नलोपाख्यानम् - दशमोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


नल उवाच ।

यथा राज्यं तव पितुस्तथा मम न संशय: ।
न तु तत्र गमिष्यामि विषमस्थ: कथंचन ॥१॥
कथं समृध्दो गत्वाहं तव हर्षविवर्धन: ।
परिच्युतो गमिष्यामि तव शोकविवर्धन: ॥२॥

बृहदश्व उवाच ।

इति ब्रुवन्नलो राजा दमयन्तीं पुन: पुन: ।
सान्तयामास कल्याणीं वाससोsर्धेनं संवृताम् ॥३॥
तावेकवस्त्रसंवीतावटमानावितस्तत: ।
क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतु: ॥४॥
तां सभामुपसंप्राप्य तदा स निषधाधिप: ।
वैदर्भ्या सहितां राजा निषसाद महीतले ॥५॥
स वै विवस्तौ विकटो मलिन: पांशुगुण्ठित: ।
दमयन्त्या सह श्रान्त: सुष्वाप धरणीतले ॥६॥
दमयन्त्यपि कल्याणी निद्रयापह्रता तत: ।
सहसा दु:खमासाद्य सुकुमारी तपस्विनी ॥७॥
सुप्तायां दमयन्त्यां तु नलो राजा विशांपते ।
शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा ॥८॥
स तद्राज्यापहरणं सुह्रत्त्यागं च सर्वश: ।
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान ॥९॥
किं नु मे स्यदिदं कृत्वा किं नु मे स्यादकुर्वत: ।
किं नु मे मरणं श्रेय: परित्यागो जनस्य वा ॥१०॥
ममियं ह्यनुरक्तैव दु:खमाप्नोति मत्कृते ।
मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ॥११॥
मयि नि:संशयं दु:खमियं प्राप्स्यत्यनुव्रता ।
उत्सर्गे संशय: स्यात्तु विन्देतापि सुखं क्वचित् ॥१२॥
स विनिश्चत्य बहुधा विचार्य च पुन: पुन: ।
उत्सर्ग मन्यते श्रेयो दमयन्त्या नराधिप: ॥१३॥
न चैषा तेजसा शक्या कैश्चिध्दर्षयितुं पथि ।
यशस्विनी महाभागा मद्भक्तेयं पतिव्रता ॥१४॥
एवं तस्य तदा बुध्दिर्दमयन्त्यां न्यवर्तत ।
कलिना दुष्टभावेन दमयन्त्या विसर्जने ॥१५॥
सोsवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् ।
चिन्तायित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ॥१६॥
कथं वासो विकर्तेयं न च बुध्येत मे प्रिया ।
विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा ॥१७॥
परिधावन्नथ नल इतश्चेतश्च भारत ।
आससाद सभोद्देशे विकोषं खग्ङमुत्तमम् ॥१८॥
तेनार्ध वाससश्छित्वा निवस्य च परंतप: ।
सुप्तामुत्सृज्य वैदर्भी प्राद्रवद्नतचेतन: ॥१९॥
ततो निवृत्तह्रदय: पुनरागम्य तां सभाम् ।
दमयन्तीं तदा दृष्टा रुरोद निषधाधिप: ॥२०॥
यां न वायुर्न चादित्य: पुरा पश्यति मे प्रियाम् ।
सेममद्य सभामध्ये शेते भूमावनाथवत ॥२१॥
इयं वस्त्रावकर्तेनं संवीता चारुहासिनी ।
उन्मत्तेव वरारोहा कथं बुदध्वा भविष्यति ॥२२॥
कथमेका सती भैमी मया विरह्रिता शुभा ।
चरिष्यति वने घोरे मृगव्यालनिषेविते ॥२३॥
आदित्या वसतो रुद्रा अश्विनौ समरुद्नणौ ।
रक्षन्तु त्वां महाभागे धर्मेणासि समावृता ॥२४॥
एवमुक्त्वा प्रियां भार्या रुपेणाप्रतिमां भुवि ।
कलिनापह्रतज्ञानो नल: प्रतिष्ठदुद्यत: ॥२५॥
गत्वा गत्वा नलो राजा पुनरेति सभां मुहु: ।
आकृष्यमाण: कलिना सौह्र्देनावकृष्यते ॥२६॥
व्दिधेव ह्रदयं तस्य दु:खितस्याभवत्तदा ।
दोलेव मुहुरायति याति चैव सभां प्रति ॥२७॥
अवकृष्टस्तु कलिना मोहित: प्राद्रवन्नल: ।
सुप्तामुत्सृज्य तां भार्या विलप्य करुणं बहु ॥२८॥
नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणन्नृप: ।
जगामैकां वने शून्ये भार्यामुत्सृज्य दु:खित: ॥२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP