श्रीशक्तिसङ्ग्मतन्त्रम् - त्रयस्त्रिंशतिः पटलः ।
तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि पूर्वोक्तं च रहस्यकम् ।
श्रीशिव उवाच ।
पञ्चमुद्राख्यसङ्केते मुख्यसङ्केतकं श्रृणु ॥१॥
पानं पञ्चविधे प्रोक्तं महादिव्यादिभेदतः ।
महादिव्यं तथा दिव्यं वीरश्चैव महापशुः ॥२॥
पशुबन्धः पशुश्चेति पञ्चधा परिकीर्तितम् ।
प्राणाअपानौ समाहारौ प्रत्याहारो मनःस्थिरम् ॥३॥
भानुमण्डलकं भित्वा इन्दुमण्डलमध्यगम् ।
सुषुम्नावर्त्मनि नित्यं सुधाधारापकर्षिणी ॥४॥
दिव्यपानमिदं प्रोक्तं सर्वसिद्धिकरं परम् ।
महादिव्यामिद प्रोक्तं श्रृणु दिव्यं महेश्वरी ॥५॥
दिव्यं देवाग्रतः पानमुत्तमं वीरपानकम् ।
त्यक्तसर्वाशयोन्मूलवासनामलसंचयः ॥६॥
कौलिकाचारयोगेन पञ्चतत्त्वेन तर्पयेत् ।
षट्चक्रक्रमभेदेन हुनेद्द्रव्यंसमन्त्रकम् ॥७॥
\ध्यानार्चनपरावस्था वीरपानमनुत्तमम् ।
उद्वासनोत्तरं देवि वीरपानं तुदुच्यते ॥८॥
वीरपानं द्विधा प्रोक्तं पशुपानं श्रृणु प्रिये ।
वीरपाने पूर्ववीरः परस्तु पशुरित्पति ॥९॥
आसक्तलोलुपो दम्भो मन्त्रार्थे त्वप्रसङ्गतः ।
कामुकः कामनिर्देशः पशुपानं तदुच्यते ॥१०॥
सर्वैः कुलीनैः स्थित्वा तु विना पूजां सुगर्वितैः ।
यत्पानं क्रियते देवि पशुपानं तदुच्यते ॥११॥
अन्योsपि श्रृणु देवेशि पशुपानक्रमं शिवे ।
एकाकी मद्यपानी य एकांकी शक्तिभूक् प्रिये ॥१२॥
माहेश्वररम्यं संकीर्गं न कदापिं करोति चेत् ।
पशुयानमिदं प्रोक्तं महदारिद्रयदायकम् ॥१३॥
विना मन्त्रं विना दीक्षां विना गुरुमुख्यात्प्रिये ।
यत्पानं क्रियते मुर्खैंः पशुपानं विदुर्बुधाः ॥१४॥
पशुस्तु त्रिविधः प्रोक्तः पशुपानं पूर्वेणसह भैरवे ।
एकाकी पाननिरतः पशुरित्यभिधीयते ॥१५॥
दीक्षितो निन्दको यस्तु द्वितीयः परिकीर्तितः ।
अदीक्षितः क्रियाहीनो मन्त्रमन्त्रविवर्जितः ॥१६॥
महापशुरिति प्रोक्तः कौलवामौ श्रृणु प्रिये ।
वामे रामा रतियुता बलिपत्रं तु दक्षिणे ॥१७॥
पानपात्रं महेशानि वामहस्तेन तर्पकः ।
महाकौलो महेशानि भूमौ संस्थाप्य तर्पयेत् ॥१८॥
हस्तद्वयेन चेद्देवि कौल इत्यभिधियते ।
वामदक्षव्यत्ययेन वीरकौलः प्रकीर्तितः ॥१९॥
अलिपात्रं वामपाणौ दक्षहस्तेन तर्पयेत् ।
वामगौडस्तु सम्प्रोक्तश्चैतन्याख्यः स एव हि ॥२०॥
भूमौ स्थाप्य महेशानि हस्तयुग्मेन तर्पयेत् ।
आनन्दाख्यस्तु सम्प्रोक्तो वाम इत्यभिधीयते ॥२१॥
पूजायां देवदेवेशि केरले दक्षहस्ततः ।
गौडे वामकरेणैव पूजां च तर्पयामि च ॥२२॥
तर्पयामि पूजयामि नमश्चैव त्रिभागशः ।
आदौ मध्ये तथा चान्ते भिन्नं भिन्नं च वा प्रिये ॥२३॥
दक्षेणैव महेशानि केवलं पूजयामि च ।
तर्पयामि ततः प्रोच्य हृदाद्यन्तं समुच्चरेत् ॥२४॥
एतेsत्र सम्प्रदायाश्च मया प्रोक्ता महेश्वरि ।
सिद्धचैतन्यनामा च विलासाख्यस्ततः परम् ॥२५॥
सत्यचैतन्यनामा च सिद्धाख्यश्च तदुत्तरम् ।
चैतन्यादि विलासी तु सिद्धप्रज्ञाभिधस्ततः ॥२६॥
सिद्धप्रज्ञाभिधश्चैव दिव्यानन्दाभिधस्ततः ।
सिद्धबोधानन्दसंज्ञो दिव्यचैतन्यसंज्ञिकः ॥२७॥
सिद्धबोधस्ततः प्रोक्तो दिव्यचैतन्यसंज्ञिकः ।
दिव्यप्रज्ञाननाथाख्यो दिव्याद्वैतश्च शाश्वती ॥२८॥
शाम्भवाद्वैतनामा च मेधाद्वैताभिधस्ततः ।
एते षोडश संप्रोक्ताः केवलं तर्पणक्रमात् ॥२९॥
अन्ये भेदा विस्तरेण रहस्ये परिकीर्तिताः ।
गोपनीयं गोपनीयं स्वयोनिरपरा यथा ।
इति संक्षेपतः प्रोक्तो मुद्रासङ्केत उत्तमः ॥३०॥
इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे पानसङ्कतकं नाम त्रयस्त्रिंशतिः पटलः ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP