नलोपाख्यानम् - प्रथमोऽध्याय:
` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.
बृहदश्व उवाच ।
आसीद्राजा नलो नाम वीरसेनसुतो बली ।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविद: ॥१॥
अतिष्ठन्मनुजेन्द्राणां मूर्न्धि देवपतिर्यथा ।
उपर्युपरि सर्वेषामादित्य इव तेजसा ॥२॥
ब्रम्हण्यो वेदविच्छूरो निषधेषु महीपति: ।
अक्षप्रिय: सत्यवादी महानक्षैहिणीपति: ॥३॥
ईप्सितो नरनारीणामुदार: सयंतेन्द्रिय: ।
रक्षिता धन्विना: श्रेष्ठ साक्षादिव मनु: स्वयम् ॥४॥
तथैवासीद्विदर्भैषु भीमो भीमपराक्रम: ।
शूर: सर्वगुणैर्युक्त: प्रजाकाम: स चाप्रजा: ॥५॥
स प्रजार्थे परं यत्नमकरोत्सुसमाहित: ।
तमभ्यगच्छब्र्हह्मर्षिर्दमनो नाम भारत ॥६॥
तं स भीम: प्रजाकामस्तोषयामास धर्मवित् ।
महिष्या सह राजेन्द्र सत्कारेण सुवर्चनसम् ॥७॥
तस्मैप्रसन्नो दमन: सभार्याय वरं ददौ ।
कन्यारत्नं कुमारांश्च श्रीनुदारान्महायशा: ॥८॥
दमयन्ती: दमं दान्तं दमनं च सुवर्चसम् ।
उपपन्नान्गुणै: सर्वैर्भीमीन्भीमपराक्रमान् ॥९॥
दमयन्ती तु रूपेण तेजसा यशसा श्रिया ।
सौभ्यागेन च लोकेषु यश: प्राप सुमध्यमा ॥१०॥
अथ तां वयसि प्राप्ते दासीनां समलंकृतम ।
शतं शतं सखीनां च पर्युपासच्छचीमिव ॥११॥
तत्र स्म राजतै भैमी सर्वाभरणभूषिता ।
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा ॥१२॥
अतीव रूपसंपन्ना श्रीरिवायतलोचना ।
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् ॥१३॥
मानुषेष्वपि चान्येषु दृष्टपूर्वाथवा श्रुता ।
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥१४॥
नलश्च नरशार्दूलो लोकेष्वप्रतिमो भुवि ।
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥१५॥
तस्या: समीपे तु नलं प्रशशंसु: कुतूहलात् ।
नैषधस्य समीपे तु दमयन्ती: पुन: पुन: ॥१६॥
तयोरदृष्टकामोऽभूच्छृण्वतो: सततं गुणान् ।
अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृदच्छय: ॥१७॥
अशक्नुवन्नल: कामं तदा धारयितुं हॄदा ।
अन्त:पुरसमीपस्थे वन आस्ते रहोगत: ॥१८॥
स ददर्श ततो हंसाञ्जातरूपपरिष्कृतान् ।
वने विचरतां तेषामेकं जग्राह पक्षिणाम् ॥१९॥
ततोऽन्तरिक्षगो वाचं व्याजहार नलं तदा ।
हन्तव्योऽस्मि न ते राजन्करिष्यामि तव प्रियम् ॥२०॥
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध ।
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥२१॥
एवमुक्तस्ततो हंसमुत्ससर्ज महीपति: ।
ते तु हंसा समुत्पत्य विदर्भानगमंस्तत: ॥२२॥
विदर्भनगरीं गत्वा दमयन्तास्तदान्तिके ।
निपेतुस्ते गरुत्मन: सा ददर्श च तान्खगान् ॥२३॥
सा तानद्भुतरूपान्वै दृष्टा सखीगणावृता ।
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥२४॥
अथ हंसा विससृप: सर्वत: प्रमदावने ।
एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन ॥२५॥
दमयन्ति तु यं हंसं समुपाधावदन्तिके ।
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत ॥२६॥
दमयन्ति नलो नाम निषधेषु महीपति: ।
आश्विनो: सद्रुशो रूपे न समास्तस्य मानुषा: ॥२७॥
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनी ।
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ॥२८॥
वयं हि देवगन्धर्वमानुषोरगक्षसान् ।
दृष्टवन्तो न चास्माभिदृष्टपूर्वस्तथाविध: ॥२९॥
त्वं चापि रत्नं नारीणां नरेषु च नलो वर: ।
विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत् ॥३०॥
एवमुक्ता तु हंसेन दमयन्ती विशांपते ।
अब्रवीत्तत्र तं हंसं त्वमप्येवं नले वद ॥३१॥
तथेत्युक्त्वाण्डज: कन्यां विदर्भस्य विशांपते ।
पुनरगम्य निषधन्नले सर्व न्यवेदयत् ॥३२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP