संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
षष्टिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - षष्टिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच ।
तद्रहस्यं महेशानि गोप्याद्गोप्यतरं महत् ॥१॥
तथापि तव सद्भक्त्या कथ्यते श्रृणु साम्प्रतम् ।
तारायां कालिकायां च छिन्नायामपि पार्वति ॥२॥
मण्डूकादिभवं पीठमाधारादिकमेव वा ।
तत्रापि दशशक्त्या तु त्रिधा भिन्नं महेश्वरि ॥३॥
x x तथा शकौ यत्किञ्चित्पीठमर्चयेत् ।
x x वस्त्रासनं देवि सूत्रान्तं परिकीर्तितम् ॥४॥
मुण्डासनं तु भङ्गान्तं तथा शवासनं शिवे ।
x x सनं जपान्तञ्च x x सनमेव च ॥५॥
मृदुकोमलचूडादि चूडान्तं परिकीर्तितम् ।
तथा वीरासनं देवि समानीय प्रयत्नतः ॥६॥
हृन्मलं दूरतस्त्यक्त्वा हृदय शोधयेत्पुनः ।
वस्त्राच्छन्नं भूमयं च कृत्वा स्थित्वा जपं चरेत् ॥७॥
नरचर्मासनं देवि गजचर्मासनं तथा ।
वस्त्रासनं x x सलोमान्तं नृकेसरीम् ॥८॥
कपीन्द्राख्यं मृगाजाख्यं तूर्णाख्यं त्राणनांतकम् ।
x x त्वगासनं देवि सलोमान्तं महेश्वरि ॥९॥
x x सनं सजीवान्तं पातान्तं x x सनम् ।
x x सनं देवि तत्पातान्तं प्रकीर्तितम् ॥१०॥
जिह्वास्पर्शासनं देवि तत्तत्त्वान्तं प्रकीर्तितम् ।
तदन्ते सन्त्यजेद्देवि जघन्यं चोत्तरोत्तरम् ॥११॥
विष्टरासनकं देवि यदनन्तं प्रकीर्तितम् ।
क्रमात्सिद्धिप्रदं देवि सर्वकार्यकरं भुवि ॥१२॥
व्याघ्रासनं सलोमान्तं केचिद्भङ्गान्तमम्बिके ।
इति संक्षेपतः प्रोक्तं फलसंख्या श्रृणु प्रिये ॥१३॥
x x सनं देवि त्रिदिनात् त्रिगुणाकृतिः ।
x x वस्त्रासनं देवि त्रिमासात्फलदायकम् ॥१४॥
मुण्डासनं तु षण्मासैर्दिनान्तं तु शवासनम् ।
नरचर्मासनं देवि त्रिमासात्फलमुच्यते ॥१५॥
x x सने द्विमासेन फलं भवति सुन्दरि ।
x x सने महेशानि पक्षान्ते तु फलं भवेत् ॥१६॥
मृद्वासने तु मासेन कोमले तत्त्वसंख्यया ।
अचूडके विष्णुतत्त्वे वीरे यामत्रयेण च ॥१७॥
वस्त्रासने पञ्चवर्षैः सिंहासनेsपि मानकैः ।
मृगाख्ये वेदवर्षैंश्च ऊर्णाख्ये दशवर्षतः ॥१८॥
x x त्वगासने देवि सप्ताहेन फलं भवेत् ।
x x सने सपक्षान्तं x x ख्ये दिनाष्टकम् ॥१९॥
विपरीते षट्दिनैश्च जिह्वास्पर्शें द्विवेदकैः ।
सप्त x x देवि सप्ताहेन फलं लभेत् ॥२०॥
विष्टरे मासषट्कैश्च फलं भवति पार्वति ।
इति संक्षेपतः प्रोक्तं नित्यनैमित्तके श्रृणु ॥२१॥
नित्यलोपो न कर्तव्यो नित्यं तु सर्वकालिकम् ।
रात्रिर्भवति चेद्देवि पितृतर्पणकं न च ॥२२॥
सन्ध्यालोपनिमित्ते च गायत्रीं मूलमेव वा ।
जपेदष्टोत्तरं देवि सहस्रं यत्नतः शिवे ॥२३॥
तथा मध्याह्निकं कार्यं रात्रिकृत्यं ततश्चरेत् ।
जपादिस्तोत्रपाठान्तं सर्वमेतत्समाचरेत् ॥२४॥
तदन्ते पूजनं कार्यं ततो नैमित्तिकं चरेत् ।
अत्र केचित्समिच्छन्ति नित्ये पञ्चोपचारिका ॥२५॥
ततो नैमित्तिकं काम्यं कारयेत्परमेश्वरि ।
इति संक्षेपतः प्रोक्तं सेपानं श्रृणु पार्वति ॥२६॥
नवसोपानसंयुक्तं तारकालीस्थिते पदम् ।
पादाष्टकसमायुक्तं शस्त्राष्टकसमुज्वलम् ॥२७॥
देवताषोडशाक्रान्तं पीठं पीठविदो विदुः ।
धर्माष्टकसमाक्रान्तं प्रेताष्टकसमुज्ज्वलम् ॥२८॥
धर्माद्यनैश्वर्यान्तं च ब्रह्मादीश्वरतः शिवे ।
ऋग्युजुःसामनिगमं चतुर्वेदसमुज्ज्वलम् ॥२९॥
इति संक्षेपतः प्रोक्तं किमन्यद् बहुविस्तरैः ।
शक्तिसङ्गमयोस्तन्त्रं तत्र संक्षेपतो मतम् ॥३०॥
तदेव भूयो देवेशि ध्याननाम्ना प्रकथ्यते ।
रक्तवर्णं स्मरेद्धर्मं वृषरूपं समुज्ज्वलम् ॥३१॥
त्रिशूलहस्तकं श्रृङ्गद्वययुक्तं च पङ्कजम् ।
सिंहरूपं स्मरेद्ज्ञानं श्यामवर्णं पुरातनम् ॥३२॥
श्वेतच्छटासमायुक्तं पुच्छं तन्मस्तकोपरि ।
कृष्णावर्णो यदा सिंहस्तदा श्वेतच्छटा भवेत् ॥३३॥
कृष्णच्छटो श्वेतवर्णो कालीविद्याविधौ हरिः ।
वैराग्यं पीतवर्णं च हंसाकारं निरंकुशम् ॥३४॥
उत्तानहस्तं सन्ध्यायेत्स्थापिते सिंहविष्टरे ।
ऐश्वर्यं कृष्णवर्णाढ्यं द्विरदाकारमद्भुतम् ॥३५॥
पंकजं विभ्रतं दण्डं संस्मरेत् परमेश्वरि ।
अधर्मं पुरुषाकारं विचित्राम्बरभूषितम् ॥३६॥
सर्वावयवसंयुक्तं उत्फुल्लपङ्कजे स्थितम् ।
अज्ञानं पुरुषाकारं विचित्रं नरदैवतम् ॥३७॥
तत्त्वमुद्राधरं शान्तं संस्मरेत्परमेश्वरि ।
अवैराग्यं स्मरेद्दिव्यं नानावर्णसमुज्ज्वलम् ॥३८॥
विचित्रवर्णभूषाढ्यं वामनाकृतिकं शुभम् ।
अनैश्वर्यं चित्रवर्णं नानारत्नाकृतिं परम् ॥३९॥
येथे कोष्टक आहे. पान नं. २२८.
ब्रह्मा हंससमारूढश्चतुवक्त्रश्चतुर्भुजः ।
दण्डपद्माक्षसूत्रं च दधतं चारुरूपिणम् ॥४०॥
चतुर्वक्त्रं त्रिनेत्रं तु ब्रह्मकूर्चं च पङ्कजम् ।
बिभ्रतं संस्मरद्दिव्यं स्वर्णवर्णमहोज्ज्वलम् ॥४१॥
जटाजूटधरं वृद्धं ब्रह्माणं परदैवतम् ।
चतुर्भुजं महाविष्णुं श्यामं गरुडवाहनम् ॥४२॥
नानालङ्कारशोभाढ्यं सर्वावयवशोभितम् ।
शङ्खचक्रगदापद्मैः क्रमात्संबिभ्रतं स्मरेत् ॥४३॥
महेश्वरं वृषारूढं शुक्लवर्णं त्रिलोचनम् ।
कपालं डमरुं चैव वरदाभयशूलकम् ॥४४॥
टङ्कं संबिभ्रतं देवं व्याघ्राजिनवराम्बरम् ।
दिगम्बरं वा देवेशि स्वेच्छया रुद्रभावना ॥४५॥
ईश्वरं रक्तवर्णञ्च व्याघ्रसिंहासनस्थितम् ।
चतुर्भुजं त्रिनयनं सर्वविद्याविशारदम् ॥४६॥
खङ्गखेटकमुण्डं च वरं संबिभ्रतं स्मरेत् ।
ऋग्वेदं श्वेतवर्णञ्च स्रुक्स्रवौ बिभ्रतं विभुत् ॥४७॥
यजुर्वेदं रक्तवर्णं यागसाधनतत्परम् ।
अध्वर्युकर्मनिरतं संस्मरेत्सिंहविष्टरे ॥४८॥
सामवेदं पीतवर्णं गानशक्तिपरायणम् ।
द्विभुजं तालमानाढ्यं सर्वदेवनमस्कृतम् ॥४९॥
अथर्वणं चित्रवर्णं कृष्णवर्णं च वा प्रिये ।
द्विभुजं पुस्तकधरं द्वितीये कर्षणं परम् ॥५०॥
पञ्चाशद्धि महापद्मं पुस्तकं करशोभितम् ।
दिक्विदिक्क्रमयोगेन देवताः परिकीर्तिताः ॥५१॥
स्थापने देवताः प्रोक्ताः पीठस्य परमेश्वरि ।
सिंहासनस्था देवाश्च कीर्तिताः परमेश्वरि ॥५२॥
चरस्थिरप्रभेदेन सर्वं संक्षेपतो मतम् ।
चरे धर्मादिपीठं च स्थिरे तु दह्र्मशम्भुयुक् ॥५३॥
इति संक्षेपतः प्रोक्तं शक्तियोगं समभ्यसेत् ।
सुन्दरीं तरुणीं श्यामां चार्वङ्गीं चारुहासिनीम् ॥५४॥
चतुरां x x सदा x x x x x ।
षोडशाब्दां मन्त्रमयीं मृगशावकलोचनाम् ॥५५॥
स्वकीयां परकीयां वा विधिवत्प्रार्थयेत्सुधीः ।
प्रातःकृत्यं समाप्यादौ नित्यकृत्यविधानतः ॥५६॥
कृत्वा शक्तिं समानीय शक्तिन्यासपूरःसरम् ।
x x सोमवतीन्यासे शक्तिन्यासेsपि पार्वति ॥५७॥
कृत्वा सर्वं प्रयत्नेन शक्तिं x x x प्रयत्नतः ।
स्वयः x x x स्तत्र भूत्वा शक्तिजापपरायणः ॥५८॥
प्रसूनमञ्चे संस्थाप्य मञ्चे वा परमेश्वरि ।
x x x x x x कृत्वा पञ्चतत्त्वापरायणः ॥५९॥
सुधानन्दमयो भूत्वा स्वयं x x x x भवेत् ।
x x x x x x x x x x x x x x x ॥६०॥
सप्तxxमासाद्य स्पर्शषट्कासनं चरेत् ।
स्वयं xxसमो भूत्वा तामाxxपरायणाम् ॥६१॥
कृत्वा यत्नेन देवेशि शुद्धमन्त्रौषधेन च ।
x x x x x x कुर्यात् कालीजापपरायणः ॥६२॥
तावत्कुर्यान्महेशानि यावxxविलोपनम् ।
वारं वारं पुनः कुर्याद्यावxx शांकरि ॥६३॥
यावन्निश्चेष्टितो भूयात्तावत्कुर्यान्महेश्वरि ।
ततो बिन्द्वैकं संग्राह्य अर्घ्यार्थं परमेश्वरि ॥६४॥
त्रिपञ्चनवशक्तीनामेवं कृत्वा महेश्वरि ।
x x लोपं समासाद्य x x x x च वा ॥६५॥
एवमासनमासाद्य खञ्चरीटासनं तथा ।
चन्द्रबिम्बं सर्पिणीञ्च सूर्यं च तिलपुष्पकम् ॥६६॥
चामरं पर्वतौ सूत्रं तथैव च सरोरुहम् ।
वीक्ष्य यत्नेन देवेशि कालीपूजनमारभेत् ॥६७॥
कालीं तारां तथा छिन्नां सुन्दरीं वगलामुखीम् ।
पूजयेत्परमेशानि तामन्यां वा महेश्वरि ॥६८॥
प्रसूनमंचे संस्थाप्य पूर्ववत्सर्वंमाचरेत् ।
पूर्वशक्तिर्यदा देवि तदा तस्या न शोधनम् ॥६९॥
अन्यां संशोध्य यत्नेन x x x x प्रयत्नतः ।
सिन्दूरतिलको वापि देवतातिलकान्वितः ॥७०॥
कज्जलं नेत्रयोर्दद्यात्स्त्रीवेषं च समाचरेत् ।
खगहस्तो मुक्तकेशः पुष्पतैलविभूषितः ॥७१॥
नानासौगन्ध्यसंयुक्तो धूपगेहसमास्थितः ।
ताम्बूलरागो वदने परितः शक्तयः शुभाः ॥७२॥
xxसने नरः स्थित्वा पात्रासादनसंयुतः ।
xx मध्ये मूलयन्त्रं विचिन्त्य परमेश्वरि ॥७३॥
यथोक्तवर्त्मना पूज्य सबल्यंतं महेश्वरि ।
यत्र स्थानगता देवी तत्र स्थानं प्रपूजयेत् ॥७४॥
सम्पूज्य परमेशानि चतुःषष्ट्युपचारकैः ।
आरार्तिकं ततः कृत्वा जपं कुर्यान्महेश्वरि ॥७५॥
जपं निवेद्य तस्यां तु तयोक्तं तत्समाचरेत् ।
xx यत प्रकर्तव्यं स्वयं पूजनमारभेत् ॥७६॥
x    x    x    x    x    ।
तदैव कारयेद्देवि चान्यथा नश्यति ध्रुवम् ॥७७॥
उभौहि तोष्य यत्नेन स्वर्णरत्नगजादिभिः ।
x x x x x जप्यात्साक्षात्तारासमो भवेत् ॥७८॥
एतस्य फलबाहुल्यं मया वक्तुं न शक्यते ।
स शिवः स हरिः काली सैव तारा पराम्बिका ॥७९॥
सैव छिन्ना सुन्दरी तु स एव सुरसुन्दरः ।
सर्वसिद्धीश्वरो भूत्वा कामरुपो बिलांजनः ॥८०॥
खङ्गवेतालगुटिका खेचरी तिलकस्तथा ।
रसरसायणं देवि परकायप्रवेशनम् ॥८१॥
वयःस्थैर्यमथाकर्षस्तथा मधुमती शिवा ।
पद्मावती भोगवती स्वयं सिध्यति पार्वति ॥८२॥
वेतालचन्द्रसूर्यादिकरणं जलरूपता ।
अणिमाद्यष्टकं देवि कोटिसिद्धीश्वरत्वकम् ॥८३॥
तस्य हस्ते भवेद्देवि नात्र कार्या विचारणा ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥८४॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे शक्तिपूजारहस्यकथनं नाम षष्टिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP