संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
सप्तषष्टिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - सप्तषष्टिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
मुण्डादिवीरपर्यन्तं संस्कारसाधनं वद ॥१॥
श्रीशिव उवाच ।
रहस्यातिरहस्यं च न कुत्रापि मयेरितम् ।
तव प्रीत्या महेशानि कथ्यते श्रृणु साम्प्रतम् ॥२॥
मृद्वासनं भवेदादौ द्वितीयं स्यादचूडकम् ।
कोमलं च तृतीयं सान्मुण्डं प्रोक्तं चतुर्थकम् ॥३॥
मृतासनं पञ्चमं च षष्ठं वीरासनं मतम् ।
महावीरमनं देवि सप्तमं परिकीर्तितम् ॥४॥
सप्तानां साधना देवि मालापात्रविशोधने ।
यंत्रसंशोधनस्यैव सर्वं संकथितं मया ॥५॥
इदानीमासनानां च साधनां श्रृणु पार्वति ।
अर्वाक् षण्माअतो गर्भच्युतमाहुर्मृदुर्बुधाः ॥६॥
चूडोपनयनैर्हीनं मृतं वाचूडकं विदुः ।
निवृत्तचूडको बालो हीनोपनयनः शिवे ॥७॥
यो मृतः पञ्चमे वर्षे तमेव कोमलं विदुः ।
सामान्यमरणं प्राप्ते प्रोक्तं देवि मृतासनम् ॥८॥
वीरक्रमेण संजातं तच्च वीरासनं विदुः ।
आवेशशूलपाशादि महावीरासनं युतम् ॥९॥
अखण्डाङ्गं शवं देवि सखण्डं मस्तकेन यत् ।
तन्मुण्डं यन्त्रमालादिपात्रकर्मणि कीर्तितम् ॥१०॥
शवमानीय देवेशि गर्भजं यदि वा शवम् ।
सप्तमाष्टममासीनं चूडकं वाप्यकोमलम् ॥११॥
स्थानं संशोध्य यत्नेन वीरवेषो मुदान्वितः ।
ततः संस्कारमाचर्य संस्थाप्य विमले स्थले ॥१२॥
गन्धाष्टकं समादाय प्रोक्षयेत्प्रथमं ततः ।
पञ्चामृतैः पञ्चगव्यैः कोणपञ्चसमन्वितैः ॥१३॥
मूलेन स्थापयेत्तत्र पीठचक्रे धरण्यधः ।
त्रिकोणे बिन्दुमाये च चतुरस्रं त्रिकोणके ॥१४॥
त्रिकोणं तस्य बाह्ये तु पद्ममष्टदलं लिखेत् ।
षोडशारं च तद्बाह्ये त्रिवृत्ते त्रिगुणान्वितम् ॥१५॥
मूलदेवीं च तन्मध्ये मूलेन परिपूजयेत् ।
वृत्तं च त्रिगुणं चैव आदिमाद्येन योजयेत् ॥१६॥
पद्मां वा कमलां तत्र वर्णादौ सर्वकर्मसु ।
वह्नेर्दशकलां तत्र कोणे चाष्टदलं तथा ॥१७॥
षोडशारे त्रिवृत्ते च कलां सोमस्य पूजयेत् ।
तत्रैव स्थापयेद्वीरं मृद्वाख्यं वा प्रयत्नतः ॥१८॥
स्वयं तु विलिखेत्तत्र साधारशक्तिपूर्वकम् ।
सुधासिन्धुर्मणिद्वीपं चिंतामणिगृहं तथा ॥१९॥
श्मशानपारिजातं च तन्मूले शववेदिकाम् ।
धर्मो ज्ञानं च वैराग्यं ऐश्वर्यं तदनन्तरम् ॥२०॥
अधर्मादि ततो मन्त्राः पाणिपादे च युग्मकम् ।
अकारादि क्षकारान्तं मातृकान्यासरूपकम् ॥२१॥
तस्थानं पूजयेन्मन्त्री हृदि न्यासादि पूजयेत् ।
करन्यसं ततो मन्त्री कराभ्यां पूजयेत्ततः ॥२२॥
अधोमुखं तु तं कृत्वा तन्मुखे मधुरं वदेत् ।
हे वीर परमानन्द देविपर्यंक शंकर ॥२३॥
अष्टसिद्धिं च मे देहि मम शांतिं सदा कुरु ।
एतद् ब्रूहि च वीरेन्द्र सुवर्णं च मुखे क्षिपेत् ॥२४॥
एलालवंगजाती च फलताम्बूलसंयुतम् ।
खदिरार्द्रकगुडं च कर्पूरं रक्ततंतुना ॥२५॥
मूलेन भावयेत्तत्र जुटिकां दृढमुष्टिकाम् ।
अर्केन्दुसितव्रातालनिर्मितां दीपवर्तिकाम् ॥२६॥
निमंत्रयेत्ततः शाक्तः सप्तवाराण्यनुक्रमात् ।
चंदनागुरुपुष्पाद्यैर्मूर्ध्नि देवीं प्रपूजयेत् ॥२७॥
जीवन्यासं ततो मन्त्री प्राणमन्त्रेण शोधयेत् ।
x x x तथा नाभौ ह्युदरे गुह्यदेशके ॥२८॥
ऊरू जानु तथा जंघा गुल्फपादं जलेन च ।
शीर्षे कण्ठे नासिकायां चक्षुषोः कर्णयोरपि ॥२९॥
शिखाकवचगण्डेषु ऊर्ध्वाधो वाष्टके तथा ।
दन्तयोश्वैव जिह्वायां शिरःपृष्ठे च पादयो ॥३०॥
हृदादिके च बाहुभ्यां पादयोश्च तथैव च ।
सर्वाङ्गे विन्यसेद्देवि पीठन्यासमनुत्तमम् ॥३१॥
सूर्यस्य मण्डले तत्र जपन् याति कलात्मकम् ।
मृतकाय शवायात्र नमश्चांतेपदं ततः ॥३२॥
स्नापथेन्मूलमन्त्रेण पूजितेनोष्णवारिणा ।
सूर्यसोमात्मकं पीठं अग्निरूपं प्रकल्पयेत् ॥३३॥
मेरुपृष्ठऋषिच्छन्दो भूतलं तदनन्तरम् ।
कूर्भ्मोदरस्ततः पश्चाद् धर्मार्थं साधयेत्ततः ॥३४॥
मोक्षो हि मानसश्चैव सिद्ध्यर्थं परिकीर्तितम् ।
मुद्रां कौर्मीं दर्शयित्वा अस्त्रावगुण्ठ्येत्ततः ॥३५॥
शक्तियोनिं मत्स्यमुद्रां धेनुमुद्रां ततः शिवे ।
प्रदर्शयेच्छोटिकां च चतुरस्रां प्रदर्शयेत् ॥३६॥
धृत्वा विमर्शयेन्मूलं पृथ्वी त्वयेति वै क्रमात् ।
ततो वक्त्रोदकेत्यादि मनुभिः कामसंख्यकैः ॥३७॥
प्रणवं पूर्वमुद्भृत्य सहस्रारपदं ततः ।
हुं फट् स्वाहा तदन्ते च रक्ष रक्ष ततो वदेत् ॥३८॥
महाप्रतिसरे सर्वविघ्नान्छेदययुग्वदेत् ।
हुं फडन्तं समुद्धृत्य वह्निजायां समुच्चरेत् ॥३९॥
दिक्पालयजनं कार्यं इन्द्रादिक्रमयोगतः ।
वीरार्गलाघोरमन्त्रैस्तथा पाशुपतैरपि ॥४०॥
महामण्डलमन्त्रैर्वा दिग्बन्धस्तत्र कारयेत् ।
शिवाबलिं तत्र दद्याद् गुरोरादावपि प्रिये ॥४१॥
आदौ मध्ये तथा चांते त्रिवारां तु शिवाबलिम् ।
मुण्डग्रहणकाले तु सर्वथा तु शिवाबलिः ॥४२॥
शिवं शक्तिं च वा पूज्य दिक्पालन्बलिसंयुतान् ।
पूजयेत्परमेशानि आयुधानि यथाक्रमम् ॥४३॥
एवं क्रमेण वीरेन्द्र सर्वेषां बलिमाहरेत् ।
वाड्माया कमला प्रोच्य देव्याsमुक एष वै ॥४४॥
यज्ञः प्रवर्त्तते इमं भागं बलिं च गृह्णयुक् ।
अत्र तिष्ठ नमः प्रोच्य अरक्त ते हुं फट् स्वाहा ॥४५॥
अकारादिक्षकारान्तान् बिन्दुयुड्मातृकाक्षरान् ।
शीर्षादिपादपर्यन्तं वेष्टयेद्दक्षिणक्रमात् ॥४६॥
सार्धत्रिवलयैर्युक्तं वेष्टयेत्साधकोत्तमः ॥
नानासुगंधद्रव्येण रक्तचंदनचंदनैः ॥४७॥
काश्मीरागुरुणा चैव पीतसूत्रेण वेष्टयेत् ।
बन्धयेद्विविधैर्द्रव्यैः क्षारयुक्तहरिद्रया ॥४८॥
बन्धीयाद्रक्तसूत्रेण पट्टसूत्रेण वा प्रिये ।
निर्द्वन्द्वो निरहंकारः सुद्धनाडीगणावृतः ॥४९॥
पाषाण्डबुद्धिरहितः सर्वभूतहिते रतः ।
सर्वावयवसंशुद्धः सर्वशास्त्रविशारदः ॥५०॥
कृताभिषेको विधिज्ञो जपपूजादितत्परः ।
मृद्वासने वसेत् सोहि त्वन्यथा नरकं व्रजेत् ॥५१॥
अज्ञानमोहदंभैश्च दृष्टादृष्टिं करोति यः ।
स याति नरकं घोरं पिशाचत्वमवाप्नुयात् ॥५२॥
प्रपतन्ति महामूढाः व्याधित्वं स्वल्पजीवितम् ।
विशेद्वीरस्तु शास्त्रज्ञः समयाचारतत्परः ॥५३॥
मन्त्रज्ञस्तन्त्रदर्शी च यन्त्रमन्त्रविचक्षणः ।
निग्रहानुग्रहे शक्तश्चतुर्वर्गविनोदकः ॥५४॥
स सिद्धः सिद्धिदो लोके शापानुग्रहणक्षमः ।
अशक्तः कुरुते यस्तु मृत्युस्तस्य न संशयः ।
मृद्वासनमिदं प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥५५॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे मृद्वासनं नाम सप्तषष्टिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP