शिष्याख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
उपाध्यायो द्विजः कश्चित्कुण्डिने नगरे पुरा ।
सप्तभिः सहितः शिष्यैर्दुर्भिक्षे क्षुधितोऽभवत् ॥५५॥
गत्वा मच्छ्वशुरात्तूर्णं गामानयत पुत्रकाः ।
तत्क्षीरेणास्तु नो वृत्तिरिति शिष्यानुवाच सः ॥५६॥
शिष्यास्तदाज्ञया गत्वा गुरुश्वसु(शु)रमन्दिरम् ।
गामादाय परावृत्ताः प्राप्य गां विषमेऽध्वनि ।
निराहारा निपतिताः श्वासशेशा व्यचिन्तयन् ॥५७॥
अस्मिन्मरुतटे प्राप्तो मृत्युरस्माभिरुत्कटे ।
अस्मिद्विनाशे गौरेषा विनङ्क्ष्यति गुरुस्तथा ॥५८॥
तएदलं संविधानेन गामेतां याजिनो वयम् ।
भुक्त्वा प्राणानवाप्स्यामस्तेषु धर्मः प्रतिष्ठितः ॥५९॥
चिन्तयित्वेति बहुशो विशस्य विधिनैव गाम् ।
तद्यागशेशं भुक्त्वा ते शिष्या गुरुगृहं ययुः ॥६०॥
यथावृत्तं निवेद्यास्मै निःसङ्गाः सत्यवादिनः ।
जातिस्मरास्तद्वरात्ते शिष्याः प्रापुः परां गतिम् ॥६१॥
इति शिष्याख्यायिका ॥३॥
N/A
References : N/A
Last Updated : October 11, 2017
TOP