नलोपाख्यानम् - विंशतितमोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


बृहदश्व उवाच ।

तथा प्रयाते तु रथे तदा भाग्ङासुरिर्नृप: ।
उत्तरीयमधोsपश्यद्भष्टं परपुरंजय: ॥१॥
तत: स त्वरमाणस्तु पटे निपतिते तदा ।
ग्रहीष्यमीति तं राजा नलमाह महामना: ॥२॥
निगृह्नीष्व महाबुध्दे हयानेतान्महाजवान् ।
वार्ष्णेयो यावदेनं मे पटमानयतामिह ॥३॥
नलस्तं प्रत्युवाचाथ दूरे भ्रष्ट: पटस्तव ।
योजनं समतिक्रान्तो नाहर्तु शक्यते पुन: ॥४॥
एवमुक्तो नलेनाथ तदा भाग्ङासुरिर्नृप: ।
आससाद वने राजन्फलवन्तं विभीतकम् ॥५॥
तं दृष्टा बाहुकं राजा त्वरमाणोsभ्यभाषत ।
ममापि सूत पश्य त्वं संख्याने परमं बलम् ॥६॥
सर्व: सर्व न जानाति सर्वज्ञो नास्ति कश्चन ।
नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ॥७॥
वृक्षेsस्मिन्यानि पर्णानि फलान्यपि च बाहुक ।
पतितानि च यान्यत्र तत्रैकमधिकं शतम् ॥८॥
ततो रथमवस्थाप्य राजानं बाहुकोsब्रवीत् ।
परोक्षमिव मे राजन्कत्थसे शत्रुकर्षण ॥९॥
प्रत्यक्षं ते महाराज शातयिष्ये विभीतकम् ।
अहं हि नाभिजानामि भवेदेवं न वेति च ॥१०॥
संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप ।
मुहूर्तमपि वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ॥११॥
तमब्रवीन्नृप: सूतं नायं कालो विलम्बितुम ।
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थित: ॥१२॥
प्रतीक्षस्व मूहुर्त त्वमथ वा त्वरते भवान् ।
एष याति शिव: पन्था याहि वार्ष्णेयसारथि: ॥१३॥
अब्रवीदृतुपर्णस्तु सान्त्वयन्कुरुनन्दन ।
त्वमिव यन्ता नान्योsस्ति पृथिव्यामपि बाहुक ॥१४॥
त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद ।
शरणं त्वां प्रपन्नोsस्मि न विघ्नं कर्तुमर्हसि ॥१५॥
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक ।
विदर्भान्यदि यात्वाद्य सूर्य दर्शयितासि मे ॥१६॥
अथाब्रवीद बाहुकस्तं संख्याय च विभीतकम् ।
ततो विदर्भान्यास्यामि कुरुष्वैवं वचो मम ॥१७॥
अकाम इव तं राजा गणयस्वेत्युवाच ह ।
सोsवतीर्य रथात्तूर्ण शातयामास तं द्रुमम् ॥१८॥
तत: स विस्मयविष्टो राजानमिदब्रवीत् ।
गणयित्वा यथोक्तानि तावन्त्येव फलानि च ॥१९॥
अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् ।
श्रोतुमि़च्छामि तां विद्यां ययैतज्ज्ञायते नृप ॥२०॥
तमुवाच ततो राजा त्वरितो गमने नृप: ।
विध्द्यक्षह्रदयज्ञं मां संख्याने च विशारदम् ॥२१॥
बाहुकस्तमुवाचाथ देहि विद्यामिमां मम ।
मत्तोsपि चाश्वह्रदयं गृहाण पुरुषर्षभ ॥२२॥
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् ।
हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वच: ॥२३॥
यथोक्तं त्वं गृहाणेदमक्षाणां ह्रदयं परम् ।
निक्षेपो मेsश्वह्रदयं त्वयि तिष्ठति बाहुक ॥२४॥
तस्याक्षह्रदयज्ञस्य शरीरान्नि:सृत: कलि: ।
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् ॥२५॥
ततो विषविमुक्तात्मा स्वं रुपमकरोत्कलि: ।
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नल: ॥२६॥
तमुवाच कलिर्भीतो वेपमान: कृताञ्जलि: ।
कोपं संयच्छ नृपते कीर्ति दास्यामि ते पराम् ॥२७॥
इन्द्रसेनस्य जननी कुपिता माशापत्पुरा ।
यदा त्वया परित्यक्ता ततोsहं भृशपीडित: ॥२८॥
अवसं त्वयि राजेन्द्र सुदु:खमपराजित ।
विषेण नागराजस्य दह्यमानो दिवानिशम् ॥२९॥
शरणं त्वां प्रपन्नोsस्मि शृणु चेदं वचो मम ।
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिता: ॥३०॥
मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति ।
भयार्त शरणं यांत यदि मां त्वं न शप्स्यसे ॥३१॥
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मन: ।
ततो भीत: कलि: क्षिप्रं प्रविवेश विभीतकम् ।
कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै ॥३२॥
ततो गतज्वरो राजा नैषध: परवीरहा ।
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयै: ॥३३॥
हयोतमानुत्पततो द्विजानिव पुन: पुन: ।
नल: संनोदयामास प्रह्रष्टेनान्तरात्मना ॥३४॥
विदर्भाभिमुखो राजा प्रययौ स महायशा: ।
नले तु समतिक्रान्ते कलिरप्यगमदगृहम् ॥३५॥
ततो गतज्वरो राजा नलोsभूत्पृथिवीपति: ।
विमुक्त: कलिना राजन्रुपमात्रवियोजित: ॥३६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP