संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अष्टात्रिंशत्तमोऽध्यायः

प्रथम खण्डः - अष्टात्रिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच  ॥
रत्नचित्रां सुविपुलां समासाद्य सभां तदा ॥
सिंहिकातनयः साल्वः शुक्रं वचनमब्रवीत् ॥१॥
साल्व उवाच ॥
दृश्यन्त एते भगवन्नुत्पाता घोरदर्शनाः ॥
आचक्षाणा महायुद्धं विनाशमपि दारुणम् ॥२॥
रिपुं न चैव पश्यामो येन युद्धं भविष्यति ॥
सर्वज्ञत्वाद्भवान्वेत्ति तन्नः प्रब्रूहि पृच्छताम् ॥३॥
शुक्र उवाच ॥
आराध्य देवं ब्रह्माणं तपसा सिंहिका पुरा ॥
त्रिदशेभ्यो ह्यवध्यत्वं स्वसुतानामलब्ध सा ॥४॥
वरदानकृतोत्साहैर्भवद्भिर्विद्यया मम ॥
निर्जितास्त्रिदशाः सर्वे शंकरं शरणं गताः ॥५॥
तेन युष्मद्वधार्थाय विष्णुर्मानुषरूपधृक् ॥
जमदग्निसुतो रामः प्रेषितो रणकर्कशः ॥६॥
सदा देवो महातेजा मानुषं स तु साम्प्रतम् ॥
मनुष्याच्च भयं घोरं युद्ध्यस्वाऽसुरसत्तम ॥७॥
साल्व उवाच ॥
भगवन्सर्वदेवानामीश्वरो मधुसूदनः ॥
तस्मात्परतरं देवं नाऽन्यं कञ्चन शुश्रुम ॥८॥
किमर्थं स महातेजाः शंकरस्य महात्मनः ॥
आज्ञाकारी भृगुश्रेष्ठ सैंहिकेयं जिघांसति ॥९॥
शुक्र उवाच ॥
यदा यदा हि धर्मस्य ग्लानिर्भवति दानव ॥
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजत्यसौ ॥१०॥
कदाचिद्दैत्यदेवेषु कदाचिन्मनुजेषु च ॥
कदाचिदथ तिर्यक्षु ज्ञात्वा कार्यबलाबलम् ॥११॥
यदा भवति देवेषु देववच्चेष्टते तदा ॥
तिर्यक्षु च यदा देवस्तिर्यग्वच्चेष्टते तदा ॥
यदा भवति मानुष्ये तदा भवति मर्त्यवत् ॥
मानुष्यं रूपमासाद्य तपसा त्रिपुरान्तकम् ॥१३॥
आराधयामास हरं स्वदेहे परमं नृप ॥
स तु देववरस्याज्ञां पुरस्कृत्य महातपाः ॥१४॥
युष्मद्वधार्थमायाति रामेण कृतलक्षणः ॥
तस्माच्छक्रेण संधानं भवतो मम रोचते ॥१५॥
त्रिविष्टपञ्च देवानां भवत्वसुरसत्तम ॥
पातालनिलया यूयं निवसध्वं गतज्वराः ॥१६॥
अहं निवारयिष्यामि शंकरेण च भार्गवम् ॥
अन्यथा निविशध्वं च मनुष्येण निराकृताः ॥१७॥
मार्कण्डेय उवाच ॥
एवमुक्तास्तु शुक्रेण बुद्ध्वा दैतेयदानवाः ॥
ऊचुर्वाक्यं सुसंरब्धाः शुक्रं भृगुकुलोद्वहम् ॥१८॥
दैत्या ऊचुः ॥एकत्राऽधिष्ठितं सर्वं जगत्स्थावरजंगमम् ॥
यद्यस्मात्प्रतियुध्येत न भीस्तत्राऽपि विद्यते ॥१९॥
ते कथं मानुषाद्भीता नाकं त्यक्ष्याम शत्रवे ॥
शंकरं तं विजेष्यामो येनाऽसौ प्रेषितो द्विजः ॥२०॥
शुक्र उवाच ॥
एकत्र पिंडितं सर्वं जगत्स्थावरजंगमम् ॥
एकत्र भगवान्विष्णुर्जगतः सोऽतिरिच्यते ॥२१॥
स न शक्यो युधा जेतुं नैव देवो महेश्वरः ॥
ते यूयं प्राकृतीं बुद्धिं त्यक्त्वा सर्वे महासुराः ॥
संधिं कुरुत देवेन शक्रेणाऽमित्रघातिना ॥२२॥
शक्रकार्ये सदोद्युक्तो देवदेवो जनार्दनः ॥
येन दैत्या विनिहताः पूर्वे पूर्वतराश्च ये ॥२३॥
शंबरो नमुचिः शम्बुः कार्तवीर्यः कृतागमः ॥
हिरण्यकशिपुः केशी हिरण्याक्षो मदोत्कटः ॥२४॥
मधुश्च कैटभश्चैव विटो धूमोऽतिऽकोपनः ॥
हयग्रीवो निसुन्दश्च सुन्दश्चन्द्रार्कलोचनः ॥२५॥
चन्द्रार्कमर्दनश्चैव चन्द्रहर्ता रणप्रियः ॥
सूर्यशत्रुर्जितामित्रो यज्ञहा यज्ञतापनः ॥२६॥
मेघनादो महारोमा मेघवादो भयानकः ॥
दशग्रीवः शतग्रीवो महाग्रीवश्च दानवः ॥२७॥
कालकः कालकेयश्च कालनेमि सुलोचनः ॥
कालश्च कालकल्पश्च मकराक्षो जनान्तकः ॥२८॥
अन्तः केशमनो भीमो देवान्तकनरान्तकौ ॥
क्रोधहा बहुनेत्रश्च महाकालो जलान्तकः ॥२९॥
एकलव्यः स चाधारो दुर्मुखो दुर्धरो वडिः ॥
इन्दुतापनरम्भो च रणचण्डहरप्रियौ ॥३०॥
किरीटी गजवक्त्रश्च महासालो विलोहितः ॥
ह्रादानुह्रादप्रह्रादवृक्षरक्षरदारुणाः ॥३१॥
शतभः शलभश्चैव कूपनश्च महासुरः ॥
विप्रचित्तिः शिवः शङ्करयः शङ्कुस्तथैव च ॥३२॥
अयःशिरा अश्वशिरा भीमदक्षो गुहाशयः ॥
वेगवान्केतुमानुग्रः सोग्रविग्रो महासुरः ॥३३॥
पुष्करः पुष्कलश्चैव साल्वोश्वपतिरेव च ॥
कुम्भो निकुम्भः शतदा संग्रहो गगनप्रियः ॥३४॥
एते चाऽन्ये च विख्याता दैतेया समरोद्धताः ॥
सर्वे लब्धवराः शूराः सर्वे च गतमन्यवः ॥३५॥
सर्वैस्त्रिदशराज्यानि कारितानि बलोद्धतैः ॥
ते हतास्तेन देवेन वासवप्रियकाम्यया ॥३६॥
केचिन्मनुष्यरूपेण तिर्यग्रूपेण चाऽपरे ॥
केचिच्च देवरूपेण निहता भूरितेजसा ॥३७॥
साल्व उवाच ॥
जानामि तस्य माहात्म्यं देवदेवस्य शार्ङ्गिणः ॥
अहं स्वमरणं मत्वा तेन योत्स्यामि भार्गव ॥३८॥
विशिष्टान्मरणं श्रेष्ठं न हीनाद्विजयो रणे ॥
विष्णोः करविनष्टानां भूयो राज्यं भविष्यति ॥३९॥
मार्कण्डेय उवाच ॥
इत्येवमुक्तस्त्वसुराधिपेन भृगुप्रधानो भगवान् स शुक्रः ॥
ज्ञात्वा स दैत्यान्सकलान्विनष्टाञ्जगाम काष्ठामपरामभीष्टाम् ॥४०॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र संवादे शुक्रसाल्वसंवादो नामाऽष्टात्रिंशत्तमोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP