राजपुत्राख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
इति विप्रगिरा राजा चिन्तां तत्याज निर्वृतः ।
कलिङ्गसेनां तनयां पश्यन्नयनचन्द्रिकाम् ॥१३७॥
सा पितुर्मन्दिरे बाला केलिलीलाविलासिनी ।
दृष्टा सौधस्थिता व्योम्ना कदाचिद्दैत्यकनका(या) ॥१३८॥
मयस्य तनया तन्वी साथ सोमप्रभाभिधा ।
कृत्वा मर्त्योचितं वेषं सख्यं चक्रे तया सह ॥१३९॥
तयोर्विश्वस्तसद्भावप्रेमप्रणयपल्लवा ।
संसिक्ता स्नेहपीयूषैर्ववृधे प्रेमवल्लरी ॥१४०॥
ततो मयसुता प्राह तां विश्वासकथान्तरे ।
राजपुत्रि सुगुप्तोऽयं संगमो मे प्रियस्त्वया ॥१४१॥
नास्मिन्राजगृहे स्थातुं शक्ता प्रकटिता त्वया ।
आशीविषगुहाघोरं राजगेहं सुदुःसहम् ॥१४२॥
नागर्यां पुष्करावत्यां गूढसेनो नृपात्मजः ।
मित्त्रं वणिक्सुतं चक्रे प्रणयेनार्थितं पुरा ॥१४३॥
संगतो राजपुत्रेण स्नेहसंमानकारिणा ।
मनसा स प्रियहितव्रतः सोऽभूद्वणिक्सुतः ॥१४४॥
राजपुत्रोऽपि जन्यर्थयात्रायां मित्त्रसंवृतः ।
उदयाद्रिरिव प्रायात्सितच्छत्त्रेन्दुमण्डलः ॥१४५॥
स व्रजन्पथि विश्रान्तः सैनिकैः सुहृदा सह ।
विवाहोत्कण्ठितो वीतनिद्रो धात्रीमभाषत ॥१४६॥
श्रुणु प्रहर्षजननीं कथामाश्चर्यशालिनीम् ।
इत्युक्त्वेवाभवत्क्षीबो भेजे निद्रां समाकुलः ॥१४७॥
धात्र्यामपि प्रसुप्तायामेक एव वणिक्सुतः ।
विनिद्रो निशि शुश्राव वाणीमाकाशयोषिताम् ॥१४८॥
अहो नु राजपुत्रेण कथिता नैव सा कथा ।
कौतुकाद्वयमायाताः सुप्तश्चैष मदाकुलः ॥१४९॥
आभाष्य कथयामीति मूर्खो यो याति मूकताम् ।
कौतुकाच्छ्रोतुमायातास्तं शपन्त्यनु देवताः ॥१५०॥
हारं वर्त्मनि संप्राप्य यदा कण्ठे करिष्यति ।
तदा तेनैव पाशेन कृतान्तमयमेष्यति ॥१५१॥
भक्षयित्वाम्रवृक्षस्य फलान्येष विनङ्क्ष्यति ।
अथ वास्योपरिगृहं क्षिप्रमेव पतिष्यतै ॥१५२॥
क्षुतशब्दशते नास्य जीवशब्दशतं न चेत् ।
कच्चिद्दास्यति तेनैव प्रयास्यत्येष पञ्चताम् ॥१५३॥
अस्य शापप्रतीकारं यः कुर्यात्पशुचेतसः ।
सोऽपि व्यसनमासाद्य संशये निपतिष्यति ॥१५४॥
श्रुत्वेति शापान्देवीभिर्वितीर्णान्सुहृदो मिथः ।
तत्प्रतीघातसंनद्धः स बभूव वणिक्सुतः ॥१५५॥
प्रभाते कृतयात्रोऽथ राजपुत्रः सहानुगः ।
यथोक्तमेव देवीभिर्हारं प्राप्य फलानि च ॥१५६॥
वणिक्पुत्रेण सहसा निषिद्धो नाग्रहीत्स तम् ।
महागृहनिपाताच्च तेनैवाभ्येत्य रक्षितः ॥१५७॥
ततः स विहितोद्वाहो नवकान्तासमागमः ।
उवास राजतनयः श्वशुरावसथे सुखम् ॥१५८॥
वणिक्पुत्रोऽपि रक्षायां तस्यासीच्छन्नविग्रहः ।
क्षुतो(सुप्तो) विनिद्रः शुश्राव क्षुतशब्दशतं निशि ॥१५९॥
जीव जीवेति शब्दानां स स्वैरं शतमभ्यधात् ।
इत्यस्य शापनिर्वाणं विदधे स सुहृद्वरः ॥१६०॥
ततः प्रभाते वि(प्र)च्छन्नो निर्गतोऽन्तःपुराद्वणिक् ।
दृष्टो राजसुतेनाशु क्रोधव्याकुलचेतसा ॥१६१॥
अयमन्तःपुरे पापच्छन्नो निशि करोति किम् ।
इत्युक्त्वा भृकुटीभ्रान्त्या दिदेशास्य वधं क्रुधा ॥१६२॥
स रजपुत्रवचसा गाढबद्धः पुरःसरैः ।
अचिन्तयदहो कष्टा नृणां राजकुले स्थितिः ॥१६३॥
व्यालाः सुखेन सेव्यन्ते वातोद्धूताश्च वह्नयः ।
नतु नित्यमदाध्माता राजानः कुटिलाशयाः ॥१६४॥
ध्यात्वेति दुःखसंतप्तो राजपुत्रमुपेत्य सः ।
हितं यया कृतं सर्वं तत्त्वमस्मै न्यवेदयत् ॥१६५॥
ततस्तत्त्वविचारेण राजपुत्रो वणिक्सुतम् ।
हितैषिणं प्रियं मित्त्रं प्रसाद्य मुदितोऽभवत् ॥१६६॥
इत्येवं राजभिः सख्यं सखि दुःखेन रक्ष्यते ।
को हि सुप्तेन सिंहेन कृतकण्ठग्रहः स्वपेत् ॥१६७॥
इति राजपुत्राख्यायिका ॥८॥
N/A
References : N/A
Last Updated : October 11, 2017
TOP