सपत्न्याख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
सखि तूर्णं त्वया मोहात्किमात्मा प्रकटीकृतः ।
सपत्नीनां प्रयत्नो हि त्वद्विवाहविपर्यये ॥४००॥
रक्षणीयासि मे यत्नात्सपत्नीगोचरं गता ।
मायावतीनां वैरेण योषितां को हि मुच्यते ॥४०१॥
दृढवर्माभिधो राजा मृगयानिर्गतः पुरा ।
इक्षुमत्याः परिसरे हृतोऽश्वेनाविशद्वनम् ॥४०२॥
सोऽपश्यदनिलालोलशालरम्ये तपोवने ।
तत्र कन्यां समासाद्य लावत्यललिताकृतिम् ॥४०३॥
तां विलोक्य मनःसिन्धुचन्द्रिकां क्षुभितो नृपः ।
प्रणम्य तस्या जनकं मुनिं पप्रच्छ मङ्कणम् ॥४०४॥
भगवन्कस्य कन्येयमस्मिन्नपि तपोवने ।
यत्कटाक्षकृतालम्बो मुष्णाति मदनो जनम् ॥४०५॥
श्रुत्वेति भूपतेः कन्यालाभलोलुपचेतसः ।
मुनिः प्रोवाच तां तस्मै दातुमभ्युद्यतः स्वयम् ॥४०६॥
ममैवाप्सरसो वीक्ष्य मेनकां धैर्यविप्लवात् ।
सुतेयं कदलीगर्भा कदलीगर्भसंभवा ॥४०७॥
गृहाणेमां शशिमुखीं पात्रमेवासि भूपते ।
दुष्यन्त इव कण्वेन पुरा दत्तां शकुन्तलाम् ॥४०८॥
उक्त्वेति प्रददौ तस्मै स कन्यामायतेक्षणाम् ।
अप्सरःकल्पितोद्वाहां योग्यकौतुकमङ्गलाम् ॥४०९॥
भूभुजा सह तां गन्तुं प्रस्थितां शासनात्पितुः ।
ऊचुरप्सरसः स्नेहाद्दत्त्वास्यै सिद्धसर्षपान् ॥४१०॥
पुत्रि भूयाः सपत्नीषु सावधानात्मरक्षणे ।
न सहन्ते हि मानिन्यः पत्युरत्नासमागम म् ॥४११॥
खिन्ना भर्तृगृहे सुभ्रु यदा पितरमेष्यसि ।
तदा मार्गोपदेशाय तवेयं सर्षपावलीः ॥४१२॥
इत्युक्ता ताभिरगमत्सा पत्युरनपायिनी ।
उदयाभ्युत्थितस्येव रक्ता भानुमतः प्रभा ॥४१३॥
सा राजधानीमासाद्य रुचिरोद्यानभूमिषु ।
रममाणा चिरं तस्थौ प्रियप्रणयपालिता ॥४१४॥
तस्यामासक्तमालक्ष्य नृपं त्यक्ताखिलक्रियम् ।
ज्येष्ठा नरेन्द्रमहिषी बभूव भृशदुःखिता ॥४१५॥
उवाच सास्रमेकान्ते सा समाहूय भूपतेः ।
सचिवानेकसक्तोऽयं क्ष्मापतिर्वार्यतामिति ॥४१६॥
तदाकर्ण्याब्रुवन्देवीं स्वैरमालोक्य मन्त्रिणः ।
वयं प्रणयिनि प्रेमच्छेदे न स्वामिनः क्षमाः ॥४१७॥
स्त्रियोऽत्र विनियुज्यन्ते भिक्षुकी वाथ तापसी ।
मायाकुहककौटिल्यकलाकोशा हि योषितः ॥४१८॥
श्रुत्वेति लज्जितेवासौ कृत्वा तद्वचनं हृदि ।
दम्भान्न युक्तिमित्युक्त्वा तान्विसृज्य तथाकरोत् ॥४१९॥
गर्भदासं विसृज्यासौ समाहूय सुपूजिताम् ।
सपत्नीपरिहाराय योजयामास तापसीम् ॥४२०॥
गर्भपातनसंस्थानवश्याकर्षणमारणैः ।
लब्धप्रतिष्ठा तत्कार्ये सा तथेत्याह पूजिता ॥४२१॥
तत्प्रतिज्ञाय सा पश्चात्तापं भेजे निजाश्रमे ।
कुहकाः प्रभवन्त्येते कथं नृपगृहे स्थितिः ॥४२२॥
रत्नमन्त्रौषधिप्रीतसदैवज्ञपुरोहिते ।
महाराजपुरे युक्ता नश्यन्ति क्षुद्रसिद्धयः ॥४२३॥
ध्यात्वेति दुःखिता प्रायात्सुहृदं साथ नापितम् ।
यो मायाडम्बरचयैर्धौर्त्यराशिरिवोत्थितः ॥४२४॥
तस्मै निवेद्य सा सर्वं राजपत्न्या विचेष्टितम् ।
कार्येऽस्मिंस्त्वं सहायो मे तमुवाचेति तापस्सी ॥४२५॥
स तन्निशम्य मनसा प्रदध्यौ हर्षसंप्लुतः ।
अचिन्ते तमिदं तेन दिष्ट्याहं स्वयमर्थितः ॥४२६॥
दिष्ट्या पिबामः खादामो वर्णयित्वा समञ्जसम् ।
पुण्यैरुपनमन्त्येव धूर्तानां जडबुद्धयः ॥४२७॥
चिन्तयित्वेति विश्रब्धं तां स सादरमभ्यधात् ।
स्थितोऽहमत्र निःशेषमायाकल्लोलसागरः ॥४२८॥
राजपत्न्या करिष्यामि सपत्नीविनिवारणम् ।
युक्तिज्ञः साधयिष्यामि सर्वं तव मनोगतम् ।
कर्णकौतुकमव्यग्रा मद्बुद्धिविभवं श्रृणु ॥४२९॥
दुःशीलनामा भूपालः पुरा मे वल्लभां रहः ।
सदा सिषेवे तद्दुःखादभवं शुष्कविग्रहः ॥४३०॥
वमनक्षालनक्षीणं विधायाहं ततो वपुः ।
अवदं भूमिपालेन पृष्टो दौर्बल्यकारणम् ॥४३१॥
भार्या मे डाकिनी रात्रावाकृष्याङ्गानि भक्षति ।
गुदद्वारेण तेनाहं विवर्णो निष्प्रभः कृशः ॥४३२॥
सशङ्कमिति राजानं विधायाहं स्वमन्दिरे ।
अवोचं साश्रुनयनो निजजायामधोमुखः ॥४३३॥
गुदे राज्ञः समुत्पन्नं दंष्ट्रायुगलमुत्कटम् ।
क्षुरं छिनत्ति सततं तेन मे कर्मकारिणः ॥४३४॥
वृत्तिच्छेदाद्विनष्टोऽहं शस्त्रभाण्डक्षये सदा ।
इति मद्वचसा साभूद्भूरिविस्मयकौतुका ॥४३५॥
ततो रहः समेतस्य रतौ सा भूपतेर्निशि ।
गुदं पस्पर्श हस्तेन सशङ्कस्य कुतूहलात् ॥४३६॥
ततस्तां डाकिनी मत्वा स पलाय्य ययौ जवात् ।
इति युक्त्यैव दयिता मया धूर्तेन मोचिता ।
बाढं देव्याः करिष्यामि निःसपत्नीभयं मनः ॥४३७॥
उक्त्वेति तापसीं पृष्टः प्रदध्यौ नापितः क्षणम् ।
राजद्रोहे न शक्तोऽहं किंतु जीवामि वर्णनैः ॥४३८॥
विचिन्त्येत्यवदद्युक्तिं नृपस्यान्तःपुरान्तिके ।
हस्तपादशिरःखण्डान्कांश्चित्क्षिपतु पौरुषान् ॥४३९॥
विलोक्य जातशङ्कस्तां सापवादां मुनेः सुताम् ।
दृढवर्मा नृपः कोपाद्ध्रुवं त्यक्ष्यति वल्लभाम् ॥४४०॥
इति तद्वाक्यमाकर्ण्य तापसी राजमन्दिरे ।
देवीहिताय तत्सर्वं चकारालक्ष्यचारिभिः ॥४४१॥
तद्विलोक्य नृपो घोरां तां मत्वा शाकिनीं वधूम् ।
सपत्नीरचितासत्यदोषां तत्याज मूढवत् ॥४४२॥
पितुराश्रममासाद्य सर्शपादिष्टवर्त्मना ।
न्यवेदयत्स्ववृत्तान्तमात्मनः क्षितिपस्य च ॥४४३॥
विज्ञाय स हि तद्वृत्तं दिव्यधार्यङ्कणो मुनिः ।
चकाराभ्येत्य यत्नेन संजातप्रत्ययं नृपम् ॥४४४॥
इति माया सपत्नीनां दुर्लङ्घ्या नृपमानसे ।
गच्छाम्यहं त्वया सुभ्रु स्थातव्यं सावधानया ॥४४५॥
वर्तमानां परगृहे त्वामहं समुपस्थिता ।
वारिता वल्लभेनाद्या सादयिष्यामि तं पुनः ॥४४६॥
इति सपत्न्याख्यायिका ॥१५॥
N/A
References : N/A
Last Updated : October 12, 2017
TOP