संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
नवमः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - नवमः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीशिव उवाच ।
अथासनानि वक्ष्यामि सर्वकार्यार्थसिद्धये ।
मृद्वासनं समारूढं कोमलं चूडकं तथा ॥१॥
योनित्वग्विष्टरमप्यस्थिभूम्यासनं तथा ।
कूचासनं तथा देवि तथैव सुरतासनम् ॥२॥
मुण्डासनं तथा देवि पञ्चमुण्डासनं तथा ।
त्रिमुण्डमेकमुण्डं वा आसनार्थं प्रकीर्तितम् ॥३॥
चिताsपि आसने शस्ता श्मशानं सर्वथोत्तमम् ।
चूडकं च तथा प्रोक्तं तथैव च शवासनम् ॥४॥
मृतासनं तथा प्रोक्तं महाशवमथासनम् ।
वीरासनं महेशानि महावीरासनं तथा ॥५॥
योनिपुष्पासनं देवि कीर्तितान्यासनानि च ।
तत्रादौ सम्प्रवक्ष्यामि मुण्डानां लक्षणं शुभम् ॥६॥
यस्य साधनमात्रेण साक्षाच्छिवमयो भवेत् ।
ब्रह्मक्षत्रियविट्शूद्राश्चतुर्धा चास्थि जातयः ॥७॥
श्वेता रक्ता तथा पीता कृष्णा वैडूर्यका मता ।
इत्येतन्मुण्डरहस्ये प्रोक्त देवि महेश्वरि ॥८॥
सद्यःकृतं त्रिरात्रस्थं सप्तरात्रस्थगं तथा ।
त्रिसप्तरात्रमध्यस्थमुत्तमादिक्रमाच्छ्रुणु ॥९॥
उत्तमं मध्यमं चैव ह्यधमं ह्यधमाधमम् ।
सद्यःकृतं तु यन्मुण्डमुत्तमं परिकीर्तितम् ॥१०॥
त्रिरात्रमध्यगं मुण्डं मध्यगं परिकीर्तितम् ।
षड्रात्रोत्तरगं मुण्डमधमं परिकीर्तितम् ॥११॥
त्रिसप्तरात्रमध्यस्थं कीर्तितं ह्यधमाधमम् ।
सद्यःकृतं तु युन्मुण्डं सर्वकार्ये प्रकीर्तितम् ॥१२॥
त्रिरात्रमध्यगं मुण्डं मालायन्त्रे प्रकीर्तितम् ।
षड्रात्रोत्तरगं मुण्डं पात्रकार्ये विनिर्दिशेत् ॥१३॥
त्रिसप्तरात्रमध्यस्थं मालायन्त्रादिके मतम् ।
षण्मासमध्यगं मुण्डं सामान्यं तदुदीरितम् ॥१४॥
श्रीदेव्युवाच ।
कालिकापरिशिष्टे तु ह्यन्यथा परिकीर्तितम् ।
त्रिरात्रमध्यगं मुण्डं मालार्थं परिकीर्तितम् ॥१५॥
षड्रात्रोत्तरगं मुण्डं सामान्यं तदुदीरितम् ।
सद्यःकृतं तु यन्मुण्डं सामान्यं तदुदीरितम् ॥१६॥
श्रीशिव उवाच ।
सद्यःकृतं यन्मुण्डं मालायन्ते प्रशस्यते ।
पात्रार्थसाधने शस्तं ह्यभावात् सप्तरात्रिकम् ॥१७॥
सद्यःकृतं तु यन्मुण्डं साधनार्थं प्रकीर्तितम् ।
उत्तमं मुण्डमादाय हस्तमात्रं खनेद्बुधः ॥१८॥
कुलवृक्षस्य मूले वा स्मशाने वा चतुष्पथे ।
निर्जने शून्यगेहे वा तस्योपरि जपं चरेत् ॥१९॥
बलिं दत्त्वा प्रयत्नेन दिक्पालेभ्यो विशेषतः ।
दिग्बन्धभूतशुद्धयादीन् कृत्वा वै जपमाचरेत् ॥२०॥
यावत्संख्यं मनुं जप्त्वा तद्दशांशेन होमयेत् ।
सिद्धमुण्डं पुरा कृत्वा मालादीन्कारयेत्प्रिये ॥२१॥
स्वेच्छामृतं द्विवर्षं च वृद्धं स्त्रियं द्विजं तथा ।
अन्नाभावे मृतं कुष्ठं सप्तरात्रोर्ध्वगं तथा ॥२२॥
एवं चाष्टशवं त्यक्त्वा वीरसाधनमाचरेत् ।
वीरासनमिदं प्रोक्तं कालिकाप्रीतिकारकम् ॥२३॥
सप्तरात्रोत्तरं प्राप्तं चान्तरिक्षे स्थितं शवम् ।
शूले निपातितं वाsपि पात्रार्थे शस्यते प्रिये ॥२४॥
अन्तरिक्षे स्थितं देवि षण्मासोत्तरगं तथा ।
मालिकायां प्रशस्तं च त्वधःस्थं सप्तरात्रजम् ॥२५॥
शनिभौमदिने वापि शरीरं मृतसंभवे ।
चतुर्दश्यां पौर्णमास्याममायां दीपकोत्सवे ॥२६॥
संक्रान्त्यां चाष्टमीयुक्ते तथा दुर्गोत्सवे प्रिये ।
एवं वीरदिने देवि तथा वीररणागमे ॥२७॥
जाते मुण्डं शुभं शस्तमथ शूलादिके स्थितम् ।
खङ्गेन हननं कृत्वा गृहीत्वा जपमाचरेत् ॥२८॥
सहस्रमणिभिर्माला धार्या सर्वाङ्गके प्रिये ।
रुद्राक्षबद्धारणं स्यात् कालीमन्त्रेण शुध्यति ॥२९॥
माला तु त्रिविधा प्रोक्ता उत्तमा मध्यमाsधवा ।
दन्तक्षमालया चैव राजदन्तेन मेरुणा ॥३०॥
उत्तमा मालिका प्रोक्ता कालिकाकर्षिणी परा ।
कर्णनेत्रान्तरस्थो यो महाशेङ्खेति कीर्तितः ॥३१॥
महाशङ्खमयी माला पञ्चाशन्मणिनिर्मिता ।
मध्यमा मालिका प्रोक्ता ताराजापे प्रकीर्तिता ॥३२॥
अस्थिभिर्वा नृमुण्डैर्वा किञ्च वा नृललाटजाम् ।
देहे देहान्तरस्था वा माला प्रोक्ता कनिष्ठिका ॥३३॥
छिन्नादेव्या विधौ देत्रि एवं हि त्रिविधा मता ।
सम्मुखौ यौ उभौ दन्तौ राजदन्तौ प्रकीर्तितौ ॥३४॥
करालास्यमहाकाल्या दानवा भक्षिताः पुरा ।
त्रैलोक्यग्रासिनौ दन्तौ राजदन्ताविति स्मृतौ ॥३५॥
राजदन्तेति संज्ञा वै देव्या पूर्वं कृता प्रिये ।
यौ दैत्यचर्वकों दन्तौ मम कार्यकरावुभौ ॥३६॥
तस्मात्प्रीतेन मनसा मेरुकार्ये नियोजितौ ।
कालिकासंहितायां च मतमन्यत्प्रकीर्तितम् ॥३७॥
मुखं देव्या महेशानि येन दन्तेन राजते ।
तेन कारणतो देवि राजदन्तेति कीर्तितम् ॥३८॥
अन्यत् श्रृणुष्व दन्तेषु राजते राजदन्तकः ।
सूर्याग्निसोमसूत्रैश्च माला कार्या प्रयत्नतः ॥३९॥
वसया मज्जया वाsपि नाडिभिर्वा शुभा मता ।
स्वयम्भुवाक्ता या नाडी सा नाडी सर्वतोत्तमा ॥४०॥
स्वयम्भुवाक्तं यत्सूत्रं तत्सूत्रं सर्वतोत्तमम् ।
पण्यस्त्रीनिर्मितं सूत्रं कुमारीनिर्मितं तथा ॥४१॥
ततो द्विजेन्द्रपुण्यस्त्रीनिर्मितं ग्रन्थिवर्जितम् ।
कुण्डाक्तं चैव गोलाक्तं स्वयम्भुवाक्तं तथैव च ॥४२॥
ततो मातङ्निनीहस्तात् प्राप्तं तु सर्वतोत्तमम् ।
नाड्या संग्रथनं कार्यं रक्तेन वाससा प्रिये ॥४३॥
इयं तु सिद्धिदा माला कालिकाकृष्टिकारिणी ।
या काली सैव तारा स्यात् या तारा सैव कालिका ॥४४॥
या काली सैव छिन्ना स्यात् या छिन्ना सैव तारिणी ।
या सुन्दरी सैव काली सर्वसिद्धिप्रदा मता ॥४५॥
चतसॄणां न भेदोsस्ति भेदभाक् नरकं व्रजेत् ।
मालापात्रासनं चैव चतसॄणां शुभं मतम् ॥४६॥
मन्त्रध्याने विशेषोsस्ति तथा नाम्नि विरोधता ।
प्रयोगादिविशेषोsस्ति सुन्दरयामेव पार्वती ॥४७॥
तिसॄणां न विशेषोsस्ति त्रिशक्तिरिति कीर्तिता ।
श्मशानेषु च बाह्येषु कालिका तिष्ठते सदा ॥४८॥
तस्माद्वीरासनं शस्तं तथैव वीरसाधनम् ।
वीरासनादिकं कर्म तथैव वीरसाधनम् ॥४९॥
समन्त्रं सबलिं चैव सदिग्बन्धादि चोच्यते ।
अखण्डाङ्गं शवं शस्तं सखण्डं मुण्डमुच्यते ॥५०॥
रक्ताक्तं यदि देवेशि तदा त्याज्यं प्रयत्नतः ।
प्रमादाद्यदि देवेशि नहि त्यजति साधकः ॥५१॥
तदैव मरणं तस्य ह्यन्यथा शुभमेव हि ।
इत्येतत्कथितं देवि संक्षेपेण तवाज्ञया ।
वीरसिद्धयादिकं कर्म श्रृणु यत्नेन साम्प्रतम् ॥५२॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे आसनकथनं नाम नवमः पटलः ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP