श्रीशक्तिसङ्ग्मतन्त्रम् - एकषष्टिः पटलः ।
तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच ।
तव प्रीत्या महेशानि कथ्यते श्रृणु पार्वति ॥१॥
सुन्दरीं बालिकां रम्यां चार्वङ्गीं चारुहासिनीम् ।
रुद्रवर्षमध्यगतां नववर्षान्महेश्वरि ॥२॥
घृणालज्जाविनिर्मुक्तां भक्तभक्तां सुचञ्चलाम् ।
मनसा दीक्षितां बालां मञ्चके स्थापयेन्नरः ॥३॥
न्यासान्विधाय तद्देहे चक्रन्यासक्रमेण च ।
तद्देहे देवतां पूज्य सबल्यन्तं महेश्वरि ॥४॥
सम्पूज्य प्रजपेद्देवि सर्वसिद्धीश्वरो भवेत् ।
x x x x x x x x ॥५॥
प्रजपेत्परमेशानि वाक्सिद्धिं विविधां लभेत् ।
ब्रह्माण्डगोलके सर्वं यत्किञ्चिज्जगतीगतम् ॥६॥
सर्वं हस्तगतं भूयान्नात्र कार्या विचारणा ।
शतं पादे शतं नाभौ शतः x x शतं हृदि ॥७॥
शतद्वयं x x शतमोष्ठे च चक्षुषि ।
शतं मौलौ महेशानि सहस्रेण पुरस्क्रिया ॥८॥
एवं क्रमं समासाद्य सर्वसिद्धीश्वरो भवेत् ।
मनोरथमयी सिद्धिः कोटिसिद्धीश्वरत्वकम् ॥९॥
वाक्सिद्धिर्विविधा देवि तस्य हस्तगता भवेत् ।
कलौ युगे तु सम्प्राप्ते शक्तियोगो महान्भवेत् ॥१०॥
शक्तियोगः परं योगः शक्तियोगः परं तपः ।
शक्तियोगः परं धाम शक्तियोगः परा कला ॥११॥
शक्तियोगं विना देवि यः कालीं परिपूजयेत् ।
इह क्षोभमवाप्नोति परत्र नरकं व्रजेत् ॥१२॥
सिद्धिहानिर्भवेद्देवि मन्त्रोच्चारणमात्रतः ।
तत्र बालाभिधो योगः सर्वयोगोत्तमोत्तमः ॥१३॥
सर्वदा कारयेद्देवि सर्वदा पूजयेच्छिवम् ।
न जपैर्न तपस्याभिर्नोपवासव्रतादिभिः ॥१४॥
न द्रव्यैर्न कुलद्रव्यैः स्वर्णरत्नादिभिः प्रिये ।
तृप्ता नहि भवेद्देवि शक्तिपूजां विना शिवे ॥१५॥
सर्वांगं विक्षिपेद्देवि महाकालकलान्वितः ।
मुखे बिन्दुं विभाव्याथ सूर्यचन्द्र x x ॥१६॥
चन्द्रं वक्त्रे हरार्ध्यं च x x सम्भाव्य पार्वति ।
मूर्द्धादिनाभिपर्यन्तं ईकारं परिचिन्तयेत् ॥१७॥
एवं रूपं तु कौमार्या विभाव्य परमेश्वरि ।
पूजयेद्देवताबुध्या सर्वसिद्धीश्वरो भवेत् ॥१८॥
ईकारद्वयसंयोगात्कामकामं प्रयोजयेत् ।
वज्रं भवति देवेशि कामद्वन्द्वं कलात्मकम् ॥१९॥
बिन्दुयुग्मं च ऐंकारस्त्वीकारस्तु त्रिबिन्दुतः ।
ईदृग्रूपः शिवः प्रोक्त ईकारात्मा सदाशिवः ॥२०॥
निर्गुणस्तु परातीतः शक्त्यां संकल्पितः सदा ।
x x x शक्त्या सर्वदा सुनियन्त्रितः ॥२१॥
त्रैलोक्यं च त्रिनाडी च त्रितत्त्वं त्रिगुणात्मता ।
त्रिचैतन्यं त्रिलयत्वं त्रितारात्वं त्रिराशिता ॥२२॥
त्रैकाल्यं चैव तार्तीयं वह्नित्रितयतापि च ।
महाकामकलारूपे सर्वदा तिष्ठति प्रिये ॥२३॥
अविनाशी सदास्थायी तारुण्यामृतविग्रहा ।
महाकामकला देवि सर्वदा तिष्ठति प्रिये ॥२४॥
भावनावशतां याता x x x संस्थिता ।
अत एव भकारस्य शिवरूपत्वमेव च ॥२५॥
x x x भकारस्तु त्रिबिन्दुतः
अत एव भवेद्वज्रं कामरूपं सनातनम् ॥२६॥
एतज् ज्ञानयुतो देवि कालीरूपो भवेद् ध्रुवम् ।
कूर्चं काली तथा माया ध्रुवबीजक्रमेण ॥२७॥
त्रिसन्धिक्रमयोगेन सङ्गमः क्रमयोगतः ।
औधापत्रं त्रिसूत्रं च दूर्वापत्रं द्विसूत्रकम् ॥२८॥
त्रिपुण्ड्रं भवति शिवे कलासप्तकसंयुतम् ।
कलापञ्चकयुक्तं वा त्रिपुण्ड्रं सिद्धिदायकम् ॥२९॥
लाप्य यत्नेन देवेशि पूर्वयोगपरायणः ।
कुलवारे कुलतिथौ मासर्त्तुपक्षयोगतः ॥३०॥
ज्ञात्वा सम्पूजयेद्देवि सर्वसिद्धीश्वरो भवेत् ।
प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी ॥३१॥
अमा कलात्रिमात्रा तु षट्कला तु चतुर्द्दशी ।
दानाध्ययनकर्मादौ तिथिः प्रोक्ता महेश्वरि ॥३२॥
सूर्योदयमनुप्राप्य या तिथिश्चोदयं भवेत् ।
सा तिथिः सर्वकार्याणां कर्त्री प्रोक्ता महेश्वरि ॥३३॥
होमजापपूजनादौ घटिका त्र्युत्तरा तिथिः ।
महानिशाव्यापिनी तु सा तिथिः शुभदायिका ॥३४॥
व्रते श्राद्धे चोपवासे द्वितीया तिथिरीरिता ।
परा मध्याह्नसंव्याप्या तदा पूर्वैव चाष्टमी ॥३५॥
जन्माष्टमी निशाव्याप्या नक्षत्रान्ता जयन्तिका ।
दानाध्ययनकर्मादौ परैव परिकीर्त्तिता ॥३६॥
चतुर्थी परमेशानि कीर्त्तिता परमेश्वरि ।
अमासोमयुता या तु सा परैव महेश्वरि ॥३८॥
अमायुक्ता न कर्तव्या प्रतिपञ्चण्डिकार्चने ।
शुक्ला परैव प्रतिपत्तथा यमतिथिः परा ॥३९॥
भद्रोत्तरं तिथिं व्याप्त तृतीया च तु सा तिथिः ।
गौरीपूजाविधौ शस्ता सर्वदुःखविनाशिनी ॥४०॥
त्रिंशन्नाडी सप्तमी स्यात्तदन्ते कालिकातिथिः ।
द्वितीये वेदघटिका वर्धमाना प्रदृश्यते ॥४१॥
पूजादौ प्रथमा प्रोक्ता दानाध्ययनकर्मणि ।
व्रते श्राद्धे द्वितीया तु प्रोक्ता श्यामाष्टमी तिथिः ॥४२॥
पूर्वाष्टमी कृष्णपक्षे शुक्लपक्षे परा तिथिः ।
श्रावणे सप्तमी कृष्णा शुक्लपक्षे नभेक्षणा ॥४३॥
अष्टमी रात्रिसंयुक्ता प्रदोषाख्या तिथिस्तु सा ।
शिवपूजाविधौ शस्ता सर्वसिद्धिकरा भुवि ॥४४॥
कुलवारयुता चेत्स्यात् शक्तिपूजाविधौ तिथिः ।
सा सोमवारसंयुक्ता शिवपूजाविधौ तिथिः ॥४५॥
शिवं शक्तिं भरवं च रमां चैव प्रपूजयेत् ।
विशेषफलदा प्रोक्ता रात्रिपूजा महेश्वरि ॥४६॥
प्रदोषस्त्रिविधो देवि तत्क्रमं श्रृणु सादरम् ।
सप्तमी शाङ्करीसन्धौ प्रदोषो रजनीमुखे ॥४७॥
प्रदोषो रजनीवक्त्रे द्वादशी च त्रयोदशी ।
तत्सन्धौ च प्रदोषः स्यात् त्रिविधः शनियुग्वरः ॥४८॥
चतुर्दश्यपि च परा पूर्वार्द्धं रात्रिसंयुता ।
सप्तमी सोमसंयुक्ता श्रावणे कृष्णपक्षजा ॥४९॥
अष्टमी रात्रिसंविद्धा सा तिथिः शिवशक्तिजा ।
शिवं प्रदोषे सम्पूज्य शक्तिं रात्रौ प्रपूजयेत् ॥५०॥
अष्टमी रससंव्यापी द्वितीया दृश्यते यदि ।
भौमयुक्ता पूर्वयोगाद् भौमाक्ता चाष्टमी तु या ॥५१॥
सा तिथिः सर्वकार्याणां कर्त्री प्रोक्ता महेश्वरि ।
अष्टम्यां अष्टमीपूजा नवम्यां नवमी तथा ॥५२॥
योगे पूजा शुभा देवि पूजा प्रोक्ता महेश्वरि ।
नवम्यां मङ्गलदिने पूर्ववेधे प्रपूजयेत् ॥५३॥
अष्टमी नवमीसन्धौ पूजनात्फलदायिनी ।
एकोद्दिष्टं तु पूर्वाह्णे त्वपराह्णे तु पार्वणम् ॥५४॥
समयोगे परा ग्राह्या पञ्चधा भागयोगतः ।
प्रथमं प्रहरं त्यक्त्वा तृतीयप्रहरावधि ॥५५॥
प्रजपेद् यामयुग्मेन शिवां भक्तवरप्रदाम् ।
प्रथमप्रहरो देवि शिवस्य परिकीर्तितः ॥५६॥
परशम्भोर्द्वितीयस्तु तृतीयः शक्तिगोचरः ।
रुद्रविष्णुब्रह्मणस्तु मुहुर्ताख्यश्चतुर्थकः ॥५७॥
शिवशक्त्यभिधो योगो मध्ययामयुगे भवेत् ।
तत्र यद्यत्कृतं कर्म तदनन्तफलप्रदम् ॥५८॥
मध्ययामद्वये देवि पूजयेद्धोमयेज्जपेत् ।
तर्पयेद्भोजयेच्छक्तिं सर्वसिद्धिं स विन्दति ॥५९॥
सन्ध्यायां शम्भुपूजा स्यान्मधरात्रौ तु कालिकी ।
प्रथमप्रहरे देवि पूजासाधनमाचरेत् ॥६०॥
द्वितीयप्रहरे पूज्य द्विविधं जपमाचरेत् ।
तदन्ते योगकृच्छक्तौ शिवतुल्यो नरो भवेत् ॥६१॥
महानिशा स्थिता नित्या तिथिपूजाविधौ स्मृता ।
अमाभौमसमायुक्ता पूर्वविद्धा तु या तिथिः ॥६२॥
सा तिथिर्बलिदानादौ साधने प्रथमा स्मृता ।
योपवासे तिथिर्देवि सा तिथिः शिवपूजने ॥६३॥
कृष्णाष्टम्यां दिवा भुक्त्वा रात्रौ भुक्त्वा च पार्वति ।
एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणं चरेत् ॥६४॥
पूर्वेद्युरपरेद्युश्च या तिथिः समरूपिणी ।
पूर्वोपोषणकायार्थ परान्ते भोजनं चरेत् ॥६५॥
श्राद्धे चापि पराह्णाख्या तिथिश्चोक्ता महेश्वरि ।
मातृश्राद्धं तु पूर्वाह्णे पितृश्राद्धं पराह्णिकम् ॥६६॥
प्रथमे चापराह्णाख्या द्वितीये कामनाडिका ।
हेमन्ते पूर्वाह्णाख्या च क्रमेण पार्वणं भवेत् ॥६७॥
ज्येष्ठपूर्वाह्णयोगाख्या क्रमेण पूर्ववत्तिथौ ।
पार्वणं भैरवमते कौलश्राद्धं प्रकीर्तितम् ॥६८॥
कलानाद्युत्तरं देवि तिथिरस्ति यदा शिवे ।
परैव श्राद्धकालादौ तिथिः प्रोक्ता महेश्वरि ॥६९॥
सूर्योदयमनुव्याप्य तिथि व्याप्ता तिथिस्तु या ।
सा तिथिः स्नानदानादौ तीर्थश्राद्धे तु केवला ॥७०॥
अष्टादशघटीभूता तिथिरस्ति यदा शिवे ।
तदन्ते सा यदा देवि परवै श्राद्धकर्मणी ॥७१॥
चैत्रीया नवमी शुक्ला मध्याह्नव्यापिनी तिथिः ।
अष्टमी नवमीयुक्ता शुक्लपक्षे तिथिः शुभा ॥७२॥
कौलश्राद्धं तत्र कुर्यात्कुलपूजार्थमेव च ।
तदुद्देशेन संकल्पस्त्वधिवासादिकं भवेत् ॥७३॥
तत्तिथौ स्नानदानादि कार्यं भवति पार्वति ।
अमा च पौर्णिमा देवि परास्नानविधौ तिथिः ॥७४॥
चतुर्दशीं समारभ्य नवम्यन्तं महेश्वरि ।
रात्रिविद्धा तिथिः सर्वा शुभदा परमेश्वरि ॥७५॥
तथैव ग्रहणे देवि तिथिः परैव कीर्तिता ।
चक्षुषा दर्शनं राहोर्यत्तद्ग्रहणमुच्यते ॥७६॥
चक्षुषा दर्शनं राहोर्मुक्तिर्गहणमोचने ।
पुरश्चरणकार्ये तु सूर्यचन्द्रग्रहस्त्वयम् ॥७७॥
इति संक्षेपतः प्रोक्तं विशेषं श्रृणु सादरम् ।
देवश्चन्द्रो यस्य भवेत् स देवश्चन्द्र ईरितः ॥७८॥
देवस्य चन्द्र इत्युक्तः सदेवश्चन्द्र इत्यपि ।
वाक्येsपि ध्वनिसादृश्याद्देवि चन्द्रेषु मुख्यता ॥७९॥
चक्षुषा दर्शनं राहोरित्यत्र मुख्यता तथा ।
चन्द्रोदयव्यापिनी तु स्नाने स्यात्कालरात्रिका ॥८०॥
देवतादर्शनार्थञ्च मध्ययामद्वया तिथिः ।
प्रथमं प्रहरं त्यक्त्वा तृतीयप्रहरावधि ॥८१॥
आद्यः शैवाभिधो योगो द्वितीया शाक्तसंज्ञिका ।
द्वयं मिलित्वा देवेशि योगः स्वाराज्यवाचकः ॥८२॥
स्वाराज्ययोगो देवेशि यत्किञ्चिज्जगतीगतम् ।
स्वाराज्ययोगे देवेशि क्रीडन्ति कालिकागणाः ॥८३॥
तत्र यद्यत्कृतं देवि श्रृणोति देवता स्वयम् ।
न वीरसाधनैर्देवि न शक्तिपूजनादिभिः ॥८४॥
स्वयम्भूकुसुमाद्यैर्वा न तथा वरदा भवेत् ।
यथा स्वाराज्ययोगेन क्षणात्सिध्यति पार्वति ॥८५॥
न धनैर्न तपस्याभिर्न च तीर्थव्रतादिभिः ।
स्वाराज्ययोगमात्रेण देवता वरदा ध्रुवम् ॥८६॥
स्वयम्भूकुसुमं याति वीरसाधनसिद्धयः ।
क्रूरा पुरस्क्रिया भूयाद् योगः पूर्वं तु सूचितः ॥८७॥
भाग्येन प्राप्यते नित्यं स एव देवता स्वयम् ।
आद्यस्य घटिकावेदं वर्जयित्वा महेश्वरि ॥८८॥
द्वितीयास्यां तु नाडीनां चतुष्कं संत्यजेच्छिवे ।
मध्यार्द्धयामयोगोsयं देवानामपि दुर्लभः ॥८९॥
कालीयोगाभिधो योगः सर्वयोगोत्तमोत्तमः ।
कुलवारर्क्षसंयोगात्कामवीराभिधो भवेत् ॥९०॥
पूर्वयोगात्क लवीरो द्वितीयः काममोहनः ।
तत्र यद्यत्कृतं देवि देवतादर्शनप्रदम् ॥९१॥
तद्योगे परमेशानि कुमारीं तु सुलक्षणाम् ।
चारुनेत्रां सुचतुरां वालां गानपरायणाम् ॥९२॥
सिंहासने तु संस्थाप्य देवीवत् परिपूजयेत् ।
ध्यात्वा कामकलां तत्र स्वस्मिन्नपि महेश्वरि ॥९३॥
सर्वसिद्धीश्वरो भूयाद्देवताभावतत्परः ।
तया यदुक्तं देवेशि तदेव भवति ध्रुवम् ॥९४॥
विभाव्य परितो यन्त्रं यन्त्रबिन्दौ कुमारिकाम् ।
सम्पूजयेन्महेशानि ततश्चावरणं भजेत् ॥९५॥
ध्यानोक्तदेवताभावस्तत्र चेद्भाग्ययोगतः ।
तदैव सिद्धिमाप्नोति सा देवी भवति ध्रुवम् ॥९६॥
एतस्याभ्यासमात्रेण पृथिवीसत्त्वमाप्नयात् ।
विविधां सुन्दरीं पृथ्वीं यत्रैव कुर्तुमिच्छति ॥९७॥
ततैव क्षणमात्रेण सम्भवन्ति महेश्वरि ।
सा पृथ्वी बहुभारार्ता क्लिश्यमाना पुराsभवत् ॥९८॥
तदा स्तम्भचतुष्कं च दत्तं श्रीकालिकाम्बया ।
धर्मो ज्ञानं च वैराग्यमैश्वर्यं तदनन्तरम् ॥९९॥
धर्मस्तम्भो भवेदाद्यो वृषरूपः सुचारुधृक् ।
चतुष्पदसमायुक्तः पृथिवीं पाति भेदतः ॥१००॥
रक्तवर्णः सुन्दरस्तु धर्मस्तम्भः प्रकीर्तितः ।
ज्ञानस्तम्भो द्वितीयः स्यात्सर्वं यत्करगं क्षणात् ॥१०१॥
ब्रह्माण्डगोलकं ज्ञानं चिद्घनानन्दतत्परम् ।
स स्तम्भस्तु द्वितीयः स्यात्तद्रूपं श्रृणु पारति ॥१०२॥
सिंहरूपः कृष्णवर्णश्र्छटया श्वेतया युतः ।
पुच्छं च मस्तके प्रोक्तं कटिः सूक्ष्मा महेश्वरि ॥१०३॥
वैराग्यं तु तृतीयं स्याद् हंसरूपं पुरातनम् ।
निर्वाणदीक्षया युक्तं चतुश्चरणदीक्षया ॥१०४॥
सर्वं निर्मुक्तया शक्त्या युक्तं वैराग्यमुच्यते ।
ऐश्वर्यं च चतुर्थं स्याद्गजरूपं पुरातनम् ॥१०५॥
गजसिद्धिबलेनैव पूर्वं संसाधितेन च ।
या सिर्द्धिगजरूपेsथ साररूपा महोज्वला ॥१०६॥
यत्रैव दृश्यते देवि तत्रैव गजनाथता ।
वृक्षाणां प्रस्तराणाञ्च कीटादीनां च पार्वति ॥१०७॥
तावन्नाथत्वतां देवि यद्दृष्ट्वा जायते सह ।
ऐश्वर्यरूपं कृत्वा तु भाराणां तु चतुष्टयम् ॥१०८॥
नाथसंस्थापिता पृथ्वी चतुरस्रा महोज्वला ।
बीजाङ्कुरन्याययोगादत्र चैते भवन्ति च ॥१०९॥
विष्णुपूर्वं चतुष्कं च चतुर्वेदास्तथैव च ।
अथर्ववेदच्छायया तु चत्वारो गुणराशयः ॥११०॥
वाक्चतुष्कं च राजादिचतुष्कं च त्रिकालता ।
महावाक् सिद्धिरपरा चतुर्थी परमेश्वरि ॥१११॥
आधारानन्तमारभ्य पृथिवीशब्दतः शिवे ।
ततस्तु पृथिवी देवी सुधाब्धिस्तत्र तिष्ठति ॥११२॥
मूलाधारं पीतवर्णं चतुरस्रं महोज्वलम् ।
पृथिव्याभ्यासयोगेन पृथिवीयजमाप्नुयात् ॥११३॥
पृथिवीं तु जले नीत्वा सुधाम्भोधौ निधाय च ।
स्वाधिष्ठाने षट्दले तु सुधाम्भोधिः प्रतिष्ठति ॥११४॥
जलं वह्नौ ततो नीत्वा पञ्चवायौ प्रवेशयेत् ।
तमाकाशे समानीय चोन्मन्यां लयमाचरेत् ॥११५॥
हंसपीठ ततो नीत्वा परशम्भौ निवेदयेत् ।
शिवस्वरूपो भवति शिवता तस्य जायते ॥११६॥
एवं योगः समाख्यातः किमन्यच्छ्रोतुमिच्छसि ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यं परमं शुभम् ॥११७॥
श्रीशिव उवाच ।
किं तद्रहस्यं देवेशि संशयं वद सत्वरम् ।
श्रीदेव्युवाच ।
शिवशम्भो प्राणनाथ सर्वकर्षणकारक ॥११८॥
वाञ्छाकल्पलतानाम्नीं बालां मे वद सत्वरम् ।
श्रीशिव उवाच ।
वाञ्छाकल्पलतायोगः सर्वयोगोत्तमोत्तमः ॥११९॥
पूर्वां कुमारीमानीय नखाग्रान्तां प्रवीक्षयेत् ।
शतं भाले शतं केशे शतं सिन्दूरमण्डले ॥१२०॥
शतद्वयं x x शतं x x शतं x x ।
शतं नेत्रे शतं नाभौ सहस्रेण पुरस्क्रिया ॥१२१॥
एवं क्रमेण देवेशि वाञ्छाकल्पलता भवेत् ।
शतं पादे शतं नाभौ रोमावल्यां शतं भवेत् ॥१२२॥
शतं हृदि शतं नेत्रे शतमात्रं कपोलयोः ।
शतं भाले च शतकं वदने प्रजपेच्छिवे ॥१२३॥
स्पृश्यावलोक्य प्रजपेत् त्रैलोक्यविजयी भवेत् ।
राजा भवति देवेशि कामिनीसिद्धिमाप्नुयात् ॥१२४॥
वश्याकर्षणसम्मोहो वयःस्तम्भरसायनम् ।
रसं खङ्गं पादुकाञ्च वेतालं यक्षिणीगणम् ॥१२५॥
खेचरी परकायं च मृतसंजीवनी तथा ।
गोपनीयं गोपनीयं किमन्यच्छ्रोतुमिच्छसि ॥१२६॥
इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे योगकथनं नामैकषष्टिः पटलः ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP