संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

मार्जाराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


N/Aयौगंधरस्येति वचो निशम्य जगतीपतिः ।
स्मृत्वा देव्यौ च कन्यां च तस्थौ दोलाविलोलधीः ॥४७०॥
वीक्ष्य वासवदत्तां च सङ्गं तस्याः कथं नपः ।
प्रसन्नवदनोदारमभूत्तस्य मनोरथः ॥४७१॥
ततो योगेश्वरोऽभ्येत्य मन्त्रिणो रजनीचरः ।
चारमावेदयामास समेत्यालक्षितो निशि ॥४७२॥
गोपालकेन विदितश्चारः श्वसुरवेक्षणे ।
राज्ञा कलिङ्गदत्तेन पुत्रीवृत्तान्तमाहिताः ।
गूढव्यञ्जनसंचाराश्चारा दृष्टास्तथा मया ॥४७३॥
इति रक्षोवचः श्रुत्वा प्राह यौगंधरायणः ।
कलिङ्गसेनवृत्तान्तं यत्नेन ज्ञातुमर्हसि ॥४७४॥
त्वद्बुद्धिविभवेनाहं प्रभोर्व्यसनमागतम् ।
छेत्तुमिच्छामि राज्ञां हि दुश्चिकित्स्यः स्मरानलः ॥४७५॥
त्राणं नैसर्गिकी बुद्धिर्नृणामिति किमद्भुतम् ।
तिरश्चामपि निष्पन्ना व्यसनोच्छित्तये मतिः ॥४७६॥
न्यग्रोधमूलपतितः पालितो नाम मूषकः ।
जाले लोमशमार्जारं ददर्श पतितं पुरः ॥४७७॥
बद्धे तस्मिन्गताशङ्कः स जिघ्रन्स्वयमागतः ।
भुजैर्बहिश्चरन्नाशु विलिखन्नखरैर्महीम् ॥४७८॥
ददर्श नकुलं तत्रोलूकं च विकृताननम् ।
तौ दृष्ट्वा प्राणसंदेहे मूषकः समचिन्तयत् ॥४७९॥
नकुलोलूकभीतोऽहं मार्जारं बलिनां वरम् ।
श्रयामि विषमस्थानां संधिं स्थाने हि शत्रुणा ॥४८०॥
चिन्तयन्निति तत्पाशं छेत्स्यामि बद्धसौहृदः ।
मार्जारमवदन्नीलं काचकाञ्चनलोचनम् ॥४८१॥
अमित्रो मित्रतां याति मित्रं वा यात्यमित्रताम् ।
कालेन तस्य च्छेत्स्यामि पाशं ते बद्धसौहृदः ॥४८२॥
इति श्रुत्वा समधुरं मार्जारः सुहृदं व्यधात् ।
गाढमङ्के परिष्वज्य मूषकं विपदि स्थितः ॥४८३॥
तं दृष्ट्वा नकुलोलूकौ निराशावाखुभक्षणे ।
बभूवतुर्मन्दमुखौ तदुपाश्रयशङ्कितौ ॥४८४॥
ततः शनैः शनैराखुश्चिच्छेद स्नायुबन्धनम् ।
तूर्णमित्याह मार्जार विलावं चिरकारणम् ॥४८५॥
स्वार्थमुद्दिश्य लम्बन्ते स वा भक्तिभिरीश्वरम् ।
धूर्तस्तत्कार्यशेषेण यापयेत्कार्यकारणात् ॥४८६॥
इति ध्यात्वा धियैवाखुर्लुब्धकागमनावधि ।
एकपाशांशशेषं तं चकार नयकोविदः ॥४८७॥
कालाकारकरालेऽथ संप्राप्ते पाशजीविनि ।
चकर्त पाशशेषं तं छित्वैव बिलमाविशत् ॥४८८॥
भयान्मुक्तोऽथ मार्जारः कालेनाभ्येत्य मूषकम् ।
बिलद्वारस्थितः प्राह सखे निर्गम्यतामिति ॥४८९॥
तीक्ष्णवक्त्रोच्चदशनस्मश्रुसूचीनिभाननम्म ।
कक्षासंवृत्तलाङ्गूलं जिघ्रन्तं बिलसौरभम् ॥४९०॥
उच्चैकपादनिभृतं भीलितार्धविलोचनम् ।
पार्श्वावलोकिनं दृष्ट्वा मार्जारं मूषकोऽवदत् ॥४९१॥
सौहार्देनोपयुक्तः प्राक्तव चाहं भवांश्च मे ।
गम्यतां स गतः कालो न भूमिर्वञ्चनास्वहम् ॥४९२॥
यद्भवान्मधुरं वक्ति मह्यं तन्नाद्य रोचते ।
यातस्ते कार्यकालोऽसावधुना नास्ति संगतिः ॥४९३॥
निजप्रयोजनापेक्शापेशलप्रेमभाषिणाम् ।
दुर्लुब्धक्रूरमनसां धीमान्को नाम विश्वसेत् ॥४९४॥
कृतज्ञ भवे मे मित्रं दूरादेवार्यचेतसाम् ।
न सङ्गोऽस्ति विरुद्धो हि भोग्यभोक्तुः समागमः ॥४९५॥
निरस्य बहुभिर्वाक्यैर्मार्जारमिति मूषकः ।
बिलं तत्याज कालेन धूर्तं शत्रुं विलोक्य तम् ॥४९६॥
इति मार्जाराख्यायिका ॥१७॥

N/A

References : N/A
Last Updated : October 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP