संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०४२

खण्डः १ - अध्यायः ०४२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥राहुरुवाच ॥
बभूव नारी कल्याणी स देवो मधुसूदनः॥
अनिर्देश्यवयोरूपा सर्वलक्षणपूजिता ॥१॥
समांगुलितलौ श्लक्ष्णौ रक्ततुंगनखा शुभौ॥
विभृते चरणौ शुभ्रौ गूढगुल्फो मनोहरौ ॥२॥
जंघे मनोहरे शुभ्रे स्पष्टे लोमविवर्जिते॥
गृहसंध्यस्थिके श्लक्ष्णे जानुनी च तथा शुभे ॥३॥
ऊरू करिकराकारौ कदलीदलकोमलौ॥
घनमाभोगि जघनं मध्यं कुलिशसन्निभम् ॥४॥
त्रिवलीत्रिपथाधारिनाभीपुष्करमंडितम्॥
गूढस्फिके समे पार्श्वे समं पृष्ठं मनोरमम् ॥५॥
समौ सुसंहतौ पीनौ कोमलावग्रचूचुकौ॥
आभोगिनौ मण्डलिनौ स्तनौ कनकसन्निभौ ॥६॥
मृणालसदृशौ बाहू करौ कोमलकोमलौ॥
कम्बुतुल्यं शुभं कण्ठं चोन्नता च कृकाटिका ॥७॥
मुखं पूर्णेन्दुसंकाशं द्विजाः कुन्दसमप्रभाः॥
अधरौ विद्रुमाकारौ नासा स्पष्टमनोरमा ॥८॥
मधूकपुष्पसंकाशौ कपोलौ ललितावुभौ॥
भ्रूयुग्मं कामचापान्तसदृशं सुमनोहरम् ॥९॥
नातिप्रलम्बौ श्रवणौ नात्यचारू च कुण्डलौ॥
चिबुकं च मनोहारि ललाटं शशिसुप्रभम् ॥१०॥
कृष्णमध्ये सुरक्तान्ते नयने श्वेतभूमिके॥
नीलोत्पलदलाकारे दीर्घे चाऽतिमनोरमे ॥११॥
कोकिलाऽलिकुलाकारं भिन्नाञ्जनचयप्रभम्॥
केशपाशं तथा किंचिद्दधार कुटिलं शुभम् ॥१२॥
चन्द्ररश्मिप्रकाशेन वस्त्रयुग्मेन भूषिता ॥१३
रूपेणाप्रतिमा राजन्सर्वालंकारभूषिता॥
यत्रयत्र पदन्यासं करोति गजगामिनी ॥१४॥
तत्र तत्रैव वसुधा सपद्मेवोपलक्ष्यते॥
यत्रयत्राऽतिमधुरां दृष्टिं क्षिपति भामिनि ॥१५॥
सितासितोत्पलैस्तत्र किरतीव वसुंधराम्॥
यत्रयत्र स्थिता भाति देशे कनकवर्णिनी ॥१६॥
तत्र तत्रैव सौवर्णं सा करोति नभस्तलम्॥
तां दृष्ट्वा चारुसर्वांगी मन्मथाविष्टचेतसः ॥१७॥
प्रह्लादरहिताः सर्वे बभूवुर्दानवास्तदा॥
पादयोः पृथिवीं तस्या धृतिं देवीं च जङ्घयोः ॥१८॥
जानुभ्यां च तथा क्षान्तिं कान्तिमूरुयुगे शुभे॥
आयतिं नियतिं लक्ष्मीं वेलां तु जघने तथा ॥१९॥
मध्ये वाहां सतीं पृष्ठे पार्श्वयोश्च सुधां मुखे॥
रतिं प्रीतिं कुचयुगे कण्ठे वाणीं तथैव च ॥२०॥
जयां च विजयां चैव करयोर्भुजयोस्तथा॥
शोभां प्रभां वक्षसि च श्रियं देवीं मनोरमाम् ॥२१॥
अरुन्धतीं च चिबुके जिह्वायां च सरस्वतीम्॥
ज्योत्स्नां कपोलयोर्देवीं निद्रां नेत्रयुगे तथा ॥२२॥
केशपाशे तथा रात्रिं दिशं श्रोत्रयुगे तथा॥
भद्रकालीं ललाटे च नासायां च तथा शचीम् ॥२३॥
सर्वाङ्गसन्धिगा नद्यो लोमस्वथ वनस्पतिम्॥
पार्श्वयोः पर्वताश्चैव दैत्येशः सर्वदेवताः ॥२४॥
दृष्टवान्स्त्रीतनुं तत्र प्रह्लादोऽरिकुलान्तकः॥
विश्वरूपधरां दृष्ट्वा प्रह्लादस्ताश्च योषितम् ॥२५॥
विष्णुं मत्वा विशालाक्षीं ज्ञात्वा चैवाऽमृतार्थिनीम्॥
कामार्त्तदैत्यानुमतः प्रह्लादो दैत्यसत्तम ॥२६॥
प्रददावमृतं तस्यै प्रणिपत्य प्रसाद्य च॥
स्त्रीरूपमास्थितैदेवैस्त्रैलोक्यं सचराचरम् ॥२७॥
स्त्रीचेष्टमभवत्सर्वं तस्मिन्काल उपस्थिते॥
उवाच सा स्त्री प्रह्रादं दैत्य त्वममृतं विना ॥२८॥
ब्राह्ममेकमह सौम्य जीवितान्न विमोक्ष्यसे॥
योद्धुमभ्युदिता दैत्यदेवैर्दितिजकारणात् ॥२९॥
न प्रबोध्यास्तमोयुक्तास्त्वया दैत्य जनार्दना॥
भक्तोसि मे सदा वत्स सदैव विजितेन्द्रियः ॥३०॥
तेन ते दर्शिता सौम्य प्रकृतिर्या परा मम॥
इत्येवमुक्त्वा प्रह्लादं सोममादाय सत्वरा ॥३१॥
कामार्त्तान्दितिजाँस्त्यक्त्वा जगाम सुरमन्दिरम्॥
स्त्रीरूपं तत्र संत्यज्य देवरूपमुपाश्रितः ॥३२॥
पाययामास तत्सर्वं सुरान्सर्वान्समाहितान्॥
मयाऽपि मध्ये देवानां पीतं तत्सूर्यरूपिणा ॥३३॥
आदित्यरूपे दैत्योऽयं ज्ञातोऽहं शशिभास्करैः॥
निवेदितश्च देवाय तेनाऽपि लघुकारिणा ॥३४॥
चक्रेण पातितं वत्स सभुजं मस्तकं मम॥
अमृतप्राशनात्प्राणैर्न वियुक्तोऽस्मि दानव ॥३५॥
न मे कण्ठादधोभागमागतं मम चक्रिणा॥
शिरच्छिन्नं महाराज तत्र प्राणास्ततः स्थिताः ॥३६॥
शिरसश्छेदनाद्दीनं मां दृष्ट्वा मधुसूदनः॥
जातानुकम्पो भगवानिदं वचनमब्रवीत् ॥३७॥
पीतामृतस्य दैत्यस्य मरणं नाऽस्ति कर्हिचित्॥
मम हस्तविनष्टानां गतिर्भवति शोभना ॥३८॥
अमरत्वं त्वमासाद्य वरं वरय कांक्षितम्॥
ततो मयोक्तो भगवान्प्रणम्य मधुसूदनः ॥३९॥
लभेयातां हि सोमार्कौ मत्तो देव पराभवम्॥
पूजाञ्च प्रार्थये लोकाद्ग्रहत्वञ्च जनार्दन ॥४०॥
एवमुक्तः स भगवान्मामुवाच तदा हरिः॥
ग्रहत्वं भविता दैत्य पूजां चैवोपलप्स्यसे ॥४१॥
पर्वकाले च संप्राप्ते चन्द्रार्कौ छादयिष्यति ॥४२॥
तमो मूर्त्तिरदृश्यश्च विपरीतं चरिष्यसि॥
भूमिच्छायागतश्चन्द्रं चन्द्रगोऽर्कं च दानवः ॥४३॥
यस्योदयिष्यसि यदा तदा भागमवाप्स्यसि॥
स्नाने जाप्ये तथा होमे दाने श्राद्धे सुरार्चने ॥४४॥
पुण्यः स कालो भविता नित्यमेवाऽसुरेश्वर॥
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥४५॥
पीत शेषमथादाय सौमं सुरगणेश्वरः॥
सुरलोके सन्निहितं चकार बलवृत्रहा ॥४६॥
मच्छीर्षपाताभिविवृद्धकोपा हृताऽमृता दैत्यगणाः समस्ताः॥
व्यर्थभ्रमा देवगणान्निहन्तुं सन्नद्धसैन्याः प्रययुस्तदानीम् ॥४७॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽमृतविभागो नाम द्विचत्वारिंशत्तमो ऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : December 01, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP