नलोपाख्यानम् - नवमोsध्याय:
` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.
बृहदश्व उवाच ।
ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यत: ।
पुष्करेण ह्रतं राज्यं यच्चान्यद्वसु किंचन ॥१॥
ह्रतराज्यं नलं राजन्प्रहसन्पुष्करोsब्रवीत ।
द्युतं प्रवर्ततां भूय: प्रतिपाणोsस्ति कस्तव ॥२॥
शिष्टा ते दमयन्त्येका सर्वमन्यज्जितं मया ।
दमयन्त्या: पण: साधु वर्ततां यदि मन्यसे ॥३॥
पुष्करेणौवमुक्तस्य पुण्यश्लोकस्य मन्युना ।
व्यदीर्यतेव ह्रदयं न चैनं किंचिदब्रवीत् ॥४॥
तत: पुष्करमालोक्य नल: परममन्युमान् ।
उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशा: ॥५॥
एकवासा ह्यसंवीत: सुह्रच्छोकविवर्धन: ।
निश्चक्राम ततो राजा त्यक्त्वा सुविपुलां श्रियम् ॥६॥
दमयन्त्येवस्त्राथ गच्छन्तं पृष्ठतोsन्वगात् ।
स तया बाह्यत: सार्ध त्रिरात्रं नैषधोsवसत् ॥७॥
पुष्करस्तु महाराज घोषयामास वै पुरे ।
नले य: सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ॥८॥
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च ।
पौरा न तस्य सत्कारं कृतवन्तो युधिष्ठिर ॥९॥
स तथा नगराभ्यासे सत्कारार्हो न सत्कृत: ।
त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् ॥१०॥
पीड्यमान: क्षुधा तत्र फलमूलानि कर्षयन् ।
प्रातिष्ठत ततो राजा दमयन्ती तमन्वगात् ॥११॥
क्षुधया पीड्यमानस्तु नलो बहुतिथेsहनि ।
अपश्यच्छकुनान्कांश्चिध्दिरण्यसदृशच्छदान् ॥१२॥
स चिन्तयामास तदा निषधाधिपतिर्बली ।
अस्ति भक्ष्यो ममाद्यायं वसु चेदं भविष्यति ॥१३॥
ततस्तान्परिधानेन वाससा स समावृणोत् ।
तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहायसा ॥१४॥
उत्पतन्त: खगा वाक्यमेतदाहुस्ततो नलम् ।
दृष्टा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ॥१५॥
वयमक्षा: सुदुर्बुध्दे तव वासो जिहीर्षव: ।
आगता न हि न: प्रीति: सवाससि गते त्वयि ॥१६॥
तान्समीक्ष्य गतानक्षानात्मानं च विवाससम ।
पुण्यश्लोकस्तदा राजन्दमयन्तीमथाब्रवीत् ॥१७॥
येषां प्रकोपादैश्वर्यात्प्रच्युतोsहमनिन्दिते ।
प्राणायात्रां न विन्दे च दु:खित: क्षुधयान्वित: ॥१८॥
येषां कृते न सत्कारमकुर्वन्मयि नैषधा: ।
त इमे शकुना भूत्वा वासोsप्यपहरन्ति मे ॥१९॥
वैषम्यं परमं प्राप्तो दु:खितो गतचेतन: ।
भर्ता तेsहं निबोधेदं वचनं हितमात्मन: ॥२०॥
एते गच्छन्ति बहव: पन्थानो दक्षिणापथम् ।
अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ॥२१॥
एष विन्ध्यो महाशैल: पयोष्णी च समुद्रगा ।
आश्रमाश्च महर्षीणां बहुमूलफलान्विता: ॥२२॥
एष पन्था विदर्भाणामसौ गच्छति कोशलान् ।
अत: परं च देशोsयं दक्षिणे दक्षिणापथ: ॥२३॥
एतद्वाक्यं नलो राजा दमयन्तीं समाहित: ।
उवाचासकृदार्तो हि भैमीमुद्दिश्य भारत ॥२४॥
तत: सा बाष्पकलया वाचा दु:खेन कर्षिता ।
उवाच दमयन्ती तं नैषधं करुणं वच: ॥२५॥
उद्वेजते मे ह्रदयं सीदन्त्यङगानि सर्वश: ।
तव पार्थिवं संकल्पं चिन्तयन्त्या: पुन: पुन: ॥२६॥
ह्रतराज्यं ह्रतद्रव्यं विवस्त्रं क्षुत्तृषान्वितम् ।
कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने ॥२७॥
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् ।
वने घोरे महाराज नाशयिष्याम्यहं क्लमम् ॥२८॥
न च भार्यासमं किंचिद्विद्यते भिषजां मतम् ।
औषधं सर्वदु:खेषु सत्यमेतद्रवीमि ते ॥२९॥
नल उवाच ।
एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे ।
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥३०॥
न चाहं त्यक्तुकामस्त्वां किमर्थ भीरु शक्ङसे ।
त्यजेयम्हमात्मानं न चैवं त्वामनिन्दिते ॥३१॥
दमयन्त्युवाच ।
यदि मां त्वं महाराज न विहातुमिहेच्छसि ।
तत्किमर्थ विदर्भाणां पत्था: समुपदिश्यते ॥३२॥
अवैमि चाहं नृपते न तु मां त्यक्तुमर्हसि ।
चेतसा त्वपकृष्टेन मां त्यजेथा महीपते ॥३३॥
पत्थानं हि ममाभीक्ष्णमाख्यासि च नरोत्तम ।
अतो निमित्तं शोकं मे वर्धयस्यमरोपम् ॥३४॥
यदि चायमभिप्रायस्तव ज्ञातीन्व्रजेदिति ।
सहितावेव गच्छावो विदर्भन्यदि मन्यसे ॥३५॥
विदर्भराजस्तत्र त्वां पूजयिष्यति मानद ।
तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ॥३६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP