श्रीशक्तिसङ्ग्मतन्त्रम् - पंचत्रिंशतिः पटलः ।
तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छानि लतारूपमथादरात् ।
श्रीशिव उवाच ।
लतारूपं महेशानि पूर्वमेव मयेरितम् ॥१॥
सामान्यतः प्रवक्ष्यामि सावधानमना भव ।
तरुणीं तु सुलावण्यां सुन्दरीं चारुदासिनीम् ॥२॥
चंछलां कञ्जनेत्राञ्च षोडशाब्दामपुष्पिताम् ।
कटाक्षताडिनीं रामां सुगन्धां तनुमोहिनीम् ॥३॥
ईदृग्विधां समालोक्य सदा तत्सङ्गमाचरेत् ।
तस्याः x x x कार्यमविकारेण चेतसा ॥४॥
नारीं निवीक्ष्य यत्नेन अविकारी नरो यदि ।
विकारे जायमाने तु साधको नश्यति ध्रुवम् ॥५॥
सर्वदा तु निवीक्ष्यैनां तद्योगं श्रृणु सत्वरम् ।
चरणान्मूलपर्यन्तं पीत्वा पीत्वा पुनः पिवेत् ॥६॥
तस्या नखशिखाज्योत्स्नाखण्डितान्तस्तमो भवेत् ।
कमठी कर्पराकारा प्रपदाञ्चितशोभया ॥७॥
स्निग्धान्तःकरणो वीरो निर्विकल्पः सदा भवेत् ।
सुवृत्तजानुना चारु जङ्घोरुजघनाश्रयैः ॥८॥
नाभौ रोमावली वक्षस्थलैः पीनपयोधरौ ।
ग्रीवानयनपर्यन्तं केशाग्रैः प्रवरस्थितैः ॥९॥
यावन्मधुमदापूर्णौ निस्सीमैर्भावलोकितैः ।
स्निग्धेन्द्रियश्च सन्तुष्टतुर्वर्गसमन्वितः ॥१०॥
निवृत्तिकाले च पुनर्भावपूर्णामृतैर्निजम् ।
मुखं बिन्दुवदकारं समारभ्य महेश्वरि ॥११॥
साधकोत्तम इत्युक्तः श्लोकानां च चतुष्टयम् ।
ध्यात्वा स्पृष्ट्वाsथवा दृष्ट्वा एतत्कामकलान्वितः ॥१२॥
क्षणं तत्र विमृश्यैतज्जायते भावसञ्चयः ।
कुलेषु तत्कालारूपमङ्गले परिवर्त्य च ॥१३॥
कुले सञ्जायते यत्नात्कथं तत्कथयामि ते ।
कुले साक्षाद्यतस्तत्त्वं स्वयं चिन्तिततत्त्वतः ॥१४॥
तेन तत्कुलशास्त्रज्ञैः पूजनीयं प्रयत्नतः ।
कुलदेवे चात्मदेवी निश्चला यस्य वर्तते ॥१५॥
स धन्यः पुरुषो लोके निश्चलोदयं एव सः ।
यत्कुले कुलदीक्षा तु तस्मात्साsपि स एव हि ॥१६॥
अदीक्षितकुलासङ्गात्सिद्धिहानिः प्रजायते ।
तत्कथाश्रवणं चेत्स्यात्तत्तल्पगमनं यदि ॥१७॥
स कुलीनः कथं देवि स कथं मम पूजकः ।
गन्धरूपानुरूपेण नाम कुर्यान्निजेच्छया ॥१८॥
मातृपितृकृतं नाम वर्जनीयं प्रयत्नतः ।
परयोषाधिका ज्ञेया निजस्त्री प्रीतिवर्धनी ॥१९॥
आगते स्वागतं कुर्याल्लीलायोगान्निजेच्छया ।
तस्मादुत्थ्याय हस्ताग्रे धृत्वा संवेशयेत्ततः ॥२०॥
वामभागे समासीनां सुवर्णां कामरूपिणीम् ।
ध्यात्वा कामकलां तत्र विन्द्वादिपूर्णविग्रहः ॥२१॥
केशविन्यासतिलकहारकेयूरयावकम् ।
सर्वकलाविधानादौ कुलद्रव्याणि योजयेत् ॥२२॥
हेतुयुक्तं सताम्बूलं दत्त्वा भुक्त्वा तु साधकः ।
पश्येत् कुलपथं तस्या लौकिकालौकिकादिकम् ॥२३॥
स्वयं चोद्भवपुष्पाणि कीर्तितानि कुलादिषु ।
न करोति कुलाभिज्ञः शिवोsपि नश्यति ध्रुवम् ॥२४॥
दृष्ट्वा दोषादिकं तत्र स्नेहादपि न शिक्षयेत् ।
भाषयेन्न कटूक्त्या वै कृते तु निष्फलं भवेत् ॥२५॥
कुलशास्त्ररहस्यं तु कुलमूलं यतः प्रिये ।
वरं कुलमतत्यागो वरं कुलगुरोरपि ॥२६॥
न त्यागं पापं स्वकुलं दृष्टदोषादपि प्रिये ।
कुलवृक्षस्थितः सोsहं स्वकुलं पोषयाम्यहम् ॥२७॥
तेन सर्वप्रयत्नेन रक्षणीयञ्च यत्नतः ।
स्वकुले कुलबाहुल्यं यदि स्याद्भाग्ययोगतः ॥२८॥
समरूपं विधातव्यं वैपरीत्यं त्यजेद्बुधः ।
पृथक् ध्यानं पृथक् स्थानं पृथक् पूजा पृथक् स्तुतिः ॥२९॥
न कर्तव्या प्रयत्नेन किमेतैर्बहुजल्पितैः ।
कुले तिष्ठामि देवेशि नात्र कार्या विचारणा ॥३०॥
तासां विश्वासघातेन तद्देशश्चैव नश्यति ।
प्रमोदादमृताख्यानं मम स्यान्नात्र संशयः ॥३१॥
कुलजाहं महायुद्धे वीरास्फालनिनादिनी ।
न दोषमात्रमिच्छामि पातयामि यतो जगत् ॥३२॥
सौन्दर्यपतिविद्वेषः कटूक्तिः कलहादिकम् ।
नीचानां गमनं चैव न वै तत्र वसाम्यहम् ॥३३॥
ब्रह्माण्डभाण्डसम्भेदात्तेन जीवेत्स सिद्धियुक् ।
विना कुलेन संसिद्धिर्न कुत्रापि प्रविद्यते ॥३४॥
कुलालापानुसन्धायी कुलरूपं विचिंत्य च ।
विहरेद्दिवसे चैव रात्रावाकृष्टितत्परः ॥३५॥
आनीय योषितः सर्वाः जात्यष्टकसमुद्भवाः ।
गंधानुक्रमणादेव नाम कुर्यान्महेश्वरि ॥३६॥
एकजातिभवा वापि स्वरूपं पूर्वमीरितम् ।
तन्मन्त्रं तत्र संयोज्य तेनैव पूजनं चरेत् ॥३७॥
शुद्धपुष्पैश्च नैवेद्यैर्लवणैर्मधुसंयुतैः ।
पूजयित्वा यथापूर्वं साधयेन्निजसाधनम् ॥३८॥
तत्पुष्पेणैव नैवेद्यैस्तां कालीं परिपूजयेत् ।
त्रिपुरानामिकां देवि रक्तपुष्पेण पूजयेत् ॥३९॥
गुणैः पूर्वोदितैर्युक्ता नाना वा एकजातयः ।
रूपगन्धसमायुक्ता नामतः पूर्वमीरितम् ॥४०॥
एवं कृत्वा तु बहुधा दृष्टादृष्टविभेदतः ।
विशेषो ह्मत्र देवेशि किमन्यद्बहुजल्पितैः ॥४१॥
मायया च्छाद्य आत्मानं निजस्त्रीरूपधारिणी ।
आगत्य x x x देवि तेनैव दृश्यते ध्रुवम् ॥४२॥
तस्मात्स्वदेशेनैवैतत् कर्तव्यं सिद्धिकांक्षया ।
किं वा कामविलोपार्थं यतितव्यं सुरेश्वरि ॥४३॥
कर्मदण्डं समादाय शिवसाम्यं विधाय च ।
तद्गात्रं चक्रसूत्रेण वेष्टनं सप्तधा कृते ॥४४॥
पाशस्त्वं सर्वभूतानां रक्षणाय स्वयम्भुवा ।
निर्मितोsसि महाभाग दृढबन्धं विधीयताम् ॥४५॥
एवमामन्त्र्य तत्सूत्रं शिवाङ्गं सर्पवेष्टितम् ।
जपेद्दशांशमासाद्य स्वीयमन्त्रं ततो जपेत् ॥४६॥
संहारस्वप्रबोधिन्या पुटितं प्रणवत्रयम् ।
सुप्तमन्त्रः समाख्यातः श्वापदः सर्वजन्तुषु ॥४७॥
एवं कृत्वा स्वयं देवो महेशाधिक एव च ।
कुले यदि स्याद्योगस्य चापल्यः स्मरलोलुपः ॥४८॥
तदा रक्षा विधातव्या न कार्या कर्हिचिद्बुधैः ।
वरांगे श्रृणु मद्वाक्यमावयोः शुभहेतुकम् ॥४९॥
एतत्कार्यं समासाद्य कर्तव्यं तव चेष्टितम् ।
एवमुक्त्वा निजं कार्यं विधाय साधकोत्तमैः ॥५०॥
प्रवर्तनं न कर्तव्यं कुलयोगं महेश्वरि ।
वीरपत्नी वीरकन्या वीरांगनवरांगना ॥५१॥
नाकृष्य साधकैः कार्यं यावत्स्यान्मनसः स्थिति ।
मनःक्षोभे तत्र जाते मूलयोगेन यत्फलम् ॥५२॥
तत्फलं जायते देवि सत्यं सत्यं न चान्यथा ।
वीरपत्नी तु परमा स्वयमेव महेश्वरी ॥५३॥
सा स्मृता कुलविद्यानामद्या चैव पुरातनी ।
तद्वधूः परमेशानि सर्वमन्त्रप्रबोधिनी ॥५४॥
न्यायतोsन्यायतो वापि गुरुपत्नी गुरुर्यदि ।
वीक्षणादेव देवेशि सर्वार्थसाधको भवेत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥५५॥
इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे लतारूपकथनं नाम पञ्चत्रिंशतिः पटलः ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP