क्षमावदानम्
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
राज्ञः कलिङ्गदत्तस्य श्रुत्वेति वचनं प्रिया ।
तारादत्ता वरानन्दमुन्निद्रवदना बभौ ॥८९॥
अथ कालेन संपूर्णदोहदाहृतिशालिनी ॥
असूत सा सुतां देवी द्यौः शशाङ्ककलामिव ॥९०॥
जातां पुत्रीं नृपः श्रुत्वा बभूव विमना इव ।
चिन्ता मूर्तिमती कन्या कस्य प्रीणाति मानसम् ॥९१॥
स चिन्तास्तिमितो गत्वा विहारं शंभुमन्दिरे ।
शुश्राव धर्मं भिक्षूणाम तत्र मोहप्रशान्तये ॥९२॥
अहिंसा परमो धर्मः संन्यासः परमं धनम् ।
कारुण्यं परमः कामो मोक्षश्च परमः क्षमा ॥९३॥
क्षमैव सर्वसत्त्वानां पुण्यपीयूषवाहिनी ।
मैत्री च सर्वभूतेषु संसारमरुवारिदः ॥९४॥
पुरा तपोवनोपान्ते राजपुत्रः प्रियासखः ।
विललासानिलालोलबालचूतलतावने ॥९५॥
रतिश्रान्त्याथ सुप्तास्ताः कुतूहलविनिश्चलाः ।
चपला राजपुत्र्यस्ता विचेरुः केलिकानने ॥९६॥
तदुपान्ते मुनिं ध्यानमीलिताक्षं विलोक्य ताः ।
तस्थुर्मत्ता विलासिन्यः कुतूहलविनिश्चलाः ॥९७॥
राजपुत्रः प्रबुद्धोऽपि प्रिया दृष्ट्वा मुनेः पुरः ।
तं जघानेर्ष्यया ग्रस्तः खङ्गेन निरवग्रहः ॥९८॥
तेनाहतोऽपि बहुशः शस्त्रेण न चुकोप सः ।
सत्यं सुहृदि शत्रौ च शमिनां सदृशा दृशः ॥९९॥
निर्दग्धुमुद्यताः पापं तं तपोवनदेवताः ।
अवारयत्कृपापूर्णः स क्षमामागतो मुनिः ॥१००॥
खङ्गप्रहारनिर्लूनगात्रोऽपि मुनिसत्तमः ।
तथैव देव्या संस्पृष्टो बभूव स्वच्छविग्रहः ॥१०१॥
इति क्षमावदानम् ॥५॥
N/A
References : N/A
Last Updated : October 11, 2017
TOP