संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०८५

खण्डः १ - अध्यायः ०८५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
शुभो वाप्यशुभो वापि कथं कालो महीतले॥
ज्ञायते भार्गवश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ॥१॥
मार्कण्डेय उवाच॥
कृत्तिका याम्यवायव्ये नागवीथ्युत्तरोत्तरे॥
गजवीथीह्युदङ्मध्ये प्राजापत्यादयस्त्रयः ॥२॥
ऐरावणे ह्युदग्भागे अहोरात्रचतुष्टयम्॥
मध्ये वरे तथा वीथी फल्गुनी ऋक्षयोर्द्वयोः ॥३॥
मध्येमध्ये तु गोवीथी अजाद्यं भचतुष्टयम्॥
मध्ययामे जरद्गः स्यात्त्रितयं श्रवणादिकम् ॥४॥
याम्योत्तरेण तु मृगा हस्तचित्रे प्रकीर्तिते॥
अजादक्षिणमध्ये तु विशाखा मैत्रयोस्स्मृताः ॥५॥
आविकायाम्ययाम्ये तु शक्राद्यं भचतुष्टयम्॥
वैश्वानरपथं प्राहुस्तमेवात्यन्तदारुणम् ॥६॥
उदयास्तमयाभ्यां च चारेण च तथा ग्रहाः॥
उत्तरासु शुभाः प्रोक्ता दक्षिणास्त्वशुभावहाः ॥७॥
सुप्रभारश्मिमन्तश्च नागवीथ्यां यदा ग्रहाः॥
न तदस्ति शुभं लोके यत्र पश्यन्ति मानवाः ॥८॥
विरश्मयो विवर्णाश्च वैश्वानरपथाश्रिताः॥
न तदस्ति शुभं राम यन्न कुर्युर्जगत्त्रये ॥९॥
रोहिणीशकटं भिन्द्युर्ग्रहा यदि भवेत्तदा॥
नाशः प्रजानां कूरश्च विशेषेणात्र लक्ष्यते ॥१०॥
सौरारसूर्याः क्रूरास्तु तथा क्षीणश्च चन्द्रमाः॥
कूरैर्युक्तो बुधश्चैव राहुः केतुस्तथैव च ॥११॥
शेषास्सौम्यग्रहाः प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः॥
रोहिणी कृत्तिका पित्र्यं वैष्णवं मैत्रमेव च ॥१२॥
पीडयन्तो ग्रहा हन्युर्दिशं वरुणपालिताम्॥
पूर्वस्यां दिशि दृश्यन्ते सर्वताराग्रहा यदि ॥१३॥
प्राच्यानां तु तदा राज्ञां भवेत्पीडा सुदारुणा॥
मध्ये च यदि दृश्यन्ते मध्यदेशनिवासि नाम् ॥१४॥
वारुण्यां यदि दृश्यंते तां दिशं पीडयन्ति च॥
हीनाधिकं चरन्तश्च व्यभ्रे वाऽदर्शनं गताः ॥१५॥
धूमायन्तो ज्वलन्तो वा वेदयन्ति महद्भयम्॥
एकान्तरितनक्षत्रगताः स्युश्चेद्ग्रहा दिवि ॥१६॥
मालानाम भवेद्योगो मध्यदेशक्षितीशहा॥
प्रासश्चक्रं धनुर्वज्रं सस्यानां क्षुद्रवृष्टिदाः ॥१७॥
ग्रहा भयावहा नित्यं शृङ्गाटकपुरोगमाः॥
भवेयुरेकर्क्षगतास्त्रिभिरूर्द्ध्वं यदा ग्रहाः ॥१८॥
विनाशायैव लोकानां विज्ञेयास्सुमहीक्षिताम्॥
एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ॥१९॥
शनैश्चरो वा दृश्येत तदा दुर्भिक्षमादिशेत्॥
चित्रायां लोहितो यत्र मूले देवगुरुस्तथा ॥२०॥
भार्गवश्च श्रविष्ठासु तदा घोरं भयं भवेत्॥
कृत्तिकासु शनैश्चारी विशाखासु बृहस्पतिः ॥२१॥
स्थितौ प्रजानां पीडायै वृष्टिमन्तर्दिवं भवेत्॥
प्राग्द्वारेषु चरन्भेषु सौरो वक्रभियाद्यदि ॥२२॥
पृथिवीं पीडयेत्सर्वां पूर्वदेशं विशेषत॥
रौद्रे हस्ते तथैवाप्ये आहिर्बुध्न्ये शनैश्चरः ॥२३॥
यदोदयं प्रपद्येत तदा नश्यन्ति पार्थिवाः॥
सौम्ये त्वाष्ट्रे श्रविष्ठासु स्थिते सौरै महीक्षितः ॥२४॥
सर्वपीडां समर्हन्ति यया यान्ति यमान्तिकम्॥
पूर्वां पराशां संप्राप्तो भृगुजीवौ परस्परम् ॥२५॥
सप्तमर्क्षगतौ स्यातां तदत्र देवो न वर्षति॥
अपर्वणि शशाङ्कार्कौ त्वष्टानाम महाग्रहः ॥२६॥
आवृणोति तमः श्यामः सर्वलोकविपत्तये॥
उदयास्तमये भानोश्चन्द्रस्य च यदा भवेत् ॥२७॥
परिवेषस्तदा राजा क्षिप्रं वधमवाप्नुयात्॥
सकलं चेदहस्सूयो रात्रिं चेत्सकलां शशी ॥२८॥
परिवेषी भवेद्राजा तत्रापि वधमर्हति॥
द्विसूर्ये गगने वृद्धिं क्षत्त्रियाणां विनिर्दिशेत् ॥२९॥
द्विचन्द्रे ब्राह्मणानां तु चाधिक्यं प्रलयाय तु॥
उदयास्तमयौ यत्र सोमार्कौ रक्तमण्डलौ ॥३०॥
न चात्राभ्राणि दृश्यन्ते तन्महाभयलक्षणम्॥
चन्द्रमा जन्मनक्षत्रं परित्यजति यस्य तु ॥३१॥
श्यावो रूक्षोपसव्यं तु तस्य विद्यादुपद्रवम्॥
अत्यन्ता दर्शने राहोस्तथा चात्यन्तदर्शने ॥३२॥
प्रजापीडा विनिर्देश्या व्याधिदुर्भिक्षतस्करैः॥
यन्नक्षत्रगतो राहुर्ग्रसते चन्द्रभास्करौ ॥३३॥
तज्जातानां भवेत्पीडा ये नराश्शान्तिवर्जिताः॥
ग्रहोपसृष्टे नक्षत्रे ग्रहणं तु यदा भवेत् ॥३४॥
तदा पीडा विनिर्देश्या सैनिकानां नृपैस्सह॥
गृहीतो राहुणा चन्द्रः सूर्यो वा गगनाच्च्युतः ॥३५॥
उल्कानि हन्यात्तत्रान्यो राजा राज्यं करिष्यति॥
गृहीतौ परिवेषे तौ यदा चन्द्रदिवाकरौ ॥३६॥
समन्तात्पीड्यते देशः शस्त्रकोपश्च जायते॥
मेघैस्संछाद्यते राहुस्त्वतिवर्षति वा यदा ॥३७॥
अकालजैस्तदा राज्ञो भयं विद्यादुपस्थितम्॥
यन्न क्षत्रागते सूर्ये छिद्रं वै संप्रपद्यते ॥३८॥
तज्जातः पार्थिवः क्षिप्रं यमलोकं गमिष्यति॥
ताम्रकुङ्कुमरूक्षाभो घृतहारिद्रसन्निभः ॥३९॥
बन्धुजीवनिभो भानुः शिशिराद्येषु शस्यते॥
अस्वच्छवर्णः परुषो वेपनः खण्डमण्डलः ॥४०॥
सच्छिद्रे रजसा ध्वस्त उल्काद्युपहतोपि वा॥
मण्डलादन्यसंस्थानं मेघैश्चायुधसन्निभैः ॥४१॥
उदयास्तमये च्छन्नः पार्थिवानां न शस्यते॥
पक्षादौ चापसंस्थाने युद्धं शशिनि निर्दिशेत् ॥४२॥
लाभस्तेषां जयस्तेषां यत्र दृष्टं भयं ततः॥
समकोटिविशालश्च किंचिद्वाप्युत्तरोन्नतः ॥४३॥
मासादौ चन्द्रमाः शस्तो वाम एव विपर्ययः॥
मण्डलेनान्तरीकुर्वञ्शृङ्गे सा यदि वा स्पृशेत् ॥४४॥
ताराग्रहं तदा कुर्याद्भयं जनपदे शशी॥
शुक्लपक्षस्य या वृद्धिर्लोके क्षेमसुभिक्षदा ॥४५॥
सा सितेतरपक्षस्य पृथिव्यां नैव गम्यते॥
श्रवणेभ्युदितो भौमः पुष्ये वक्रमियाद्यदि ॥४६॥
प्राजापत्युदितश्चन्द्रो नाशाय स्यान्महीक्षिताम॥
गतागतं यदा कुर्यान्मघामध्येन लोहितः ॥४७॥
तदा भवत्यनावृष्टिः पाण्ड्यो राजा विनश्यति॥
फल्गुन्योरुदयं कृत्वा वक्रः स्याद्वैश्वदैवके ॥४८॥
प्रजापत्ये प्रवासश्च त्रैलोक्यं तत्र पीड्यते॥
ध्रुवेषु वैष्णवे मूले शाक्रे च विचरन्कुजः ॥४९॥
घोरां करोत्यनावृष्टिं कृत्तिकासु मघासु च॥
कार्त्तिकेऽश्वयुजे पौषे चाषाढे श्रावणे बुधः ॥५०॥
दृष्टो लोके भयाय स्यान्माघवैशाखयोस्तथा॥
अकस्माद्यत्र दृश्येत दिवा देवपुरोहितः ॥५१॥
राजा वा म्रियते तत्र स वा देशो विनश्यति॥
अहस्सर्वं यदा शुक्रो दृश्यतेऽथ महाग्रहः ॥५२॥
तदा त्वग्न्यादिभिर्ग्रामान्बाधते नगराणि च॥
कार्त्तिके तु यदा मासि कुर्वातेऽस्तमयादयौ ॥५३॥
तदह्नां नवति पूर्णं भुवि देवो न वर्षति॥
शनैश्चरो देशपीडां देशनक्षत्रपीडने ॥५४॥
ध्रुवं करोति राजेन्द्र नित्यं चारवशेन तु॥
सप्ताहान्तर्गता ये वै दिव्यपार्थिवनाभसाः॥
ग्रहोपरागे तीव्रास्स्युरुत्पाताः स्वफलेषु ते ॥५५॥
एकस्मिन्यदि मासे स्याद्ग्रहणं चन्द्रसूर्ययोः॥
ब्रह्मक्षत्रविरोधाय विपरीतविवृद्धये ॥५६॥
यस्मिन्दृश्येत नक्षत्रे विशाखायां प्रधूपवत्॥
तद्देशजाता पीडा स्याद्बुधकेतुमहाग्रहाः ॥५७॥
उल्काद्यभिहते सूर्ये केतुभिर्वा विधूमिते॥
अगस्त्ये वा ध्रुवे वापि प्रजापीडां विनिर्दिशेत ॥५८॥
उल्कयाभिहता रूक्षा स्फुरणा रजसा युताः॥
ऋषयस्सप्त लोकानां विनाशाय च भूभृताम् ॥५९॥
कृत्तिकाभिस्सहोदेति शांकरी दिशमाश्रितः॥
कुमारीप्रीतितो हन्याल्लोके नृपकुमारकान् ॥६०॥
समागमे ग्रहाणां तु चन्द्रमाः शस्यते ह्युदक्॥
नक्षत्राणां च राजेन्द्र दक्षिणेन न शस्यते ॥६१॥
राहुः केतुः कुजः शक्रश्चन्द्रेण सहयायिनः॥
बुधो जीवश्च सौरश्च नागरा रविणा सह ॥६२॥
यायिना विजिते पौरे राज्ञां स्याद्यायिनां जयः॥
यायिग्रहे पौरजिते पुरा राज्ञां जयो मृधे ॥६३॥
पौरेण विजिते पौरे पौरैः पौरक्षयं वदेत्॥
यायिना यायिनि हते यायिभ्यो यायिनां क्षयः ॥६४॥
ग्रहाणां चेद्भवेत्साम्यं साम्यं राज्ञां विनिर्दिशेत्॥
जयाजयौ नरेन्द्राणां निर्देश्यो ग्रहवद्बुधैः ॥६५॥
ग्रहारूढश्च्युतस्स्थानात्स्फुरेण विजितो ग्रहः॥
विजितो जयलिङ्गैश्च कृष्णः श्यामद्युतिस्तथा ॥६६॥
उदङ्मार्गगतिः स्निग्धो विमलो विमलप्रभः॥
बृहद्रूपोतिशुक्रश्च विजयी कथितो ग्रहः ॥६७॥
न देयमेतच्चपलस्य लोके न नास्तिकस्याधमपूरुषस्य॥
गुह्यं मुनीनामपि पार्थिवेन्द्र मयेरितं कालविनिश्चयं ते ॥६८॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० ग्रहशुभाशुभपरिज्ञानवर्णनं नाम पञ्चाशीतितमोयायः ॥८५॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP