नलोपाख्यानम् - षोडशोsध्याय:
` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.
बृहदश्व उवाच ।
ह्रतराज्ये नले भीम: सभार्ये प्रेष्यतां गते ।
द्विजान्प्रस्थापयामास नलदर्शनकाङक्षया ॥१॥
संदिदेश च तान्भीमो वसु द्त्त्वा च पुष्कलम् ।
मृगयध्वं नलं यूयं दयमन्तीं च मे सुताम ॥२॥
गवां सहस्त्रं दास्यामि यो वस्तावानयिष्यति ।
अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम् ॥३॥
न चेच्छक्याविहानेतुं दमयन्तीं नलोsपि वा ।
ज्ञातमात्रेsपि दास्यामि गवां दश शतं धनम् ॥४॥
इत्युक्तास्ते ययुर्ह्रष्टा ब्राह्मणा: सर्वतोदिशम् ।
नैव क्वापि प्रपशन्ति नलं वा भीमपुत्रिकाम् ॥५॥
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विज: ।
विचिन्वानोsथ वैदर्भीमपश्यद्राजवेश्मनि ॥६॥
पुण्याहवाचने राज्ञ: सुनन्दासहितां स्थिताम् ।
मन्दं प्रख्यायमानेन रुपेणाप्रतिमेन ताम् ॥७॥
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ।
तर्कयामास भैमीति कारणैरुपपादयन् ॥८॥
सुदेव उवाच ।
यथेयं मे पुरा दृष्टा तथारुपेयमग्ङना ।
कृतार्थोsस्म्यद्य दृष्टेमां लोककान्तामिव श्रियम् ॥९॥
पूर्णचन्द्रनिभां श्यामां चारुवृत्तपयोधराम् ।
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिश: ॥१०॥
चारुपद्मविशालाक्षीं मन्मथस्त रतीमिव ।
इष्टां समस्तलोकस्य पूर्णचन्द्रप्रभामिव ॥११॥
पौर्णमासीमिव निशां राहुग्रस्तनिशाकाराम् ।
पतिशोकाकुलां दीनां शुष्कस्त्रोतां नदीमिव ॥१२॥
विध्वस्तपर्णकमलां वित्रासितविहंगमाम् ।
हस्तिहस्तपरामृष्टां व्याकुलामिव पद्मिनीम् ॥१३॥
रुपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् ।
चन्द्रलेखामिव नवां व्योम्नि नीलांभ्रसंवृताम् ॥१४॥
कामभौगै: प्रियैर्हिनां हीनां बन्धुजनेन च ।
देहं धारयती दीनं भर्तृदर्शनकाग्ङया ॥१५॥
भर्ता नाम परं नार्या भूषणं भूषणैर्विना ।
एषा हि रहिता तेन शोभमाना न शोभते ॥१६॥
दुष्करं कुरुतेsत्यन्तं हीनो यदनया नल: ।
धारयत्यान्मनो देहं न शोकेनावसीदति ॥१७॥
इमामसितकेशान्तां शतपत्रायतेक्षणाम् ।
सुखर्हा दु:खितां दृष्टा ममापि व्यथते मन: ॥१८॥
कदा नु खलु दु:खस्य पारं यास्यति वै शुभा ।
भर्तृ: समागमात्साध्वी रोहिणी शशिनो यथा ॥१९॥
अस्या नूनं पुनर्लाभान्नैषध: प्रीतिमेष्यति ।
राजा राज्यपरिभ्रष्ट: पुनर्लब्ध्वा च मेदिनीम् ॥२०॥
तुल्यशीलवयोयुक्तां तुल्यभिजनसंवृताम् ।
नैषधोsर्हति वैदर्भीं तं चेयमसितेक्षणा ॥२१॥
युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया ।
समाश्वासयितुं भार्या पतिदर्शनलालसाम् ॥२२॥
अहमाश्वासमाम्येनां पूर्णचन्द्रनिभाननाम् ।
अदृष्टपूर्वा दु:खस्य दु:खर्ता ध्यानतत्पराम् ॥२३॥
बृहदश्व उवाच ।
एवं विमृश्य विविधै: कारणैर्लक्षणैश्च ताम् ।
उपागम्य ततो भैमीं सुदेवो ब्राह्मणोsब्रवीत् ॥२४॥
अहं सुदेवो वैदर्भि भ्रातुस्ते दयित: सखा ।
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागत: ॥२५॥
कुशली ते पिता राज्ञि जननी भ्रातरश्च ते ।
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च तौ ॥२६॥
त्वत्कृतो बन्धुवर्गाश्च गतसत्त्वा इवासते ।
अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम् ॥२७॥
अभिज्ञाय़ सुदेवं तं दमयन्ती युधिष्ठिर ।
पर्यपृच्छत तान्सर्वान्क्रमेण सुह्रद: स्वकान् ॥२८॥
रुरोद च भृशं राजन्वैदर्भी शोककर्षिता ।
दृष्टा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ॥२९॥
ततो रुदन्तीं तां दृष्टा सुनन्दा शोककर्षिताम् ।
सुदेवेन सहैकान्ते कथयन्तीं च भारत ॥३०॥
जनित्र्या: कथयामास सैरन्ध्री रुदते भृशम् ।
ब्राह्मणेन सहागम्य तां वेद यदि मन्यसे ॥३१॥
अथ चेदिपतेर्माता राज्ञश्चान्त:पुरात्तदा ।
जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् ॥३२॥
तत: सुदेवमानाय्य राजमाता विशांपते ।
पप्रच्छ भायां कस्येयं सुता वा कस्य भाविनी ॥३३॥
कथ च भ्रष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना ।
त्वया च विदिता विप्र कथमेवंगता सती ॥३४॥
एतादि़च्छाम्यहं श्रोतुं त्वत्त: सर्वमशेषत: ।
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरुपिणीम् ॥३५॥
एवमुक्तस्तया राजन्सुदेवो द्विजसत्तम: ।
सुखोपविष्ट आचष्टे दमयन्त्या यथातथम् ॥३६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP