रसवहस्त्रोतस् - दग्धव्याधी
धर्म, अर्थ, काम आणि मोक्ष या चतुर्विध पुरूषार्थांच्या प्राप्तीकरितां आरोग्य हे अत्यंत आवश्यक असते.
उष्णवातातपैर्दग्धे शीत; कार्यो विधि: सदा ।
शीतवर्षानिलैर्दग्धे स्निग्धमुष्णं च शस्यते ॥
तथाऽतितेजसा दग्धे सिद्धिर्नास्ति कथंचन ।
इन्द्रवज्राग्निदग्धेऽपि जीवति प्रतिकारयेत् ॥
स्नेहाभ्यड्गपरीषेकै: प्रदेहैश्च तथा भिषक् ।
इदानीं दग्धचिकित्साप्रसड्गेन दग्धसदृशस्य चिकित्सां-
दर्शयन्नाह-उष्णेत्याहि । उष्णवातो ग्रैष्मिक: शारदो वा;
उष्णवातेनातपेन च दग्ध इव दग्ध:, उष्णवातातपाभ्यामिति-
द्विवचने प्राप्ते बहुवचनमनुक्तोष्णप्रापणार्थम् । सदास्थाने
केचिद् `व्रणे' इति पठन्ति व्याख्यानयन्ति च - व्रणे इति
त्वगादिव्रणवस्तुनि । शीतवर्षानिलैर्दग्धे इति शीतं हिमं
हिमदग्धस्तुषारदग्ध इति लोकोक्त्या हिमदग्धेऽपि दाह-
सादृश्यमस्ति; वर्षानिल इति वृष्टिसंयुक्तो वात:, अत्रापि
बहुवचनमनुक्तशीतप्रापणार्थम् । `दग्धे' इत्यस्य स्थाने
केचित् `हृते' इति पठन्ति । तथाहि अतितेजसा दग्धे न
सिध्यति `कथंचन' इति यत् कृतं तत् किंचिदग्धे
सिद्धिरपि भवतीति ज्ञापनार्थम् । तत्र च पूर्वोक्तेन विधिना
शीतोषणादिना प्रतिकर्तव्यमिति । अस्याग्रे केचित् `इन्द्र-
वज्राग्निदग्धेऽपि जिवति प्रतिकारयेत् । स्नेहाभ्यड्गापरीषेकै:
प्रदेहैश्च तथा भिषक्' इति पठन्ति; तं च निबन्धकारा न
पठति ।
सटिक सु. उ. १२-३८, ३९ पान ५५
ग्रीष्म शरद्काली उन्हाची झळ लागल्यामुळें वा प्रत्यक्ष उन्हामुळें त्वचेचा दाह होतो. त्याचप्रमाणें हिमवर्षामुळें किंवा वारा आणि पाऊस यांचा मार लागल्यामुळें दाह उत्पन्न होतो. वीज पडूनही दाह होतो. अत्यंत तीक्ष्ण अशा उष्णतेमुळें उत्पन्न झालेला दाह बरा होत नाहीं. इतरत्र स्नेहाभ्यंग व परिषेक प्रदेह असें उपचार कारणानुरोधानें करावेत. चंदन, वाळा सारिवा, रानकेळीचे बीं, पित्तपापडा, प्रवाळ, मौक्तिक जहरमोहरा अशीं द्रव्यें वापरावींत.
N/A
References : N/A
Last Updated : July 24, 2020
TOP