नलोपाख्यानम् - चतुर्थोऽध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


बृहदश्व उवाच ।
सा नमस्कृत्य देवेभ्य: प्रहस्य नलमब्रवीत ।
अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन ।
तत्सर्वैं तव विश्रब्धं कुरु प्रणयमीश्वर ॥१॥
हंसानां वचनं यत्त तन्मां दहति पार्थिव ।
त्वत्कृते हि मया वीर राजान: संनिपातिता: ॥२॥
यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद ।
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥३॥
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह ।
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥४॥
येषामहं लोककृतामीश्वराणां महात्मनाम् ।
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥५॥
विप्रियं ह्याचरन्मत्या देवानां मृत्युमृच्छति ।
त्राहि मामनवद्याङ्गिं वरयस्व सुरोत्तमान् ॥६॥
विरजांसि च वासांसि दिव्याश्चित्रा: स्त्रजस्तथा ।
भूषणानि च मुख्यानि देवान्प्राप्य तु भुङक्षस्व वै ॥७॥
य इमां पृथिवीं कृस्तानां संक्षिप्य ग्रसते पुन: ।
हुताशमीशं देवानां का तं न वरयेत्पतिम ॥८॥
यस्य दण्डभयास्तर्वे भूतग्रामा: समगता: ।
धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम् ॥९॥
धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् ।
महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम् ॥१०॥
क्रियतामविशङ्केन मनसा यदि मन्यसे ।
वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु ॥११॥
नैषधेनैवमुक्ता सा दमयन्ती वचोऽव्रवीत् ।
समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा ॥१२॥
देवेभ्योऽहं नमस्कृत्य सर्वेभ्य: पृथिवीपते ।
वृणे त्वामेव भर्तारं सत्यमेतद्बवीमि ते ॥१३॥
तामुवाच ततो राजा वेपमानां कृताञ्जलिम् ।
दौत्येनागत्य कल्याणि कथं स्वार्थमिहोत्हे ॥१४॥
कथं ह्यहं पतिश्रुत्व देवतानां विशेषत: ।
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे ॥१५॥
एष धर्मो यदि स्वार्थो ममापि भविता: तत: ।
एवं स्वार्थ करिष्यामि तथा भद्रे विधीयताम् ॥१६॥
ततो बाष्पाकुलां वाचं दयमन्ती शुचिस्मिता ।
प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत ॥१७॥
उपायो‍ऽयं मया दृष्टो निरपायो नरेश्वर ।
येन दोषो न भविता तव राजन्कमंथन ॥१८॥
त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमा: ।
आयान्तु सहिता: सर्वे मम यत्र स्वयंवर ॥१९॥
ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर ।
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥२०॥
एवमुक्तस्तु वैदर्भ्या नलो राजा विशांपते ।
आजगाम पुनस्तत्र यत्र देवा: समागता: ॥२१॥
तमपश्यंस्तथायान्तं लोकपाला महेश्वरा: ।
दृष्टा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तम् ॥२२॥
कच्चिददृष्टा त्वया राजन्दमयन्ती शुचिस्मिता ।
किमब्रवीच्च न: सर्वान्वद भूमिपतेऽनघ ॥२३॥

नल उवाच

भवद्भिरहमादिष्टो दमतन्त्या निवेशनम् ।
प्रविष्ट: सुमहाकक्षं दण्डिभि: स्थविरैर्वृतम् ॥२४॥
प्रविहन्तं च मां तत्र न कश्चिददृष्टवान्नर: ।
ऋते तां पार्थिवसुतां भवतामेव तेजसा ॥२५॥
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षित: ।
विस्मिताश्चाभवन्सर्वा दृष्टा मां विबुधेश्वरा: ॥२६॥
वर्ण्यमनेषु च मया भवत्सु रुचिरानना ।
मामेव गतसंकल्पा वृणीते सा सुरोत्तमा: ॥२७॥
अब्रवीच्चैव मां बाला आयान्तु सहिता: सुरा: ।
त्वया सह नरव्याघ्र मम यत्र स्वयंवर ॥२८॥
तेषामहं संनिधौ त्वां वरयिष्यामि नैषध ।
एवं तव महाबाहो दोषो न भवितेति ह ॥२९॥
एतावदेव विबुधा यथावृत्तमुदाह्रतम् ।
मया शेषे प्रमाणं तु भवन्तस्त्रिद्शेश्वरा: ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP