथमः स्मृतः ।
येनासौ जायते कर्त्ता भूतादींश्चानुपश्यति ॥४.२१

वैकारिकादहंकारात् सर्गो वैकारिकोऽभवत् ।
तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश ॥४.२२

एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ।
भूततन्मात्रसर्गोऽयं भूतादेरभवद्विजाः ॥४.२३

भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह ।
आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥४.२४

आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ।
वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणं विदुः ॥४.२५

वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह ।
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥४.२६

ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ।
संभवन्ति ततोऽम्भांसि रसाधाराणि तानि तु ॥४.२७

आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे ।
संघातो जायते तस्मात् तस्य गन्धो गुणो मतः ॥४.२८

आकाशं शब्दमात्रं यत् स्पर्शमात्रं समावृणोत् ।
द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ॥४.२९

रूपं तथैवाविशतः शब्दस्पर्शौ गुणावुभौ ।
त्रिगुणः स्यात् ततो वह्निः स शब्दस्पर्शरूपवान् ॥४.३०

शब्द स्पर्शश्च रूपं च रसमात्रं समाविशन् ।
तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥४.३१

शब्दः स्पर्शश्च रूपं च रसो गन्धं समाविशन् ।
तसमात् पञ्चगुणा भूमिः स्थूला भूतेषु शब्द्यते ॥४.३२

शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ।
परस्परानुप्रवेशाद् धारयन्ति परस्परम् ॥४.३३

एते सप्त महात्मानो ह्यन्योन्यस्य समाश्रयात् ।
नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ॥४.३४

पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ।
महादादयो विशेषान्ता ह्मण्डमुत्पादयन्ति ते ॥४.३५

एककालसमुत्पन्नं जलबुद्‌बुदवच्च तत् ।
विशेषेभ्योऽण्डमभवद् बृहत् तदुदकेशयम् ॥४.३६

तस्मिन् कार्यस्य करणं संसिद्धिः परमेष्ठिनः ।
प्राकृतेऽण्डे विवृद्धे तु क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥४.३७

स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तत ॥४.३८

यमाहुः पुरुषं हंसं प्रधानात् परतः स्थितम् ।
हिरण्यगर्भं कपिलं छन्दोमूर्ति सनातनम् ॥४.३९

मेरुरुल्बमभूत् तस्य जरायुश्चापि पर्वताः ।
गर्भोदकं समुद्राश्च तस्यासन् परमात्मनः ॥४.४०

तस्मिन्नण्डेऽभवद् विश्वं सदेवासुरमानुषम् ।
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥४.४१

अद्भिर्दशगुणाभिश्च बाह्यतोऽण्डं समावृतम् ।
आपो दशगुणेनैव तेजसा बाह्यतो वृताः ॥४.४२

तेजो दशगुणेनैव बाह्यतो वायुनावृतम् ।
आकाशेनावृतो वायुः खं तु भूतादिनावृतम् ॥४.४३

भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ।
एते लोका महात्मनः सर्वतत्त्वाभिमानिनः ॥४.४४

वसन्ति तत्र पुरुषास्तदात्मानो व्यवस्थिताः ।
ईश्वरा योगधर्माणो ये चान्ये तत्त्वचिन्तकाः ॥४.४५

सर्वज्ञाः शान्तरजसो नित्यं मुदितमानसाः ।
एतैरावरणैरण्डं प्राकृतै सप्तभिर्वृतम् ॥४.४६

एतावच्छक्यते वक्तुं मायैषा गहना द्विजाः ।
एतत् प्राधानिकं कार्यं यन्मया बीजमीरितम् ॥४.४७

प्रजापतेः परा मूर्त्तिरितीयं वैदिकी श्रुतिः ।
ब्रह्माण्डमेतत् सकलं सप्तलोकतलान्वितम् ॥४.४८

द्वितीयं तस्य देवस्य शरीरं परमेष्ठिनः ।
हिरण्यगर्भो भगवान् ब्रह्मा वै कनकाण्डजः ॥४.४९

तृतीयं भगवद्रूपं प्राहुर्वेदार्थवेदिनः ।
रजोगुणमयं चान्यद् रूपं तस्यैव धीमतः ॥४.५०

चतुर्मुखः स भगवान् जगत्सृष्टौ प्रवर्त्तते ।
सृष्टं च पाति सकलं विश्वात्मा विश्वतोमुखः ॥४.५१

सत्त्वं गुणमुपाश्रित्य विष्णुर्विश्वेश्वरः स्वयम् ।
अन्तकाले स्वयं देवः सर्वात्मा परमेश्वरः ॥४.५२

तमोगुणं समाश्रित्य रुद्रः संहरते जगत् ।
एकोऽपि सन्महादेवस्त्रिधाऽसौ समवस्थितः ।
सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः ।
एकधा स द्विधा चैव त्रिधा च बहुधा गुणैः ॥४.५३

योगेश्वरः शरीराणि करोति विकरोति च ।
नानाकृतिक्रियारूपनामवन्ति स्वलीलया ॥४.५४

हिताय चैव भक्तानां स एव ग्रसते पुनः ।
त्रिधा विभज्य चात्मानं त्रैकाल्ये संप्रवर्तते ।
सृजते ग्रसते चैव वीक्षते च विशेषतः ॥४.५५

यस्मात् सृष्ट्वाऽनुगृह्णाति ग्रसते च पुनः प्रजाः ।
गुणात्मकत्वात् त्रैकाल्ये तस्मादेकः स उच्यते ॥४.५६

अग्रे हिरण्यगर्भः स प्रादुर्भूतः सनातनः ।
आदित्वादादिदेवोऽसौ अजातत्वादजः स्मृतः ॥४.५७

पाति यस्मात् प्रजाः सर्वाः प्रजापतिरिति स्मृतः ।
देवेषु च महादेवो महादेव इति स्मृतः ॥४.५८

बृहत्त्वाच्च स्मृतो ब्रह्मा परत्वात् परमेश्वरः ।
वशित्वादप्यवश्यत्वादीश्वरः परिभाषितः ॥४.५९

ऋषिः सर्वत्रगत्वेन हरिः सर्वहरो यतः ।
अनुत्पादाच्च पूर्वत्वात् स्वयंभूरिति स स्मृतः ॥४.६०

नराणामयनं यस्मात् तेन नारायणः स्मृतः ।
हरः संसारहरणाद् विभुत्वाद् विष्णुरुच्यते ॥४.६१

भगवान् सर्वविज्ञानादवनादोमिति स्मृतः ।
सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वमयो यतः ॥४.६२

शिवः स्यात् निर्मलो यस्माद् विभुः सर्वगतो यतः ।
तारणात् सर्वदुःखानां तारकः परिगीयते ॥४.६३

बहुनाऽत्र किमुक्तेन सर्वं ब्रह्ममयं जगत् ।
अनेकभेदभिन्नस्तु क्रीडते परमेश्वरः ॥४.६४

इत्येष प्राकृतः सर्गः संक्षेपात् कथितो मया ।
अबुद्धिपूर्विकां विप्रा ब्राह्मीं सृष्टिं निबोधत ॥४.६५

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वंविभागे चतुर्थोऽध्यायः॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP