प्रथम खण्डः - अष्टमोऽध्यायः
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
॥वज्र उवाच ॥
भगवन्भारतं वर्षं श्रोतुमिच्छामि तत्त्वतः ॥
कर्मभूमिषु मर्त्यानां वर्षं भार्गव भारतम् ॥१॥
मार्कण्डेय उवाच ॥
भारतस्यास्य वर्षस्य नव भेदाः प्रकीर्तिताः ॥
अष्टभिर्गिरिभिश्छन्ना येत्वगम्याः परस्परम् ॥२॥
हिमाचलादासमुद्रं गिरयस्ते व्यवस्थिताः ॥
याम्योत्तरेण राजेन्द्र नामतस्तान्निबोध मे ॥३॥
स्वमाली हेममाली च शम्भुः कार्तस्वराकरः ॥
वैडूर्यपर्वतश्चैव राजतो मणिमान्भवः ॥४॥
इन्द्रद्युम्नः कदेतश्च ताम्रवर्णो गभस्तिमान् ॥
रागद्वेषस्तथैवान्यो गान्धर्वस्त्वथ वारुणः ॥५॥
तेषां तु नवमो मध्ये द्वीपो नाम्ना तु मध्यमः ॥
अस्मिन्मन्वन्तरे क्षिप्तः सागरैश्च चतुर्दिशम् ॥६॥
वैडूर्यपर्वतः पूर्वमुत्तरेण हिमाचलात् ॥
पश्चार्धे काञ्चनगिरेरुदगेव च लावणात् ॥७॥
वेष्टितः सागरः सर्वो नानासत्त्वाश्रयो नृप । ॥
हिमालयः सागरैस्तु कृतो देशद्वयस्तथा ॥८॥
लवणस्योत्तरे पार्श्वे सागरस्य च दक्षिणे ॥
पुरी लंका सन्निविष्टा यस्यां वै रावणो हतः ॥९॥
लवणेन च संपृक्तः समुद्रो लवणो यतः ॥
हिमाचलस्य यो भागो वर्षेऽस्मिन्नृप भारते ॥१०॥
तत्रास्ति शैलप्रवरो द्वितीयो गन्धमादनः ॥
श्वेतश्च पर्वतश्रेष्ठो मन्दरश्च महागिरिः ॥११॥
एते शैलवरा दृष्टा पाण्डवैश्च महात्मभिः ॥
हिमाचलस्य मध्ये तु कैलासो नाम पर्वतः॥१२॥
हिमवत्येव विख्यातो नरनारायणाश्रमः॥
यत्र सा बदरी रम्या नानाशकुनिसेविता ॥१३॥
उष्णतोयवहा गङ्गा श्वेततोयवहा परा ॥
सुवर्णसिकता राजंस्तापसैरुपशोभिता ॥१४॥
इत्येते कथिता द्वीपाः प्राधान्येन तवानघ ॥
एतेषामंतरे द्वीपाः शतशोथ सहस्रशः ॥१५॥
न ते वर्णयितुं शक्या वर्षाणां तु शतैरपि ॥
विवर्जयित्वा भरतस्य वर्षं वर्षेषु सर्वेषु नरेंद्रसिंह ॥
निरामया वीतभया मनुष्या वर्षेषु सर्वेषु तथैव चोक्ताः ॥१६॥
आयुःप्रमाणं लभते हि राजन्द्वीपेषु सर्वेषु नरो मयोक्तम् ॥
कृत्वा शुभं कर्म तु भारतेऽस्मिन्द्वीपेषु सर्वेषु नराः प्रयान्ति ॥१७॥
वृक्षेषु तेषां प्रभवन्ति कामाः स्त्रियश्च तेषामपि रूपवत्यः ॥
दण्डश्च तेषां च न दाण्डिकोऽस्ति सन्मार्गगास्तेऽपि तथा च राजन् ॥१८॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भारतवर्षवर्णनं नामाऽष्टमोऽध्यायः ॥८॥
N/A
References : N/A
Last Updated : July 22, 2018
TOP