संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
द्विचत्वारिंशत्तमोऽध्यायः

प्रथम खण्डः - द्विचत्वारिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥राहुरुवाच  ॥
बभूव नारी कल्याणी स देवो मधुसूदनः ॥
अनिर्देश्यवयोरूपा सर्वलक्षणपूजिता ॥१॥
समांगुलितलौ श्लक्ष्णौ रक्ततुंगनखा शुभौ ॥
विभृते चरणौ शुभ्रौ गूढगुल्फो मनोहरौ ॥२॥
जंघे मनोहरे शुभ्रे स्पष्टे लोमविवर्जिते ॥
गृहसंध्यस्थिके श्लक्ष्णे जानुनी च तथा शुभे ॥३॥
ऊरू करिकराकारौ कदलीदलकोमलौ ॥
घनमाभोगि जघनं मध्यं कुलिशसन्निभम् ॥४॥
त्रिवलीत्रिपथाधारिनाभीपुष्करमंडितम् ॥
गूढस्फिके समे पार्श्वे समं पृष्ठं मनोरमम् ॥५॥
समौ सुसंहतौ पीनौ कोमलावग्रचूचुकौ ॥
आभोगिनौ मण्डलिनौ स्तनौ कनकसन्निभौ ॥६॥
मृणालसदृशौ बाहू करौ कोमलकोमलौ ॥
कम्बुतुल्यं शुभं कण्ठं चोन्नता च कृकाटिका ॥७॥
मुखं पूर्णेन्दुसंकाशं द्विजाः कुन्दसमप्रभाः ॥
अधरौ विद्रुमाकारौ नासा स्पष्टमनोरमा ॥८॥
मधूकपुष्पसंकाशौ कपोलौ ललितावुभौ ॥
भ्रूयुग्मं कामचापान्तसदृशं सुमनोहरम् ॥९॥
नातिप्रलम्बौ श्रवणौ नात्यचारू च कुण्डलौ ॥
चिबुकं च मनोहारि ललाटं शशिसुप्रभम् ॥१०॥
कृष्णमध्ये सुरक्तान्ते नयने श्वेतभूमिके ॥
नीलोत्पलदलाकारे दीर्घे चाऽतिमनोरमे ॥११॥
कोकिलाऽलिकुलाकारं भिन्नाञ्जनचयप्रभम् ॥
केशपाशं तथा किंचिद्दधार कुटिलं शुभम् ॥१२॥
चन्द्ररश्मिप्रकाशेन वस्त्रयुग्मेन भूषिता ॥१३॥
रूपेणाप्रतिमा राजन्सर्वालंकारभूषिता ॥
यत्रयत्र पदन्यासं करोति गजगामिनी ॥१४॥
तत्र तत्रैव वसुधा सपद्मेवोपलक्ष्यते ॥
यत्रयत्राऽतिमधुरां दृष्टिं क्षिपति भामिनि ॥१५॥
सितासितोत्पलैस्तत्र किरतीव वसुंधराम् ॥
यत्रयत्र स्थिता भाति देशे कनकवर्णिनी ॥१६॥
तत्र तत्रैव सौवर्णं सा करोति नभस्तलम् ॥
तां दृष्ट्वा चारुसर्वांगी मन्मथाविष्टचेतसः ॥१७॥
प्रह्लादरहिताः सर्वे बभूवुर्दानवास्तदा ॥
पादयोः पृथिवीं तस्या धृतिं देवीं च जङ्घयोः ॥१८॥
जानुभ्यां च तथा क्षान्तिं कान्तिमूरुयुगे शुभे ॥
आयतिं नियतिं लक्ष्मीं वेलां तु जघने तथा ॥१९॥
मध्ये वाहां सतीं पृष्ठे पार्श्वयोश्च सुधां मुखे ॥
रतिं प्रीतिं कुचयुगे कण्ठे वाणीं तथैव च ॥२०॥
जयां च विजयां चैव करयोर्भुजयोस्तथा ॥
शोभां प्रभां वक्षसि च श्रियं देवीं मनोरमाम् ॥२१॥
अरुन्धतीं च चिबुके जिह्वायां च सरस्वतीम् ॥
ज्योत्स्नां कपोलयोर्देवीं निद्रां नेत्रयुगे तथा ॥२२॥
केशपाशे तथा रात्रिं दिशं श्रोत्रयुगे तथा ॥
भद्रकालीं ललाटे च नासायां च तथा शचीम् ॥२३॥
सर्वाङ्गसन्धिगा नद्यो लोमस्वथ वनस्पतिम् ॥
पार्श्वयोः पर्वताश्चैव दैत्येशः सर्वदेवताः ॥२४॥
दृष्टवान्स्त्रीतनुं तत्र प्रह्लादोऽरिकुलान्तकः ॥
विश्वरूपधरां दृष्ट्वा प्रह्लादस्ताश्च योषितम् ॥२५॥
विष्णुं मत्वा विशालाक्षीं ज्ञात्वा चैवाऽमृतार्थिनीम् ॥
कामार्त्तदैत्यानुमतः प्रह्लादो दैत्यसत्तम ॥२६॥
प्रददावमृतं तस्यै प्रणिपत्य प्रसाद्य च ॥
स्त्रीरूपमास्थितैदेवैस्त्रैलोक्यं सचराचरम् ॥२७॥
स्त्रीचेष्टमभवत्सर्वं तस्मिन्काल उपस्थिते ॥
उवाच सा स्त्री प्रह्रादं दैत्य त्वममृतं विना ॥२८॥
ब्राह्ममेकमह सौम्य जीवितान्न विमोक्ष्यसे ॥
योद्धुमभ्युदिता दैत्यदेवैर्दितिजकारणात् ॥२९॥
न प्रबोध्यास्तमोयुक्तास्त्वया दैत्य जनार्दना ॥
भक्तोसि मे सदा वत्स सदैव विजितेन्द्रियः ॥३०॥
तेन ते दर्शिता सौम्य प्रकृतिर्या परा मम ॥
इत्येवमुक्त्वा प्रह्लादं सोममादाय सत्वरा ॥३१॥
कामार्त्तान्दितिजाँस्त्यक्त्वा जगाम सुरमन्दिरम् ॥
स्त्रीरूपं तत्र संत्यज्य देवरूपमुपाश्रितः ॥३२॥
पाययामास तत्सर्वं सुरान्सर्वान्समाहितान् ॥
मयाऽपि मध्ये देवानां पीतं तत्सूर्यरूपिणा ॥३३॥
आदित्यरूपे दैत्योऽयं ज्ञातोऽहं शशिभास्करैः ॥
निवेदितश्च देवाय तेनाऽपि लघुकारिणा ॥३४॥
चक्रेण पातितं वत्स सभुजं मस्तकं मम ॥
अमृतप्राशनात्प्राणैर्न वियुक्तोऽस्मि दानव ॥३५॥
न मे कण्ठादधोभागमागतं मम चक्रिणा ॥
शिरच्छिन्नं महाराज तत्र प्राणास्ततः स्थिताः ॥३६॥
शिरसश्छेदनाद्दीनं मां दृष्ट्वा मधुसूदनः ॥
जातानुकम्पो भगवानिदं वचनमब्रवीत् ॥३७॥
पीतामृतस्य दैत्यस्य मरणं नाऽस्ति कर्हिचित् ॥
मम हस्तविनष्टानां गतिर्भवति शोभना ॥३८॥
अमरत्वं त्वमासाद्य वरं वरय कांक्षितम् ॥
ततो मयोक्तो भगवान्प्रणम्य मधुसूदनः ॥३९॥
लभेयातां हि सोमार्कौ मत्तो देव पराभवम् ॥
पूजाञ्च प्रार्थये लोकाद्ग्रहत्वञ्च जनार्दन ॥४०॥
एवमुक्तः स भगवान्मामुवाच तदा हरिः ॥
ग्रहत्वं भविता दैत्य पूजां चैवोपलप्स्यसे ॥४१॥
पर्वकाले च संप्राप्ते चन्द्रार्कौ छादयिष्यति ॥४२॥
तमो मूर्त्तिरदृश्यश्च विपरीतं चरिष्यसि॥
भूमिच्छायागतश्चन्द्रं चन्द्रगोऽर्कं च दानवः ॥४३॥
यस्योदयिष्यसि यदा तदा भागमवाप्स्यसि ॥
स्नाने जाप्ये तथा होमे दाने श्राद्धे सुरार्चने ॥४४॥
पुण्यः स कालो भविता नित्यमेवाऽसुरेश्वर ॥
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥४५॥
पीत शेषमथादाय सौमं सुरगणेश्वरः ॥
सुरलोके सन्निहितं चकार बलवृत्रहा ॥४६॥
मच्छीर्षपाताभिविवृद्धकोपा हृताऽमृता दैत्यगणाः समस्ताः ॥
व्यर्थभ्रमा देवगणान्निहन्तुं सन्नद्धसैन्याः प्रययुस्तदानीम् ॥४७॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽमृतविभागो नाम द्विचत्वारिंशत्तमो ऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP