शत्रुघ्नाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
कदाचिद्गोमुखं दृष्ट्वा काचित्पौरवणिग्वधूः ।
भजस्वेत्यवदत्सख्या स च तां नाभ्यमन्यत ॥५८६॥
सा लज्जितावधूता च क्रुद्धा च विदधे मतिम् ।
प्रच्छन्ना तद्वधोपायं मधुमिश्रविषादिभिः ॥५८७॥
पाने विषप्रदां बुध्वा तां प्रदध्यौ च गोमुखः ।
अहो निसर्गमलिनं कुटिलं स्त्रीविचेष्टितम् ॥५८८॥
सोद्वेगा कलुषा रूक्षा निम्नगा इव निम्नगाः ।
अहो नु योषितो नाम कोऽपि दोषसमुच्चयः ॥५८९॥
अप्यन्विष्टा न लभ्यन्ते संत्यक्ता न त्यजन्ति च ।
वासना इव संसारमोहनैकरतां स्त्रियम् ॥५९०॥
प्रहसन्ति विषादिन्यो हृष्टाः शोचन्ति हेलया ।
रागिण्योऽपि पतिं घ्नन्ति कश्चित्तं वेत्ति योषिताम् ॥५९१॥
अथवा तथ्यमेवैतत्कथयन्ति कथाविदः ।
शत्रुघ्ननामा पुरुषो यथाभूद्ब्रलिनां वरः ॥५९२॥
गूढमन्यनरासक्तां निजजायां ददर्श सः ।
तां दृष्ट्वा तं जघानाशु कुपितः पारदारिकम् ॥५९३॥
यथानीतं शवं स्कन्धे विधाय बलगर्वितः ।
अन्धकूपे स चिक्षेप वीक्ष्यमाणो नताननः ॥५९४॥
कूपे निरीक्ष्यमाणं तं पश्चादेत्य लघु क्रमात् ।
न्यपातयन्निजवधूरिति पापाशया स्त्रियः ॥५९५॥
इति शत्रुघ्नाख्यायिका ॥२५॥
N/A
References : N/A
Last Updated : October 12, 2017
TOP