संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
त्रयःषष्टिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - त्रयःषष्टिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
यन्न कस्यापि सम्प्रोक्तं तन्मे कथय साम्प्रतम् ॥१॥
श्रीशिव उवाच ।
रहस्ययोगं तं देवि कथ्यते श्रृणु साम्प्रतम् ।
बालामानीय कौमारीं देवीवत् पूजयेत् प्रिये ॥२॥
x x स्वशिरो दत्त्वा जपात्कालीमयो भवेत् ।
बालामानीय चार्वङ्गीं तस्या दुग्धं प्रपाययेत् ॥३॥
लक्षं जपेन्महेशानि सिद्धिः स्थिरमयी भवेत् ।
बालामानीय चपलां तस्याः x x x ॥४॥
लक्षं जपेन्महेशानि कामरूपत्वमाप्नुयात् ।
बालामानीय चपलां तस्यातोषादिकं चरेत् ॥५॥
लक्षमात्रं जपेद्देवि त्रैलोक्यविजयी भवेत् ।
बालामानीय ललितां तथा वार्तां समाचरन् ॥६॥
लक्षं जपेन्महेशानि काव्यकर्ता भवेद्ध्रुवम् ।
कुमारीपूजनं स्वर्गे बालापूजा तु मानवे ॥७॥
शक्तिपूजा च पाताले पाताले त्रिविधा गतिः ।
वासुकिं स्वर्गलोकेsस्ति कर्कोटो मानवे भवेत् ॥८॥
शेषः पाताललोकेsपि रहस्यं गोप्यतां शिवे ।
इति संक्षेपतः प्रोक्तं कुलदर्भं श्रृणु प्रिये ॥९॥
त्रिविधः कुलदर्भोsपि सूचितः कालाशम्भुना ।
कथ्यते तत्र देवेशि गोपनीयं कुलेश्वरि ॥१०॥
कुलचक्रोपरि गताः कुलदर्भाः सुखेष्टदाः ।
कर्षार्थं कर्षमंत्रं वा पवित्राय प्रकल्पयेत् ॥११॥
तर्जन्यां रजतं धार्यं स्वर्णं धार्यमनामयोः ।
एष एव कुशः प्रोक्तो न कुशो वनसम्भवः ॥१२॥
कूर्चानां पञ्चकं लिख्य परितो वृतमेखलाम् ।
शूलं कपालमालिख्य ब्रह्मकूर्चः प्रकीर्त्तितः ॥१३॥
एतस्य धारणादेव वाञ्छाकार्यमवाप्नुयात् ।
त्रिधा दर्भः प्रकथितः कालिकागमवर्त्मनि ॥१४॥
गोपनीयमिदं भद्रे सारात्सारतरं महत् ।
कपालं च तथा खङ्गे स्त्रीबीजानि च पञ्च च ॥१५॥
अनामायामिदं धार्यं स्वर्णमर्णं शुभावहम् ।
कूर्चाद्यं कालिका तारा सप्तताराद्यमेव च ॥१६॥
सर्वबीजाढ्यरूपं च कुलदर्भं विधारयेत् ।
विद्याश्रीकीर्तिजननं शक्तिदं सर्वसिद्धिदम् ॥१७॥
सर्वसौन्दर्यदं भद्रे वाञ्छासिद्धिप्रदर्शकम् ।
इति संक्षेपतः प्रोक्तं ध्यानभेदक्रमं श्रृणु ॥१८॥
खङ्गमुण्डवराभीतिर्मालामार्गेण कारयेत् ।
खङ्गमुण्डवराभीत्यः पंक्तिमार्गेण धारयेत् ॥१९॥
दक्षहस्तक्रमेणैव खङ्गमुण्डवराभयान् ।
भावयेत्परमेशानि ध्यानमेवं त्रिधा भवेत् ॥२०॥
इति संक्षेपतः प्रोक्तं मुद्राभेदान् श्रृणु प्रिये ।
मुद्राः पञ्चविधाः प्रोक्तास्तानहं विच्मि संशृणु ॥२१॥
प्रसूनमध्ये संलिख्य कुर्चानां तु त्रयोदश ।
त्रैलोक्यविजयी मुद्र चतुरस्रद्वये शिवे ॥२२॥
मध्ये त्रां परितो ही च स्पर्शाद्दारिद्रयनाशिनी ।
अङ्कमुद्रा बीजमुद्रा बीजकाख्या तथा परा ॥२३॥
यन्त्ररूपा नामरूपा मुद्राः पञ्चविधाः स्मृताः ।
रामवानरलापाख्यस्तथा लक्ष्मणवारणौ ॥२४॥
एतास्त्वङ्काभिधा मुद्रा साम्राज्याख्या महोत्तमा ।
त्रिकोणवृत्तवेदत्रिबाणाख्यदलरूपकम् ॥२५॥
षट्दलं च तथा कोणमष्टास्रं कोणरूपकम् ।
दशविद्या बीजरूपा सङ्ख्या तारक्रमेण च ॥२६॥
मूलं वेष्ट्य लिखेन्मुद्रां सर्वसिद्धिप्रदा मता ।
त्रिपञ्चसप्ततारम्य शतबीजस्य योगतः ॥२७॥
आद्यसम्पुटयोगेन नाममुद्रा भवेच्छिवे ।
बीजस्वरूपमुच्चार्य प्रसीदेति पदद्वयम् ॥२८॥
मुद्रायां विलिखेद्देवि दशविद्याक्रमः स्मृतः ।
बीजस्वरूपञ्च वरं देहियुग्मात्परा भवेत् ॥२९॥
बीजस्वरूपां जपति भजे वन्देति चोच्चरेत् ।
मुद्रा परा महेशानि देवमात्राविधौ भवेत् ॥३०॥
नामपर्यायभेदेन यथायोगेन योजयेत् ।
सर्वसिद्धिमवाप्नोति कोटिसिद्धीश्वरो भवेत् ॥३१॥
एतस्य धारणाद्देवि किं तद्यन्न करे स्थितम् ।
इति संक्षेपतः प्रोक्तं तन्मुद्राधारणं श्रृणु ॥३२॥
अङ्गुलीयोगभेदेन पादांगुलक्रमेण च ।
रत्नभेदे तथा स्वर्णे कामना पूर्ववद्भवेत् ॥३३॥
अष्टास्रं चैव पञ्चास्रं वेदास्रं च त्रिकोणकम् ।
वृत्ताष्टदलकं देवि वृत्तभूपुरमेव च ॥३४॥
यन्त्राण्येतानि देवेशि कोष्ठयन्त्राणि पूर्ववत् ।
अष्टास्रमालिखेद्यन्त्रं समरेखं च सुन्दरम् ॥३५॥
प्रसिद्धप्राच्यां प्रणवं कामाख्यं परिवर्तते ।
तदधो वारुणं बीजं श्रीबीजं च ततोपरि ॥३६॥
अमृतं यन्त्रमेदद्धि त्रितारं वारुणेश्वरम् ।
वेदपत्रे लिखेद्बीजं बटुकाख्यां तु दीपिनीम् ॥३७॥
श्रीसिद्धीश्वरनामानं पादमूले प्रधारयेत् ।
एतस्य धारणाद्देवि सर्वरोगनिवारणम् ॥३८॥
कल्पाद्यौषधयो यद्वत तद्वद्यन्त्राणि पादयोः ।
कलाष्टादशविंशच्च द्वाविंशच्च यथाक्रमात् ॥३९॥
सहस्रत्रिनन्दकोष्ठे कलाकोष्ठे  च वा प्रिये ।
प्रस्तारक्रमयोगेन चाङ्कयन्त्राणि पादयोः ॥४०॥
सर्वदीक्षाप्रसिध्यर्थं त्रैलोक्यविजयाय च ।
कोटिसिद्धीश्वरार्थन्तु पादयोर्धारणं मतम् ॥४१॥
प्रवाले वश्यसिध्यर्थं वैडूर्ये शत्रुनाशनम् ।
मुक्तायां कामिनीप्राप्तिरिन्द्रनीले जयः स्मृतः ॥४२॥
गारुत्मते च गोमेदे हीरके राज्यसिद्धयः ।
कुरुविन्दे पुष्परागे पद्मरागे च रासके ॥४३॥
स्पर्शरत्ने च माणिक्ये सर्वरत्नेsपि पार्वति ।
चिन्तामणौ च परिसे पृथिवीसिद्धिरेव च ॥४४॥
दारिद्र्यनाशनार्थं च हारितं धारयेच्छिवे ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४५॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे मुद्राविवरणं नाम त्रयःषष्टिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP