नलोपाख्यानम् - तृतीयोऽध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


बृहदश्व उवाच ।
तेभ्य: पतिज्ञाय नल: करिष्य इति भारत।
अथैतान्परिपप्रच्छ कृताञ्जलिरूपस्थित: ॥१॥
के वै भवन्त: कश्चासौ यस्माहं दूत ईप्सित: ।
किं च तद्वो मया कार्य कथयध्वं यथातथम् ॥२॥
एवमुक्ते नैषधेन मघवानभ्यभाषत ।
अमरावै निबोधास्मान्दमयन्त्यर्थमागताम् ॥३॥
अहमिन्द्रोऽयमग्निश्च तथैवायमपांपति: ।
शरीरन्तकरो नृणां यमोऽयमपि पाथिव ॥४॥
त्वं वै समागतानस्मान्दमयन्यैनिवेदय ।
लोकपाला महेन्द्राद्या: समायान्ति दिदृक्षव: ॥५॥
प्राप्तुमिच्छान्ति देवास्त्वां शक्रोऽग्निर्वरुणो यम: ।
तेषामन्यतमं देवं पतित्वे वरयस्य ह ॥६॥
एवमुक्त: स शकेण नल: प्राञ्जलिरब्रवीत ।
एकार्थं समुपेतं मां न प्रेषयितुमर्हथ ॥७॥
कथं नु जातसंकल्प: स्त्रियमुत्सहते पुमान् ।
परार्थमीदृशं वक्तुं तत्क्षमन्तु महेश्वरा: ॥८॥
एवमुक्तो नैषधन मघवान्पुनरब्रवीत् ।
करिष्य इति संश्रुत्व पूर्वमस्मासु नैषध ।
न करिष्यसि कस्मात्वं व्रज नैषध मा चिरम् ॥९॥

बृहदश्व उवाच ।
एवमुक्त: स दैवैस्तैर्नैषध: पुनरब्रवीत् ।
सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ॥१०॥
प्रवेक्ष्यसीति तं शक्र: पुनरेवाभ्यभाषत ।
जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ॥११॥
ददर्श तत्र वैदभीं सखीगणसमावृताम् ।
देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ॥१२॥
अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् ।
आक्षिपन्तीमिव प्रभां शशिन: स्वेन तेजसा ॥१३॥
तस्य दृष्टैव ववृधे कामस्तां चारुहासिनीम ।
सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् ॥१४॥
ततस्ता नैषधं दृष्टा संभ्रान्ता: परमाङगना: ।
आसनेभ्य: समुत्पस्तेजसा तस्य धर्षिता: ॥१५॥
प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विता: ।
न चैनमभ्यभाषन्त मनोभिस्त्वभ्यपूजयन् ॥१६॥
अहो रूपमहो कान्तिरहौ धैर्य महात्मन: ।
कोऽयं देवोऽथवा यक्षो गन्धर्वो वा भविष्यति ॥१७॥
त तास्तं शक्नुवन्ति स्म व्याहर्तुमपि किंचन ।
तेजसा धर्षितास्तस्य लज्जावत्यो वराङगना ॥१८॥
अथैनं स्मयमानं त स्मितपूर्वाभिभाषिणी ।
दमयन्ती नलं वीरमभ्यभाषेत विस्मिता ॥१९॥
कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन ।
प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ॥२०॥
कथमागमनं चेह कथं चासि न लक्षित: ।
सुरक्षितं हि मे वेश्म राजा चैवोग्रशासन: ॥२१॥
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह ।
नलं मां विध्दि कल्याणि देवदूतमिहागतम ॥२२॥
देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यम: ।
तेषामन्यतमं देवं पतिं वरय शोभेन ॥२३॥
तेषामेव प्रभावेण प्रविष्टोऽहमलक्षित: ।
प्रविशन्तं न मां कश्चिदपश्यन्नाप्यवारयत् ॥२४॥
एतदर्थमहं भद्रे प्रेषित: सुरसत्तमै: ।
एतच्छृत्वा शुभे बुध्दिं प्रकरुष्व यथेच्छसि ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP