संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०६५

खण्डः १ - अध्यायः ०६५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


शङ्कर उवाच॥
जानुतुल्यं मृदुशुभं चैलाजिनकुशोत्तरम्॥
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥१॥
चतुर्णामासनानां च बद्ध्वा तत्रैकमासनम्॥
योगं युञ्जीत विधिवद्यथावदुनुपूर्वशः ॥२॥
राम उवाच॥
योगासनानि चत्वारि भगवन्कानि ब्रूहि मे॥
येषामेकमथास्थाय योगं युञ्जीत मानवः ॥३॥
शङ्कर उवाच॥
स्वस्तिकं सर्वतोभद्रं पर्यङ्कं कमलासनम्॥
योगासनानि चत्वारि तेषां वक्ष्यामि लक्षणम् ॥४॥
आसन्ने जानुनी कृत्वा यथावत्सुसमाहितः॥
वामं कृत्वेतरे पादे वामजङ्घोरुपीडितम् ॥५॥
स्वस्तिकं नाम तत्प्रोक्तमासनं प्रथमं शुभम्॥
ऊरू च जानुनी जङ्घे यत्रासनगतः समम् ॥६॥
आसनं सर्वतोभद्रं तद्विद्धि मनुजोत्तम॥
पर्यङ्के योगपट्टेन बध्नीयात्पृष्ठयोगतः ॥७॥
आकुञ्च्य जानुनी सम्यक्पादं कृत्वा च बाह्यतः॥
दक्षिणं वामजङ्घायां पर्यङ्कासनकारणम् ॥८॥
आसने सर्वतोभद्रे यदा भवति मानवः॥
ऊरुस्थोत्तानचरणस्तदा स्यात्कमलासनम् ॥९॥
आसनस्थस्य करणं निबोध गदतो मम॥
समानीयोरुमूलेन हस्तौ भार्गव तिर्यगौ ॥१०॥
कृत्वोत्तानौ समौ विद्वान्वामस्योपरि दक्षिणम्॥
अङ्गुलीच्छादकं विद्वानङ्गुली नां तु विन्यसेत् ॥११॥
किञ्चिदाकुञ्चिताङ्गुष्ठौ कर्तव्यौ च तथा करौ॥
उरश्चोत्थाप्य विततं कृत्वा राम परिश्लथम् ॥१२॥
पृष्ठमाकुञ्चयेत्स्कन्धे देहमुन्नामयेत्सुधीः॥
निष्कम्पां सुदृढामृज्वीं नातिस्तब्धां न कुञ्चिताम् ॥१३॥
ग्रीवां विधारयेद्यत्नाच्छिरः कार्यं समं सदा॥
संपस्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥१४॥
किञ्चिन्निमीलिते नेत्रे दन्तैर्दन्तान्न संस्पृशेत्॥
तालुमध्यगतेनैव जिह्वाग्रेण समाहितः ॥१९॥
स बद्धकरणो विद्वानभ्यासात्पवनं जयेत्॥
जित्वा वायुं यथाशक्ति योगं युञ्जीत बुद्धिमान् ॥१६॥
आदौ तु चिन्तयेत्स्थूलां भूमिं पञ्चगुणान्विताम्॥
लब्धलक्षो महायोगी भूमियोगं समुत्सृजेत् ॥१७॥
ततश्चतुर्गुणं ध्यानं कर्तव्यमुदके द्विज॥
लब्धलक्ष अपां योगी जलयोगं समुत्सृजेत् ॥१८॥
ततस्तु योगं युञ्जीत त्रिगुणं द्विज तेजसि॥
लब्धलक्षश्च तत्रापि वह्नियोगं समुत्सृजेत् ॥१९॥
ततस्तु योगं युञ्जीत पवने द्विगुणं द्विज॥
लब्धलक्षश्च तत्रापि वायुयोगं समुत्सृजेत् ॥२०॥
ततस्त्वेकगुणं योगं युञ्जीत गगने बुधः॥
लब्धलक्षश्च तत्रापि मनोयोगगतिर्भवेत् ॥२१॥
मनसश्चन्द्रमाः प्रोक्तः प्रथमं चन्द्रमण्डले॥
ऊर्ध्वलक्षं बुधः कृत्वा चन्द्रमण्डलमध्यगे ॥२२॥
अङ्गुष्ठमात्रे पुरुषे लक्षबन्धं तु कारयेत्॥
शशाङ्कशतसंकाशे सर्वालङ्कारभूषिते ॥२३॥
लब्धलक्षश्च तत्रापि बुद्धियोगगतिर्भवेत्॥
बुद्धिश्च भगवान्सूर्यः प्रथमं सूर्यमण्डले ॥२४॥
समग्रमेव संपश्येद्ध्यानयोगेन बुद्धिमान्॥
सूर्यमण्डलमध्यस्थं शतसूर्यसमप्रभम् ॥२५॥
अङ्गुष्ठमात्रं पुरुषं सर्वाभरणभूषितम्॥
चिन्तयेत्प्रयतो नाम तत्परः सुसमाहितः ॥२६ ।॥
लब्धलक्षश्च तत्रापि नित्यमात्मानमात्मना॥
आत्मस्थमेव s संपश्येद्ध्यानयोगेन भार्गव ॥२७॥
अङ्गुष्ठमात्रं पुरुषं सूर्यबिम्बगतं यथा॥
ध्यानयोगेन संपश्येत्तथा पश्येत्तथात्मनि ॥२८॥
अधोमुखे हृत्कमले कर्णिकायां भृगूत्तम॥
लब्धलक्षश्च तत्रापि अव्यक्तं चिन्तयेत्पदम् ॥२९॥
बहिरन्तश्च सर्वत्र तेजसा तत्र चिन्तयेत्॥
नैवार्केण न चन्द्रेण सर्वं व्याप्तमशेषतः ॥३० ।॥
लब्धलक्षश्च तत्रापि पुरुषं चिन्तयेत्परम्॥
शून्यं तु पुरुषं ध्यानं प्रवदन्ति मनीषिणः ॥३१॥
साकारे बद्धलक्षस्तु शून्यं शक्नोति चिन्तितुम्॥
अन्यथा तु सुकष्टं स्यान्निरालम्बस्य चिन्तनम् ॥३२॥
चित्तवृत्तिनिरोधो हि दुष्करः प्रतिभाति मे॥
तत्र यत्नः सदा कार्यो विजये पवनस्य च ॥३३॥
चित्तवृत्तिनिरोधेन पवनस्य जयेन च॥
उपासनाया शून्यस्य निष्फलत्वं विधीयते ॥३४॥
अरूपगन्धमनसं शब्दस्पर्शविवर्जितम्॥
सर्वेन्द्रियगुणं राम सर्वस्थं सर्वगं च यत् ॥३५॥
( तं ध्यायन्पुरुषं तस्य ध्यानं शून्यं प्रकीर्तितम् ॥)
तस्य स्वरूपं विज्ञाय राम शून्यमुपासतः ॥३६॥
सर्वबन्धनमुक्तस्य निष्फलत्वं विधीयते॥
अखण्डकारिणस्त्वेवं नित्यं भृगुकुलोद्वह ॥३७॥
संवत्सरशते पूर्णे सत्रिभागे महाभुज॥
निष्फलत्वं परं स्थानं ध्रुवं भवति भार्गव ॥३८॥
राम उवाच॥
संवत्सरशतं पूर्णं त्रिभागसहितं विभो॥
अजीवतो निष्फलत्वं कथं भवति शङ्कर ॥३९॥
शङ्कर उवाच॥
अखण्डकारी भवति यद्येकमपि जन्मनि॥
जन्मक्रमादवश्यं हि राम जन्मनिजन्मनि ॥४०॥
पूरणीयं सत्रिभागं ध्रुवं तेन समाः शतम्॥
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥४१॥
अखण्डकारिणो राम प्रवृत्तस्य द्विजन्मनः॥
अवश्यमेव तत्स्थानं यद्विष्णोः परमं पदम् ॥४२॥
राम उवाच॥
अखण्डकारिता प्रोक्ता त्वया देव द्विजन्मनाम्॥
शूद्रो वा यदि वा नारी कथं स्थानमवाप्नुयात् ॥४३॥
शङ्कर उवाच॥
अखण्डकारिणी पत्नी प्राप्नोति परमं पदम्॥
शूद्रः स्वकर्मनिरतः केशवार्पितमानसः ॥४४॥
जात्यन्तरमथासाद्य भक्तियोगेन भावितः॥
अखण्डकारी भवति ततः प्राप्नोति तत्पदम् ॥४९॥
मार्कण्डेय उवाच॥
एतावदुक्तं देवेन त्र्यम्बकेण महात्मना॥
तदा तुष्टेन रामाय रहस्यमृषिपूजितम् ॥१६॥
एतद्बलिविहीनाय न तु वाच्यं यदूत्तम्॥
न नास्तिकाय मूर्खाय तर्कदुष्टाय वा तथा ॥४७॥
एतत्तु शृण्वते वाच्यं शिष्याय च सुताय च॥
यो वा दद्यान्महीं कृत्स्नां सशैलवनकाननाम् ॥४८॥
एतद्गुह्यं परं पुण्यं पवित्रं पापनाशनम्॥
आयुष्यं च यशस्यं च कलिदुःस्वप्ननाशनम् ॥४९॥
अध्येतव्यमिदं सम्यग्वचनं शंकरस्य च॥
सर्वबन्धविनिर्मुक्तः प्राप्नोति परमं पदम् ॥५०॥
एतावदुक्तं त्रिपुरान्तकेन तुष्टेन रामस्य महाबलस्य॥
मया तथा तेऽभिहितं नरेन्द्र धार्यं त्वयेदं सततं यथावत् ॥९१॥
इति विष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासमाप्तिर्नाम पञ्चषष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP