खण्डः १ - अध्यायः ०७९
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
वज्र उवाच ॥
कस्त्वसौ बालवेषेण कल्पान्तेषु पुनःपुनः॥
दृष्टोऽपि न त्वया ज्ञातस्तत्र कौतूहलं महत् ॥१॥
मार्कण्डेय उवाच॥
भूयोभूयस्त्वसौ दृष्टो मया देवो जगत्पतिः॥
कल्पक्षये न विज्ञातस्तन्मायामोहितेन वै ॥२॥
कल्पक्षये व्यतीते तु तं तु देवं पितामहात्॥
अनिरुद्धं विजानामि पितरं ते जगत्पतिम् ॥३॥
वज्र उवाच॥
ज्ञातवानसि तं देवं कथं देवात्पितामहात्॥
दुर्विज्ञेयं जगद्योनिं सर्वभूतभवोद्भवम् ॥४॥
मार्कण्डेय उवाच॥
मायया मोहितस्तस्य बालस्यामिततेजसः॥
दृष्ट्वोदरे जगत्कृत्स्नं विस्मयाविष्टचेतनः ॥९॥
गत्वाहं ब्रह्मसदनं पृष्टवाँस्तं पितामहम्॥
एकार्णवे मया लोके देवदेवे जगत्पतौ ॥६॥
दृष्टो बालो महातेजास्तस्याहमवशस्ततः॥
प्रविष्टो जठरे तस्य देव सर्वं चराचरम् ॥७॥
मया दृष्टं जगत्सर्वं न च जानामि बालकम्॥
ध्रुवं तं भगवान्वेत्ति सर्वज्ञत्वाज्जगद्गुरुः ॥८॥
एवं पृष्टो मया ब्रह्मा मामुवाच जगद्गुरुः॥
मार्कण्डेय विजानामि ह्यनिरुद्धं जगद्गुरुम् ॥९॥
त्वं च तं वेत्थ तत्त्वेन न च कल्पक्षये मुने॥
त्वया दृष्टं यथा तस्य जठरे भुवनं मुने ॥१०॥
तथा दृष्टं मया तस्य जगद्योनेर्महात्मनः॥
मदीयस्य दिनस्यान्ते कदाचिद्भृगुनन्दन ॥११॥
एकार्णवे तदा लोके नष्टे स्थावरजङ्गमे॥
नागपर्यङ्कशयने पश्यामि पुरुषं तदा ॥१२॥
तस्मिन्काले न जानामि तमहं तेन मोहितः॥
ततः पृच्छामि तं देवं को भवानिति विस्मितः ॥१३ ।॥
स मामुवाच प्रहसन्ममेदं सकलं जगत्॥
न तु मां वेत्सि तत्त्वेन जगतामीश्वरेश्वरम् ॥१४॥
मयाप्युक्तः स देवेशो ममेदं सकलं जगत् ॥
वृथा प्रलयमध्ये ते मत्समीपे विशेषतः ॥१५॥
विप्रत्ययश्च यदि ते प्रविश्य जठरं मम॥
त्रैलोक्यमखिलं पश्य संहृतं यन्मया स्वयम् ॥१६॥
एवमुक्तस्स तु मया तदा केनापि हेतुना॥
प्रविश्य जठरं मे स क्षणमात्राद्विनिर्गतः ॥१७॥
निर्गम्य मामब्रवीच्च दृष्टं त्रिभुवनं मया॥
तवोदरे जगन्नाथ त्वं च पश्य ममोदरे ॥१८॥
एवमुक्त्वा स सुष्वाप भोगिभोगासने तदा॥
अहमप्यवशस्तस्य प्रविष्टो जठरं तदा ॥१९॥
पश्यामि जगतीं ब्रह्मन्सशैलवनकाननाम्॥
ससमुद्रसरिद्द्वीपलोकपातालभूषिताम् ॥२०॥
दृष्ट्वाहं पृथिवीं तस्य तथा जठरसंस्थिताम्॥
निर्गमिष्यन्न पश्यामि शरीरं तस्य भार्गव ॥२१ ।॥
अन्तरिक्षं प्रपश्यामि निरालम्बं परिभ्रमन्॥
परिभ्रमणखिन्नोऽस्मि तमेव शरणं गतः ॥२२॥
ततस्तु तस्य पश्यामि रन्ध्रहीनं तु विग्रहम्॥
तस्य देहाद्विनिर्गन्तुं शक्तिनासीत्तथा च मे ॥२३॥
रन्ध्रहीनान्महाभाग तमेव शरणं गतः॥
ततोऽहं गतवान्ब्रह्मन्रंन्ध्रं प्राप्तं मयानघ ॥२४॥
बालाग्रादपि सूक्ष्मं तत्ततोऽहं तेन निर्गतः॥
पद्मनालेन निष्क्रान्तं पश्याम्यात्मानमात्मना ॥२९॥
नाभिसरसि तत्पद्मं जातं देवस्य शार्ङ्गिणः॥
शेषरत्नार्कशैवालि विकासितदलं महत् ॥२६॥
ततोऽहं पद्मजन्मेति लोके ख्यातिमुपागतः॥||
नाभिजातं च यत्पद्मं तस्य देवस्य भार्गव ॥२७॥
तन्महामण्डलं कृत्स्नं मेरुस्तस्य च कर्णिका॥
तत्राहं तस्य संभूतो देवदेवस्य चक्रिणः ॥२८॥
देवस्स विष्णुर्जगतामधीशः सर्वेश्वरः सर्वजगत्प्रधानः॥
यॊ बालरूपी भवतान्तकाले दृष्टोऽस्य सर्वस्य चराचरस्य ॥२९॥
एवं हि तस्योदरसंस्थितेन मयोषितं जातकुतूहलेन॥
तस्यैव मायापरिमोहितेन कल्पान्तकालेषु सदा नरेन्द्र ॥३०॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० पद्मनाभोपाख्यानो नामैकोनाशीतितमोऽध्यायः ॥७९ ।॥
N/A
References : N/A
Last Updated : December 02, 2022
TOP