संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

विप्रचण्डालाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


एवं स सर्वजनतातारणेऽभूत्कृतोद्यमः ।
तारादत्ताभिधानास्य बभूव नृपतेः प्रिया ।
क्षमेवोत्तमसत्त्वस्य करुणेवार्द्रचेतसः ॥३४॥
अत्रान्तरे सुरेन्द्रेण यात्रायां विबुधाङ्गना ।
शप्ता सुरभिदत्ताख्या विद्याधररता दिवि ॥३५॥
सा शक्रशापपतिता जनने गर्भमाविशत् ।
राज्ञः कलिङ्गदत्तस्य जायायाः स्वप्नसूचिता ॥३६॥
दोहदापाण्डुरमुखी रजनीवेन्दुमण्डिता ।
तारादत्ताभवत्प्रेत्यै नितरामथ भूपतेः ॥३७॥
ततः सा रत्नदीपस्य शिखयेवान्तराश्रिता ।
ददर्श राज्ञी निखिलां प्राग्जन्मस्थितिमात्मनः ॥३८॥
जातिस्मरा नृपं प्राह पुरा मे जननी विभो ।
नागलक्ष्मीः प्रियं प्राह धर्मदत्तं महीपतिम् ॥३९॥
अन्यस्मिञ्जन्मनि विभो कुम्भदासी वणिग्गृहे ।
अभवं देवदासश्च भर्ताभून्मम मद्विधः ॥४०॥
तदावां सर्वदुर्भिक्षे परपिण्डोपजीविनौ ।
याचितावर्थिनाब्येत्य क्षुत्क्षामेन द्विजन्मना ।
दत्त्वा स्वमशनं तस्मै तच्छेषकृतभोजनौ ॥४१॥
तदा मम पतिः शोकान्निधनं समवाप्तवान् ।
तस्यानुमरणादस्मि जाता जातिस्मरा विभो ॥४२॥
इति कोशलभूपालः श्रुत्वा जायावचो रहः ।
देवदासोऽहमेवेति जातिं सोऽप्यस्मरन्निजाम् ॥४३॥
जातिं स्मृत्वा तयोर्दिव्यं धाम धर्म्यं प्रपन्नयोः ।
पितृभ्यामथ हीनाहं मातुः स्वस्रा विवर्धिता ॥४४॥
कन्ययैव ततः कश्चिन्मुनिरभ्यागतो मया ।
आराधितः पुरा कुन्त्या पार्थजन्मभुवा यथा ॥४५॥
तद्वरात्त्वां वरं देव लोकनाथशिरःस्थितम् ।
अभितानमवाप्याहं प्राप्ता सीमन्तिनीपदम् ॥४६॥
इत्याकर्ण्य नृपः प्राह देवीं सत्त्ववतां मतिः ।
अमोघामृतसूः कामधेनुरन्येशु जन्मसु ॥४७॥
त्वत्पिता सुगतिं प्राप्तः सत्त्वादेव प्रियासखः ।
सत्त्वप्रकाशाएद्वसतिः सतां हि दिवि शाश्वती ॥४८॥
गङ्गाकूले पुरा विप्रश्चण्डालश्च जलार्थिनौ ।
चक्राते त्यक्तुमात्मानं निषेव्यानशनव्रतम् ॥४९॥
नियमस्थौ ददृशतुस्तौ निषादजनं ततः ।
प्रत्यग्रदृष्टमत्स्यौघभोजनव्यग्रमग्रतः ॥५०॥
द्विजस्तान्वीक्ष्य मत्स्यादांल्लौल्यादन्नोदकाकुलः ।
तस्थावनशनक्षामो निगिरन्निव सस्पृहम् ॥५१॥
चण्डालोऽपि विलोक्यैव कुत्सयन्मत्स्यघातकान् ।
पुष्णाति प्राणिभिः प्राणान्धिगेतानित्यचिन्तयत् ॥५२॥
चिन्तयित्वेति तौ यातौ त्रिदिवं तीर्थसेवया ।
जन्मान्तरे क्षेत्रफलाज्जातिस्मरपदं श्रीतौ ॥५३॥
पर्यन्तभावसदृशं प्रापतुश्च कुलं पृथक् ।
द्विजोऽभूद्धीवरसुतश्चण्डालश्च द्विजात्मजः ।
शुद्ध्यशुद्धी हि चित्तस्य जन्तूनां सुखदुष्कृतेः ॥५४॥
इति विप्रचण्डालाख्यायिका ॥२॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP