संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०७३

खण्डः १ - अध्यायः ०७३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वरुण उवाच॥
लघ्वक्षरसमा मात्रा निमेषः परिकीर्तितः॥
अतः सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तम ॥१॥
नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं परमाणुतः॥
द्वौ निमेषौ त्रुटिर्ज्ञेया प्राणो दशत्रुटिः स्मृतः ॥
विनाडिका तु षट्प्राणास्ताः षष्टिर्नाडिका मता॥
अहोरात्रं च ताष्षष्ट्या नित्यमेतैः प्रकीर्तितम् ॥३॥
त्रिंशन्मुहूर्ताश्च तथा अहोरात्रेण कीर्तिताः॥
तत्र पञ्चदश प्रोक्ता राम नित्यं दिवाचराः ||४||
उत्तरां तु यदा काष्ठां क्रमादाक्रमते रविः॥
तदा तथा भवेद्वृद्धिर्दिवसस्य महाभुज ॥५॥
दिवसश्च यथा राम वृद्धिं समधिगच्छति॥
तदाश्रितमुहूर्तानां ज्ञेया हानिस्तदा तथा ॥६॥
दक्षिणां च यदा काष्ठां क्रमादाक्रमते रविः॥
दिवसस्य तदा हानिर्ज्ञातव्या नित्यमेव तु ॥७॥
क्षीयन्ते दिनहानौ तु तन्मुहूर्तास्तथैव च॥
रात्र्याश्रिताश्च वर्धन्ते रात्रिवृद्धौ तथातथा ॥८॥
यदा मेषं सहस्रांशुस्तुलां च प्रतिपद्यते॥
समरात्रिर्दिनः कालो विषुवच्छब्दवाचकः ॥९॥
तत्र दानं स्वल्पमपि महद्भवति भार्गव॥
श्राद्धं जप्यं हुतं दत्तं यच्चान्यत्सुकृतं भवेत् ॥१०॥
सूर्यसंक्रमणस्यान्ते सौरो मासस्समाप्यते॥
सौरमासद्वयं राम ऋतुरित्यभिधीयते ॥११॥
ऋतुत्रयं चायनं स्यात्तद्द्वयं च समा स्मृता॥
देवतानामहोरात्रं स च राम प्रकीर्तितः ॥१२॥
मेषादिषट्कगे सूर्ये तेषां दिवस उच्यते॥
तुलादिषट्कगे सूर्ये तेषां रात्रिः प्रकीर्तिता ॥१३॥
पितॄणां चांद्रमासेन अहोरात्रोभिधीयते॥
कृष्णपक्षाष्टमीमध्ये तेषां रात्र्युदयः स्मृतः ॥१४॥
शुक्लपक्षाष्टमीमध्ये तेषामस्तमयस्तथा॥
अर्धरात्रः पौर्णमास्यां पितॄणां समुदाहृतः ॥१५॥
कृष्णपक्षावसाने च तेषां मध्याह्न उच्यते॥
कृष्णपक्षक्षये तस्मात्तेषां श्राद्धं प्रदीयते॥
कृष्णपक्षक्षये श्राद्धं यश्च नित्यं करिष्यति॥
सततं तर्पितास्तेन भवन्ति पितरोऽव्ययाः ॥१६॥
समा शतैर्द्वादशभिर्दिव्यैस्तिष्ययुगं स्मृतम्॥
द्विगुणं द्वापरं ज्ञेयं त्रेता त्रिगुणमुच्यते ॥१७॥
चतुर्गुणं कृतं प्रोक्तं पिण्डितं चाब्दसंख्यया॥
चतुर्युगं सहस्राणि राम द्वादश कीर्तितम् ॥१८॥
अतः परं युगावस्थां निबोध गदतो मम॥
चतुष्पात्सकलो धर्मस्तथा ब्रह्मोत्तरं जगत् ॥१९॥
श्वेतवर्णो हरिर्देवो ज्ञाननित्याश्च मानवाः॥
चत्वार्यब्दसहस्राणि तेषामायुः प्रकीर्तितम् ॥२०॥
समानवीर्य्याश्च नरास्तत्र नास्त्यधरोत्तरम्॥
त्रिपादविग्रहो धर्मो राम त्रेतायुगे तदा ॥२१॥
केशवे रक्ततां याते नरा दशशतायुषः॥
यज्ञे शुभे प्रवर्तन्ते नित्यं हिंसात्मकेषु च ॥२२॥
जगत्क्षत्रोत्तरं चैव तदा भवति भार्गव॥
द्विपादविग्रहो धर्मः पीततामच्युते गते ॥२३ ।॥
समाः शतानि चत्वारि तदा जीवन्ति मानवाः॥
युद्धशौण्डा महोत्साहा लोका वैश्योत्तरास्तदा ॥२४॥
जायन्ते शास्त्रभेदाश्च मतिभेदास्तथैव च॥
स्वल्पमायुर्नृणां बुद्ध्वा विष्णुर्मानुषरूपधृक् ॥२९॥
एकमेव यजुर्वेदं चतुर्धा व्यभजत्पुनः॥
तस्य शिष्यप्रशिष्याश्च वेदमेकं पुनःपुनः ॥२६॥
शाखाभेदसहस्रेण विभजन्ति द्विजोत्तमाः॥
एकपादस्थिते धर्मे कृष्णतां केशवे गते ॥२७॥
धर्मभेदे समुत्पन्ने देवतानामनिश्चये॥
न विद्यते तदा राम आयुषस्तु विनिश्चयम् ॥२८॥
गर्भस्थाश्च म्रियन्तेत्र बाल्ययौवनगास्तथा॥
शूद्रोत्तरस्तदा लोकस्तिष्ये भवति भ्रार्गव ॥२९॥
सुरप्रतिष्ठा धर्मश्च तदा भवति भूतले॥
पापिष्ठो वर्धते राम धर्मिष्ठः क्षीयते तदा ॥३०॥
राजानः शूद्रभूयिष्ठाश्चौराश्चार्थोपजीविनः॥
ब्राह्मणास्सर्वभक्ष्याश्च भवन्ति भृगुनन्दन ॥३१॥
धर्मनिष्ठश्चिरं राजा न तदा राम जीवति॥
तस्मिन्काले सुकृतिनां भक्तिर्भवति केशवे ॥३२॥
तेषामल्पेन कालेन तोषमायाति केशवः॥
धन्याः कलियुगे राम तपस्तप्स्यन्ति मानवाः ॥३३॥
तपसाल्पेन ते सिद्धिं प्राप्स्यन्तीति च निश्चयः॥
चतुर्युगैकसप्तत्या मन्वन्तरमिहोच्यते ॥३४॥
कल्पस्तु राम विज्ञेयो मनवस्तु चतुर्दश॥
आदिमध्यान्तरालेषु मनूनां भृगुसत्तम् ॥३९॥
कृतमानप्रमाणेन सन्धिर्भवति मानद॥
चतुर्युगसहस्रं तु कल्पमाहुर्मनीषिणः ॥३६ ।॥
कल्पश्च दिवसः प्रोक्तो ब्रह्मणः परमेष्ठिनः॥
तावती च निशा तस्य यस्यां शेते स भार्गव ॥३७॥
एवंविधैरहोरात्रैर्दिनमासादिसंख्यया॥
पूर्णं वर्षशतं सर्वं ब्रह्मा भार्गव जीवति ॥३८॥
ब्रह्मायुषा परिच्छिन्नः पौरुषो दिवसः स्मृतः॥
तावती च निशा तस्य यस्येदं सकलं जगत् ॥३९॥
एवं विधा ये दिवसा व्यतीता न चागता ये च महानुभाव॥
अनादिसत्त्वात्परमेश्वरस्य ह्यानन्त्यभावाश्च तथा त्वसंख्या ॥४०॥
इति श्रीविष्णुधर्मोत्तरे प्र० मा० सं० वरुणरामसंभाषणे कालसंख्यावर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥७३॥

N/A

References : N/A
Last Updated : December 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP