श्रीशक्तिसङ्ग्मतन्त्रम् - पञ्चदशः पटलः ।
तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
ईश्वर उवाच ।
स्त्रीस्वरूपं पुंस्वरूपं गवाक्षयोगवर्णनम् ।
सिद्धेश्वर्यादिविज्ञानं वीरपत्न्यादिलक्षणम् ॥१॥
चातुर्वर्ण्यकुले देवि चतुर्णां चाभिचारतः ।
भिन्नतीर्थप्रकथनं तद्वेश्यातीर्थनिर्णयम् ॥२॥
पञ्चाशत्पीठदेवीनां वेश्यात्वाद्व्यभिचारतः ।
तीर्थानि सर्वसिद्धानि सद्यः सिद्धिकराणि च ॥३॥
कथ्यते देवदेवेशि सावधानमना भव ।
सुन्दरीं तरुणीं रम्यां चार्वङ्गीं चारुहासिनीम् ॥४॥
गुरुभक्तां जपासक्तां महाकामकुतूहलाम् ।
दर्शनान्मोहिनीं साध्वीं कटाक्षादिप्रमोचनीम् ॥५॥
केशरञ्जनसंयुक्तां वस्त्ररञ्जनसंयुताम् ।
गर्भ x x कलायुक्तां पुष्पोत्पाटनतत्पराम् ॥६॥
नानापाककलायुक्तां लेह्यपेयादिसत्कलाम् ।
शय्यासंरञ्जनीं दिव्यां मुखवासादिरञ्जिनीम् ॥७॥
गीततालभृदङ्गादिवीणावादनतत्पराम् ।
काव्यालापसमस्यादिपल्लवादिसमन्विताम् ॥८॥
नानाचित्रकलायुक्तां सौरम्य x x न्विताम् ।
x x शातनसंयुक्तां सत्कुचां करुणाकुलाम् ॥९॥
x x स्थूलदीर्घकरां नानाभरणभूषिताम् ।
x x x x देवेशि ह्यविकारपरायणम् ॥१०॥
x x x x x विकारपरिवर्जिताम् ।
नायिकाष्टतुल्ययुक्तां क्रोधमात्सर्यवर्जिताम् ॥११॥
सर्वदोषविहीना या सा शक्तिः परिकीर्तिता ।
पुंस्वरूपं महेशानि कथ्यते श्रृणु साम्प्रतम् ॥१२॥
नानाविलासकुशलः सर्वशक्तिसमन्वितः ।
तरुणः सुन्दरः शूरश्चिर x x x कारकः ॥१३॥
दीर्घ x x दृढाघाती x x x च तत्परः ।
कामशास्त्रकलायुक्तो मन्त्रनाड्यौषधान्वितः ॥१४॥
स्तम्भज्ञानी x x वृद्धिस्थूलदीर्घक्रियान्वितः ।
मकारपञ्चकासक्तो गुरुभक्तो जितेन्द्रियः ॥१५॥
सर्वकालं जपासक्तः सर्वतन्त्रार्थतत्त्ववित् ।
आकर्षणवशीकारस्तथोच्चाटनतत्परः ॥१६॥
ज्ञानविज्ञानसंयुक्तः कामादिदोषवर्जितः ।
संगीतवाद्यवीणादि काव्यनाट्यकलाग्रणीः ॥१७॥
पल्लवानां तु विज्ञाता कुलभक्तो महोत्तमः ।
x x x चालोच्य विकारादिविवर्जितः ॥१८॥
स्त्रीस्वरूपस्य विज्ञानी देहज्ञानी तथापरः ।
शापानुग्रहणे दक्षः सर्वभूतदयापरः ॥१९॥
सर्वचक्रस्य विज्ञानी दिव्याम्बरविभूषितः ।
दिव्याभरणसंयुक्तः सर्वसौगन्धसंयुतः ॥२०॥
सर्वदा धूपगेहस्थस्त्रैकाल्यज्ञानवित्परः ।
स्त्रीरूपज्ञानसम्पन्नः सर्वदा तत्स्वरूपवान् ॥२१॥
समस्याकोशविज्ञानी गेहरञ्जनसंयुतः ।
ईद्दग्विधो महेशानि साधनार्हो न चाsन्यथा ॥२२॥
तत्रापि कालिकाभक्तः कलौ दुर्लभ एव च ।
एवं गुणान्समालोच्य सस्मितास्यो महेश्वरि ॥२३॥
साधनां कारयेद्देवि नान्यथा शाङ्करं वचः ।
त्रिधा त्रिशक्तिसंजापी गवाक्षे योगमभ्यसेत् ॥२४॥
देवालये नदीतीरे रम्ये वा यत्र कुत्रचित् ।
धूपामोदगृहं गत्वा भूतशुद्ध्यादिसंयुतः ॥२५॥
ऋषिच्छन्दादिषोढान्तं कुल्लुकान्तं महेश्वरि ।
कृत्वा ध्यात्वा महेशानि गवाक्षे दृष्टियोजनम् ॥२६॥
अङ्गुष्ठादिशिखान्तं हि समालोच्य जपं चरेत् ।
भ्रामरं सूर्याबिम्बं च त्रिवेणीपुष्करं तथा ॥२७॥
तिलपुष्पं खङ्जरीटं चम्पकं कामरूपकम् ।
अमृतं पुष्पितं देवि सङ्गितं वाद्यमेव च ॥२८॥
समालोच्य जपेद्देवि कामगेहे विशेषतः ।
एकद्वित्र्यादिलक्षान्तं समालोच्य जपं चरेत् ॥२९॥
तत्रेष्टपुष्पिनीं दृष्ट्वा कृत्वा संयोगमादरात् ।
गवाक्षयोगसामर्थ्यात् जपं कुर्यादनन्यधीः ॥३०॥
अष्टावधानी देवेशि भवत्येव न संशयः ।
अथवाsन्यप्रकारेण साधनान्तरमुच्यते ॥३१॥
कुलजां युवतीं वीक्ष्य x x x प्रदापयेत्
x x x कारयेद्देवि गवाक्षमभ्यसेत्तथा ॥३२॥
x x x विलिहन् देवि स्वरसं च ततः परम् ।
एवं मासाष्टकं कुर्यात्सिद्धिदाता न चान्यथा ॥३३॥
दशावधानी देवेशि भवत्येव न चाsन्यथा ।
वीरपत्नीं समानीय शवशय्यां समाचरेत् ॥३४॥
वीरसाधनवत्कृत्वा शवमासाद्य यत्नतः ।
x x x x x स्थाप्य सप्त x x x योगतः ॥३५॥
गवाक्षयोगमासाद्य तत्रैव परमेश्वरि ।
वर्षमात्रं जपेद्देवि कालीतुल्यो नरो भवेत् ॥३६॥
शतावधानी देवेशि भवत्येव नरोत्तमः ।
अथवाsन्यप्रकारेण साधनान्तरमुच्यते ॥३७॥
महाशवमध्यभागे भूमावासाद्य यत्नतः ।
मृदुचूडकमुण्डानि कोमलं च चतुर्थकम् ॥३८॥
क्रमेण दिक्षु संयोज्य तत्र शक्तिं समानयेत् ।
आसनं तत्र सन्दत्वा महाव्याघ्रासनं तथा ॥३९॥
तस्योपरि समानीय x x x विधाय च ।
स्पर्शषट्कासनं कृत्वा जपं कुर्यादनन्यधीः ॥४०॥
वर्षमात्रं जपेद्देवि समयादिषु तत्परः ।
सहस्राद्यवधानं तु कर्तुं शक्तो नरो भवेत् ॥४१॥
कुंकुमं केशरं चापि समानीय प्रयत्नतः ।
वामहस्ते तु संस्थाप्य दक्षिणे यन्त्रमालिखेत् ॥४२॥
वामेन तर्पणं कुर्यात्सहस्रमयुतञ्च वा ।
शक्तेर्मुखं समालोक्य तर्पणं सर्वदां चरेत् ॥४३॥
सरसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ।
सिद्धेश्वरीलक्षणं च कथ्यते शृणु साम्प्रतम् ॥४४॥
यस्या विवाह्यते कन्या स चेद्वीराङ्गना यदि ।
सापि x x यदि भवेत्तदा सिद्धेश्वरी मता ॥४५॥
केलिकुञ्ची महेशानि व्यभिचारपरायणा ।
कुलीनस्य तु या भार्या सपै x x भवेद्यदि ॥४६॥
वागीश्वरीति विख्याता महापीठेश्वरी परा ।
श्यालिका यदि चे x x x x स्वादनतप्तरा ॥४७॥
विशालाक्षिति सा प्रोक्ता सर्वसिद्धिप्रदर्शिका ।
श्यालकस्य तु या कन्या सा यदा व्यभिचारिणी ॥४८॥
कामाख्येति च विज्ञेया सर्वसिद्धिकरा भुवि ।
तत्पत्यास्तु गृहे देवि शत x x वधिर्भवेत् ॥४९॥
महाराजेश्वरी ख्याता त्रैलोक्यसिद्धिदायिका ।
वीरपत्नी स्वयं वीरा प्रोक्ता श्रीमन्महेश्वरी ॥५०॥
तत्सुता कुलविद्यानामाद्या श्रीत्रैपुराम्बरा ।
तत्सुता भुवनेशानि शाक्तस्य शाङ्करी कला ॥५१॥
दिव्यस्य विमला प्रोक्ता पूर्णस्य कालिका स्मृता ।
ऊर्ध्वादि सर्वसाम्राज्यमेधान्तं परमेश्वरि ॥५२॥
विद्याराज्ञीं समारभ्य हंसकाल्यन्तगं भवेत् ।
विलोमेन महेशानि तद्भार्यानाम कीर्तितम् ॥५३॥
गुरुपत्नीति कामेशे तत्सुता बालिका स्मृता ।
लोपामुद्रा तत्स्नुषा स्याच्चातुर्वर्ण्यक्रमं श्रृणु ॥५४॥
द्विजस्त्री यदि चे x x सा प्रोक्ता कुलसुन्दरी ।
त्वरिता सैवा सम्प्रोक्ता व्यभिचारपरायणा ॥५५॥
क्षत्रियस्य तु कन्या च स्नुषा x x दियोगतः ।
कौलिनी माधवी देवि वाराही कामसुन्दरी ॥५६॥
मोहिनीति क्रमेणैव व्यभिचारक्रमेण च ।
वैश्यस्त्री यदि चे x x व्यभिचारपरायणा ॥५७॥
स्वप्नावती भोगवती नित्या क्लिना च कुक्कुटी ।
अघोरा सिद्धचामुण्डा सुतास्नुषाक्रमेण च ॥५८॥
शूद्रपत्नीसुता कुञ्ची x x वा व्यभिचारतः ।
अश्वारूढा च धनदा कुब्जिका शबरेश्वरी ॥५९॥
अनङ्गमाला नीलाख्या क्रमेण परिकीर्त्तिता ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥६०॥
इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे गवाक्षयोगवर्णनं नाम पञ्चदशः पटलः ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP