नलोपाख्यानम् - षडविंशतितमोsध्याय:
` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.
बृहदश्व उवाच ।
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषध: ।
पुरादल्पपरीवारो जगाम निषाधान्प्रति ॥१॥
रथेनैकेन शुभ्रेण दन्तिभि: परिषोडशै: ।
पञ्चाशाद्भिर्हयैश्चैव षट्शतैश्च पदातिभि: ॥२॥
स कम्पयन्निव महीं त्वरमाणो महीपति: ।
प्रविवेश सुसंरब्धस्तरसैव महामना: ॥३॥
तत: पुष्करमासाद्य वीरसेनसुतो नल: ।
उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् ॥४॥
दमयन्ती च यच्चान्यन्मम किंचन विद्यते ।
एष वै मम संन्यासस्तव राज्यं तु पुष्कर ॥५॥
पुन: प्रवर्ततां द्यूतमिति मे निश्चिता मति: ।
पणेनैकेन भद्रं ते प्राणायोश्च पणावहे ॥६॥
जित्वा परस्वमाह्रत्य राज्यं वा यदि वा वसु ।
प्रतिपाण: प्रदातव्य: परमो धर्म उच्यते ॥७॥
न चेद्वाञ्छसि द्यूतं त्वं युध्दद्यूतं प्रवर्तताम् ।
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ॥८॥
वंशभोज्यमिदं राज्यमर्थितव्यं यथा तथा ।
येन केनाप्युपायेन वृध्दानामिति शासनम् ॥९॥
द्वयोरेकतरे बुध्दि: क्रियतामद्य पुष्कर ।
कैतवेनाक्षवत्यां वा युध्दे वा नाम्यतां धनु: ॥१०॥
नैषधेनैवमुक्तस्तु पुष्कर: प्रहसन्निव ।
ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् ॥११॥
दिष्ट्या त्वयर्जितं वित्तं प्रतिपाणाय नैषध ।
दिष्ट्या च दुष्करं कर्म दमयन्त्या: क्षयं गतम् ॥१२॥
धनेनानेन वै भैमी जितेन समलंकृता ।
समुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सरा: ॥१३॥
नित्यशो हि स्मरामि त्वां प्रतिक्षेsपि च नैषध ।
देवनेन मम प्रीतिर्न भवत्यसुह्रद्नणै: ॥१४॥
जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् ।
कृतकृत्यो भविष्यामि सा हि मे नित्यशो ह्रदि ॥१५॥
श्रुत्वा तु तस्य ता वाचो बह्रबध्दप्रलापिन: ।
इयेष स शिरश्छेत्तुं खग्डेन कुपितो नल: ॥१६॥
स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नल: ।
पणाव: किं व्यायरसे जितो न व्याहरिष्यसि ॥१७॥
तत: प्रावर्तत द्यूतं पुष्करस्य नलस्य च ।
एकपाणेन वीरेण नलेन स पराजित: ॥१८॥
जित्वा तु पुष्करं राजा प्रहसन्निदमब्रवीत् ।
मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् ॥१९॥
वैदर्भी न त्वया शक्या राजासपद वीक्षितुम ।
तस्यास्त्वं सपरीवारो मूढ दासत्वमागत: ॥२०॥
न त्वया तत्कृतं कर्म येनाहं विजित: पुरा ।
कलिना तत्कृतं कर्म त्वं च मूढ न बुध्यसे ॥२१॥
नाहं परकृतं दोषं त्वय्याधास्ये कथंचन ।
यथासुखं वै जीव त्वं प्राणानवसृजामि ते ॥२२॥
तथैव सर्व संभारं स्वमंशं वितरामि ते ।
तथैव च मम प्रीतिस्त्वयि वीर न संशय: ॥२३॥
सौहार्द चापि मे त्वत्तो न कदाचित्प्रहास्यति ।
पुष्कर त्वं हि मे भ्राता संजीव शरद: शतम् ॥२४॥
एवं नल: सान्त्वयित्वा भ्रातरं सत्यविक्रम: ।
स्वपुरं प्रेषयामास परिष्वज्य पुन: पुन: ॥२५॥
सन्त्वितो नैषधेनैवं पुष्कर: प्रत्युवाच ह ।
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलि: ॥२६॥
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी ।
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ॥२७॥
स तथा सत्कृतो राज्ञा मासमुष्य ततो नृप: ।
प्रययौ स्वपुरं ह्रष्ट: पुष्कर: स्वजनान्वित: ॥२८॥
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् ।
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् ॥२९॥
पौरजानपदाश्चापि संप्रह्रष्टतनूरुहा: ।
ऊचु: प्राञ्जलय: सर्वे समात्यप्रमुखा जना: ॥३०॥
अद्य स्म निर्वृता राजन्पुरे जनपदेsपि च ।
उपासितुं पुन: प्राप्ता देवा इव शतक्रतुम् ॥३१॥
प्रशान्ते तु पुरे ह्रष्टे संप्रवृत्ते महोत्सवे ।
महत्या सेनया राजा दमयन्तीमुपानयत् ॥३२॥
दमयन्तीमपि पिता सत्कृत्य परवीरहा ।
प्रास्थापयदमेयात्मा भीमो भीमपराक्रम: ॥३३॥
आगतायां तु वैदर्भ्या सपुत्रायां नलो नृप: ।
वर्तयामास मुदितो देवराडिव नन्दने ॥३४॥
तत: प्रकाशतां यातो जम्बुध्दीपे स राजसु ।
पुन: शशास तद्राज्यं प्रत्याह्रत्य महायशा: ॥३५॥
॥ इति नलोपाख्यानं समाप्तम् ॥
समाप्त
N/A
References : N/A
Last Updated : November 11, 2016
TOP