रत्नदत्ताख्यायिका
षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
प्रथमो गुच्छः ।
भ्रूलेखाधनुरानतं विचलितो लीलाकटाक्षः शरो
हासस्तत्सितपुङ्खपक्षरचना मौर्वी च पक्षच्छविः ।
क्रेंकारः कलपञ्चमाश्रयिवचो यस्येत्थमासूत्र्यते
जैवं तन्त्रमनारतं युवतिभिः कामाय तस्मै नमः ॥१॥
सूर्यप्रभकथां श्रुत्वा वत्सराजः प्रियासखः ।
पुत्रप्रभावं कलयन्बभूवानन्दनिर्भरः ॥२॥
अत्रान्तरे स्मरं ज्ञात्वा नरवाहनरूपिणम् ।
अवतीर्णं वराच्छंभोर्भुवं रतिरवातरत् ॥३॥
दयितानुव्रता साथ तपसा पार्वतीवरात् ।
कान्ता यत्र यथा जाता तदिदानीमिहोच्यते ॥४॥
अस्ति संतोषजननी निर्विकारसुखस्थितिः ।
वितस्ता मोक्षवीथीव सिद्धसेव्या महानदी ॥५॥
आस्तुषारनिकरस्मरशीकरमारुतैः ।
पुंसां ( भवन्मरुभ्द्रान्ति )तपापाये च का कथा ॥६॥
तस्यास्तक्षशिला नाम तीरेऽस्ति रुचिरा पुरी ।
यात्सौधकान्तिभिर्व्योम्नि जायते दिनकौमुदी ॥७॥
तस्यां कलिङ्गदत्तोऽभूद्भूपालो धर्मभूषणः ।
त्रिजगव्द्यापिनी यस्य पुण्या कीर्तिसरस्वती ॥८॥
शशिप्र्रभापराभिख्यः स विहारशतैर्भुवम् ।
लोकनाथः प्रविदधे परामिव सुखावतीम् (?) ॥९॥
करुणापूर्णहृदयो नानायुक्तिनिदर्शनैः ।
संदेशनाभिश्च जनं व्यधात्सुगतभाजनम् ॥१०॥
वितस्तादत्ततनयस्तस्य राज्ञः पुरे वणिक् ।
बभूव रत्नदत्ताख्यो विमुखो जिनशासने ॥११॥
भिक्षुभ्यः प्रणतं नित्यं दातारं पितरं युवा ।
सोऽवदद्वेदवाक्यानां धिक्त्वां निपतितं वशे ॥१२॥
जात्याचारविहीनानां दम्भमीलितचक्षुषाम् ।
भिक्षूणां धूर्तधुर्याणां धीमान्को नाम विश्वसेत् ॥१३॥
इति पुत्रवचः श्रुत्वा दुःखितो नृपतिं ययौ ।
सन्मार्गे मत्सुतं देव स्थापयेत्यब्रवीद्वचः ॥१४॥
नृपोऽप्याहूय तत्पुत्रं स प्रत्यक्षनिदर्शनैः ।
लोकलोकोत्तरान्धर्मानुपदेष्टुं प्रचक्रमे ॥१५॥
तदादेशश्रुतिपरो न बभूव वणिक्ततः ।
भ्रूभङ्गभीषणक्रोधस्तमुवाच महीपतिः ।
अयं नराधमः क्षिप्रं हन्यतां हन्यतामिति ॥१६॥
ततः स भ्रान्तहृदयो वेपमानः कृताञ्जलिः ।
भीतः प्रसादयामास जनकस्तस्य भूपतिम् ॥१७॥
तद्वाक्यान्नृपतिस्तस्य चक्रे मासद्वयावधिम् ।
वधे तद्वासरारम्भमुहूर्तगणनायुषः ॥१८॥
भयाद्विगतनिद्रोऽथ विवर्णो निःसुखः कृशः ।
मरणं प्रत्यहं द्य्ह्यायन्सोऽकम्पत वणिक्सुतः ॥१९॥
कङ्काल इव निर्मासः सोऽस्थिशेषतया नरः ।
जाते मासद्वये मेने कृतान्तं शिरसि स्थितम् ॥२०॥
ततो राज्ञा समाहूतो वधायावधिवासरे ।
दृष्टश्चिन्ताज्वरग्रस्तः स भीतो वणिजः सुतः ॥२१॥
तमाह राजा चकितं कृशोऽसि बत निष्प्रभः ।
दृश्यसे स्नायुशेषाङ्गो ध्यायन्मरणजं भयम् ॥२२॥
मासद्वयावधेर्भीतो मूर्ख किं परितप्यसे ।
मरणस्यावधिर्नास्ति मुहूर्तमपि देहिनाम् ॥२३॥
एवंविधं भयं नॄणां सर्वदैवोपपद्यत ।
को हि निद्रां समायाति मृत्युदन्तान्तरे स्थितः ॥२४॥
ज्ञात्वेति धर्मपन्थानं श्रय दुःखैघशान्तये ।
धर्म एव प्लवः पुंसां संसारमकराकरे ॥२५॥
श्रुत्वेति वणिजा पृष्टः कथं मुक्तिरिति प्रभुः ।
प्राह लोकोत्तरं धर्मं वक्ष्यामीति नरेश्वरः ॥२६॥
ततस्तृतीयेऽह्नि पुनर्भूमिपालस्तमभ्यधात् ।
आदायोत्सवयात्रायां संपूर्णं तैलभाजनम् ॥२७॥
प्रदक्षिणीकुरु पुरीं बिन्दुमात्रमपातयन् ।
पतेद्यदि ततो बिन्दुर्हन्यसे खङ्गपाणिभिः ॥२८॥
मत्प्रदिष्टैरिति श्रुत्वा पात्रहस्तो ययौ वणिक् ।
समुद्यतासिभिर्भीमैः पात्रपातप्रहारिभिः ॥२९॥
तैलभाजनमादाय बभ्राम निखिलां पुरीम् ।
भ्रान्त्वा नृपान्तिकं प्राप भयादच्युतभाजनः ॥३०॥
हृष्टः प्रोवाच राजानं देवादेशः कृतो मया ।
न दृष्टं न श्रुतं किंचिदुत्सवेऽस्मिन्महाजने ॥३१॥
ध्यानैकाग्रेण पात्राग्रे न्यस्तं नेत्रद्वयं मया ।
निशम्येत्यवदद्राजा मोक्षवर्त्मैतदेव यत् ॥३२॥
सर्वतो विनिवृत्तस्य ध्यानैकाग्रे मनोगतः(म्) ।
इत्याग्रहेण वणिजश्चकारानुग्रहं नृपः ॥३३॥
इति रत्नदत्ताख्यायिका ॥१॥
N/A
References : N/A
Last Updated : October 11, 2017
TOP